View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री बगलामुखी अष्टोत्तर शत नामा स्तोत्रं

नारद उवाच
भगवन् देवदेवेश सृष्टिस्थितिलयेश्वर ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥ 1 ॥

श्री भगवानुवाच
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्या महादेव्याः स्तोत्रं पापप्रणाशनम् ॥ 2 ॥

यस्य प्रपठनात्सद्यो वादी मूकोभवेत् क्षणात् ।
रिपवस्स्तम्भनं यान्ति सत्यं सत्यं वदाम्यहम् ॥ 3 ॥

ॐ अस्य श्रीपीताम्बर्यष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः अनुष्टुप्छन्दः श्रीपीताम्बरी देवता श्रीपीताम्बरी प्रीतये जपे विनियोगः ।

ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।
बहुला देवमाता च महाविष्णुप्रसूरपि ॥ 4 ॥

महामत्स्या महाकूर्मा महावाराहरूपिणी ।
नारसिंहप्रिया रम्या वामना पटुरूपिणी ॥ 5 ॥

जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा च विकारिणी ॥ 6 ॥

बुद्धिरूपा बुद्धभार्या बौद्धपाषण्डखण्डिनी ।
कल्किरूपा कलिहरा कलिदुर्गतिनाशिनी ॥ 7 ॥

कोटिसूर्यप्रतीकाशा कोटिकन्दर्पमोहिनी ।
केवला कठिना काली कला कैवल्यदायिनी ॥ 8 ॥

केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥ 9 ॥

नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥ 10 ॥

नागिनी नागजननी नागराजप्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥ 11 ॥

नगाधिराजतनया नगराजप्रपूजिता ।
नवीना नीरदा पीता श्यामा सौन्दर्यकारिणी ॥ 12 ॥

रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥ 13 ॥

रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥ 14 ॥

रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥ 15 ॥

लङ्कापतिध्वंसकरी लङ्केशरिपुवन्दिता ।
लङ्कानाथकुलहरा महारावणहारिणी ॥ 16 ॥

देवदानवसिद्धौघपूजितापरमेश्वरी ।
पराणुरूपा परमा परतन्त्रविनाशिनी ॥ 17 ॥

वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ॥ 18 ॥

वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥ 19 ॥

पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥ 20 ॥

यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥ 21 ॥

प्रभातकाले प्रयतो मनुष्यः
पठेत्सुभक्त्या परिचिन्त्य पीताम् ।
ध्रुवं भवेत्तस्य समस्तवृद्धिः
विनाशमायाति च तस्य शत्रुः ॥ 22 ॥

इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रम् ।




Browse Related Categories: