View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध देवनागरी (Samskritam). View this in सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

मूक पञ्च शति 1 - आर्य शतकम्


कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता |
काचन विहरति करुणा काश्मीरस्तबककोमलाङ्गलता ‖1‖

कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् |
कठिनस्तनभरनम्रं कैवल्यानन्दकन्दमवलम्बे ‖2‖

चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे |
चिरतरसुचरितसुलभा चित्तं शिशिरयतु चित्सुखाधारा ‖3‖

कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् |
कुरुते विहृतिं काञ्च्यां कुलपर्वतसार्वभौमसर्वस्वम् ‖4‖

पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन |
काञ्चीसीम्नि कुमारी काचन मोहयति कामजेतारम् ‖5‖

परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया |
परतन्त्रा वयमनया पङ्कजसब्रह्मचारिलोचनया ‖6‖

ऐश्वर्यमिन्दुमौलेरैकत्म्यप्रकृति काञ्चिमध्यगतम् |
ऐन्दवकिशोरशेखरमैदम्पर्यं चकास्ति निगमानाम् ‖7‖

श्रितकम्पसीमानं शिथिलितपरमशिवधैर्यमहिमानम् |
कलये पटलिमानं कञ्चन कञ्चुकितभुवनभूमानम् ‖8‖

आदृतकाञ्चीनिलयमाद्यामारूढयौवनाटोपाम् |
आगमवतंसकलिकामानन्दाद्वैतकन्दलीं वन्दे ‖9‖

तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् |
गङ्गाधरपरतन्त्रं शृङ्गाराद्वैततन्त्रसिद्धान्तम् ‖10‖

काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् |
परमां कलामुपासे परशिववामाङ्कपीठिकासीनाम् ‖11‖

कम्पातीचराणां करुणाकोरकितदृष्टिपातानाम् |
केलीवनं मनो मे केषाञ्चिद्भवतु चिद्विलासानाम् ‖12‖

आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् |
आरब्धयौवनोत्सवमाम्नायरहस्यमन्तरवलम्बे ‖13‖

अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन |
अनुबद्धं मम मानसमरुणिमसर्वस्वसम्प्रदायेन ‖14‖

अङ्कितशङ्करदेहामङ्कुरितोरोजकङ्कणाश्लेषैः |
अधिकाञ्चि नित्यतरुणीमद्राक्षं काञ्चिदद्भुतां बालाम् ‖15‖

मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा |
चिद्वपुषा काञ्चिपुरे केलिजुषा बन्धुजीवकान्तिमुषा ‖16‖

मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन |
मध्येकाञ्चि मनो मे मनसिजसाम्राज्यगर्वबीजेन ‖17‖

धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् |
अम्बुमयीमिन्दुमयीमम्बामनुकम्पमादिमामीक्षे ‖18‖

लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् |
पीनस्तनभरमीडे मीनध्वजतन्त्रपरमतात्पर्यम् ‖19‖

श्वेता मन्थरहसिते शाता मध्ये च वाड्भनोऽतीता |
शीता लोचनपाते स्फीता कुचसीम्नि शाश्वती माता ‖20‖

पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् |
पुनतीं काञ्चीदेशं पुष्पायुधवीर्यसरसपरिपाटीम् ‖21‖

पुण्या काऽपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा |
पुलिनचरी कम्पायाः पुरमथनं पुलकनिचुलितं कुरुते ‖22‖

तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् |
तटसीमनि कम्पायास्तरुणिमसर्वस्वमाद्यमद्राक्षम् ‖23‖

पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः |
अद्राक्षमात्तयौवनमभ्युदयं कञ्चिदर्धशशिमौलैः ‖24‖

संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे |
संविन्मये विलीये सारस्वतपुरुषकारसाम्राज्ये ‖25‖

मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् |
आदृतकाञ्चीखेलनमादिममारुण्यभेदमाकलये ‖26‖

उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् |
उन्नम्रस्तनकलशीमुत्सवलहरीमुपास्महे शम्भोः ‖27‖

एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् |
एकाम्रनाथजीवितमेवम्पददूरमेकमवलम्बे ‖28‖

स्मयमानमुखं काञ्चीभयमानं कमपि देवताभेदम् |
दयमानं वीक्ष्य मुहुर्वयमानन्दामृताम्बुधौ मग्नाः ‖29‖

कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते |
कुरुते मनोविहारं कुलगिरिपरिबृढकुलैकमणिदीपे ‖30‖

वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् |
विद्रुमसहचरदेहं विभ्रमसमवायसारसन्नाहम् ‖31‖

कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः |
कूलङ्कषकुचकुम्भं कुसुमायुधवीर्यसारसंरम्भम् ‖32‖

कुडूमलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् |
कुङ्कुमशोणैर्निचितं कुशलपथं शम्भुसुकृतसम्भारैः ‖33‖

अङ्कितकचेन केनचिदन्धङ्करणौषधेन कमलानाम् |
अन्तःपुरेण शम्भोरलङ्क्रिया काऽपि कल्प्यते काञ्च्याम् ‖34‖

ऊरीकरोमि सन्ततमूष्मलफालेन ललितं पुंसा |
उपकम्पमुचितखेलनमुर्वीधरवंशसम्पदुन्मेषम् ‖35‖

अङ्कुरितस्तनकोरकमङ्कालङ्कारमेकचूतपतेः |
आलोकेमहि कोमलमागमसंलापसारयाथार्थ्यम् ‖36‖

पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे |
मञ्जरितमृदुलहासं पिञ्जरतनुरुचि पिनाकिमूलधनम् ‖37‖

लोलहृदयोऽस्ति शम्भोर्लोचनयुगलेन लेह्यमानायाम् |
ललितपरमशिवायां लावण्यामृततरङ्गमालायाम् ‖38‖

मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः |
मण्डितकम्पातीरैर्मङ्गलकन्दैर्ममास्तु सारूप्यम् ‖39‖

वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता |
पूरुषत्रितये त्रेधा पुरन्ध्रिरूपा त्वमेव कामाक्षि ‖40‖

बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् |
आधारीकृतकाञ्ची बोधामृतवीचिमेव विमृशामः ‖41‖

कलयाम्यन्तः शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् |
अलयामागमपीठीनिलयां वलयाङ्कसुन्दरीमम्बाम् ‖42‖

शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे |
सर्वाकृतये शोणिमगर्वायास्मै समर्प्यते हृदयम् ‖43‖

समया सान्ध्यमयूखैः समया बुद्धया सदैव शीलितया |
उमया काञ्चीरतया न मया लभ्यते किं नु तादात्म्यम् ‖44‖

जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि |
वन्धो यदि भवति पुनः सिन्धोरम्भस्सु बम्भ्रमीति शिला ‖45‖

कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे |
गुणिनि गुहारिणि गुह्ये गुरुमूर्ते त्वां नमामि कामाक्षि ‖46‖

अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः |
अनहन्ता त्वमहन्ता भ्रमयसि कामाक्षि शाश्वती विश्वम् ‖47‖

शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः |
विपिनं भवनममित्रं मित्रं लोष्टं च युवतिबिम्बोष्ठम् ‖48‖

कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते |
कामदुघा भव कमले कामकले कामकोटि कामाक्षि ‖49‖

मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् |
चण्डकरशक्रकार्मुकचन्द्रसमाभां नमामि कामाक्षीम् ‖50‖

अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमयैः |
अतिशीतं मम मानसमसमशरद्रोहिजीवनोपायैः ‖51‖

नन्दति मम हृदि काचन मन्दिरयन्ता निरन्तरं काञ्चीम् |
इन्दुरविमण्डलकुचा बिन्दुवियन्नादपरिणता तरुणी ‖52‖

शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् |
लिम्पामि मनसि किञ्चन कम्पातटरोहि सिद्धभैषज्यम् ‖53‖

अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः |
आनन्ददां भजे तामानङ्गब्रह्मतत्वबोधसिराम् ‖54‖

ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् |
अधिकाञ्चि निगमवाचां सिद्धान्तं शूलपाणिशुद्धान्तम् ‖55‖

आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया |
आश्रितकाञ्चीमतुलामाद्यां विस्फूर्तिमाद्रिये विद्याम् ‖56‖

मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् |
एको भवति स जन्तुर्लोकोत्तरकीर्तिरेव कामाक्षि ‖57‖

पञ्चदशवर्णरूपं कञ्चन काञ्चीविहारधौरेयम् |
पञ्चशरीयं शम्भोर्वञ्चनवैदग्ध्यमूलमवलम्बे ‖58‖

परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् |
पञ्चाशदर्णकल्पितमदशिल्पां त्वां नमामि कामाक्षि ‖59‖

आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् |
स्वादिष्ठचापदण्डां नेदिष्ठामेव कामपीठगताम् ‖60‖

तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया |
स्वासनया सकलजगद्भासनया कलितशम्बरासनया ‖61‖

प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती |
सामवती नित्यगिरा सोमवती शिरसि भाति हैमवती ‖62‖

कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः |
कुलदैवतेन महता कुड्मलमुद्रां धुनोतु नःप्रतिभा ‖63‖

यूना केनापि मिलद्देहा स्वाहासहायतिलकेन |
सहकारमूलदेशे संविद्रूपा कुटुम्बिनी रमते ‖64‖

कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् |
स्थापितमस्मिन्कथमपि गोपितमन्तर्मया मनोरत्नम् ‖65‖

दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् |
कलये नवतारुण्यं कम्पातटसीम्नि किमपि कारुण्यम् ‖66‖

अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः |
आनन्दपाकभेदामरुणिमपरिणामगर्वपल्लविताम् ‖67‖

बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् |
एणधरकोणचूडं शोणिमपरिपाकभेदमाकलये ‖68‖

किं वा फलति ममान्यौर्बिम्बाधरचुम्बिमन्दहासमुखी |
सम्बाधकरी तमसामम्बा जागर्ति मनसि कामाक्षी ‖69‖

मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के |
अधिचक्रमध्यमास्ते कामाक्षी नाम किमपि मम भाग्यम् ‖70‖

रक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया |
श्रुतियुवतिकुन्तलीमणिमालिकया तुहिनशैलबालिकया ‖71‖

लीये पुरहरजाये माये तव तरुणपल्लवच्छाये |
चरणे चन्द्राभरणे काञ्चीशरणे नतार्तिसंहरणे ‖72‖

मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये |
मोदितकम्पाकूले मुहुर्मुहुर्मनसि मुमुदिषाऽस्माकम् ‖73‖

वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् |
मन्त्रमयीं तन्त्रमयीं प्रकृतिमयीं नौमि विश्वविकृतिमयीम् ‖74‖

पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी |
मनसि मम कामकोटी विहरतु करुणाविपाकपरिपाटी ‖75‖

कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु |
अवलोकितमवलम्बितमधिकम्पातटममेयमस्माभिः ‖76‖

प्रत्यङ्मुख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः |
पश्यामि निस्तुलमहो पचेलिमं कमपि परशिवोल्लासम् ‖77‖

विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले |
भारति भैरवि भद्रे शाकिनि शाम्भवि शिवे स्तुवे भवतीम् ‖78‖

मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते |
शूलिनि विद्रुमशालिनि सुरजनपालिनि कपालिनि नमोऽस्तु ‖79‖

देशिक इति किं शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः |
कामाक्षि शूलपाणेः कामागमसमयदीक्षायाम् ‖80‖

वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय |
कुङ्कुमरुचे नमस्यां शङ्करनयनामृताय रचयामः ‖81‖

अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि काञ्चिदद्राक्षम् |
अवनतजनानुकम्पामनुकम्पाकूलमस्मदनुकूलाम् ‖82‖

परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् |
परगुरुकृपया वीक्षे परमशिवोत्सङ्गमङ्गलाभरणम् ‖83‖

दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् |
तव देवि तरुणिमश्रीचतुरिमपाको न चक्षमे मातः ‖84‖

मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा |
विहरति पुलिन्दयोषा गुञ्जाभूषा फणीन्द्रकृतवेषा ‖85‖

अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी |
जयसि सविधेऽम्ब भैरवमण्डलिनी श्रवसि शङ्खकुन्डलिनी ‖86‖

प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा |
कामाक्षि मुदितभर्गा हतरिपुवर्गा त्वमेव सा दुर्गा ‖87‖

श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा |
देवि कलितान्त्रषण्डा धृतनरमुण्डा त्वमेव चामुण्डा ‖88‖

उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण |
गुर्वीमकिञ्चनार्ति खर्वीकुरुषे त्वमेव कामाक्षि ‖89‖

ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला |
क्रोडपतिभीषणमुखी क्रीडसि जगति त्वमेव कामाक्षि ‖90‖

स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला |
कनकरुचिचौर्यशीला त्वमम्ब बाला कराब्जधृतमाला ‖91‖

विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी |
कामाक्षि पक्ष्मलाक्षी कलितविपञ्ची विभासि वैरिञ्ची ‖92‖

कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः |
श्रीकामाक्षि तदीयसङ्गमकलामन्दीभवत्कौतुकः
जयति तव रूपधेयं जपपटपुस्तकवराभयकराब्जम् ‖93‖

कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् |
कामाक्षि शीलये त्वां कपालशूलाभिरामकरकमलाम् ‖94‖

लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते |
वदनं तव कुवयुगलं काञ्चीसीमां च केऽपि कामाक्षि ‖95‖

जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः |
नलिनैर्महेशि गच्छसि सर्वोत्तरकरकमलदलममलम् ‖96‖

सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या |
अपवर्गसौधवलभीमारोहन्त्यम्ब केऽपि तव कृपया ‖97‖

अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते |
चिन्तितसन्तानवतां सन्ततमपि तन्तनीषि महिमानम् ‖98‖

कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् |
अम्ब रदनाम्बरं ते बिम्बफलं शम्बरारिणा न्यस्तम् ‖99‖

जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते |
जय जय महेशदयिते जय जय चिद्गगनकौमुदीधारे ‖100‖

आर्याशतकं भक्त्या पठतामार्याकटाक्षेण |
निस्सरति वदनकमलाद्वाणी पीयूषधोरणी दिव्या ‖101‖

‖ इति आर्याशतकं सम्पूर्णम् ‖