View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अभिरामि स्तोत्रम्

नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि ।
भक्तानामिष्टदे मातः अभिरामि नमोऽस्तु ते ॥ 1 ॥

चन्द्रोदयं कृतवती ताटङ्केन महेश्वरि ।
आयुर्देहि जगन्मातः अभिरामि नमोऽस्तु ते ॥ 2 ॥

सुधाघटेशश्रीकान्ते शरणागतवत्सले ।
आरोग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 3 ॥

कल्याणि मङ्गलं देहि जगन्मङ्गलकारिणि ।
ऐश्वर्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 4 ॥

चन्द्रमण्डलमध्यस्थे महात्रिपुरसुन्दरि ।
श्रीचक्रराजनिलये अभिरामि नमोऽस्तु ते ॥ 5 ॥

राजीवलोचने पूर्णे पूर्णचन्द्रविधायिनि ।
सौभाग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 6 ॥

गणेशस्कन्दजननि वेदरूपे धनेश्वरि ।
विद्यां च देहि मे कीर्तिं अभिरामि नमोऽस्तु ते ॥ 7 ॥

सुवासिनीप्रिये मातः सौमाङ्गल्यविवर्धिनी ।
माङ्गल्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 8 ॥

मार्कण्डेय महाभक्त सुब्रह्मण्य सुपूजिते ।
श्रीराजराजेश्वरी त्वं ह्यभिरामि नमोऽस्तु ते ॥ 9 ॥

सान्निध्यं कुरु कल्याणी मम पूजागृहे शुभे ।
बिम्बे दीपे तथा पुष्पे हरिद्रा कुङ्कुमे मम ॥ 10 ॥

अभिराम्या इदं स्तोत्रं यः पठेच्छक्तिसन्निधौ ।
आयुर्बलं यशो वर्चो मङ्गलं च भवेत्सुखम् ॥ 11 ॥

इति श्रीअभिरामिभट्टार् कृत श्री अभिरामि स्तोत्रम् ।




Browse Related Categories: