मुचुकुन्द स्तुतिः
विमोहितोऽयं जन ईश मायया त्वदीयया त्वां च भजत्यनर्थदृक् । सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित्पुरुषश्च वञ्चितः ॥ 1 ॥ लब्ध्वा जनो दुर्लभमत्र मानुषं कथञ्चिदव्यङ्गमयत्नतोऽनघ । पादारविन्दं न भजत्यसन्मति- र्गृहान्धकूपे पतितो यथा पशुः ॥ 2 ॥ ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपते । मर्त्यात्मबुद्धेः सुतदारकोशभू- ष्वासज्जमानस्य दुरन्तचिन्तया ॥ 3 ॥ कलेवरेऽस्मिन् घटकुड्यसन्निभे निरूढमानो नरदेव इत्यहम् । वृतो रथेभाश्वपदात्यनीकपैर्गां पर्यटंस्त्वागणयन् सुदुर्मदः ॥ 4 ॥ प्रमत्तमुच्चैरिति कृत्यचिन्तया प्रभुद्धलोभं विषयेषु लालसम् । त्वमप्रमत्तः सहसाऽभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः ॥ 5 ॥ पुरा रथैर्हेमपरिष्कृतैश्चरन् मतङ्गजैर्वा नरदेवसञ्ज्ञितः । स एव कालेन दुरत्ययेन ते कलेवरो विट्कृमिभस्मसञ्ज्ञितः ॥ 6 ॥ निर्जित्य दिक्चक्रमभूतविग्रहो वरासनस्थः समराजवन्दितः । गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृग पूरुष ईश नीयते ॥ 7 ॥ करोति कर्माणि तपःसु निष्ठितो निवृत्तभोगस्तदपेक्षया ददत् । पुनश्च भूयेयमहं स्वराडिति प्रबुद्धतर्षो न सुखाय कल्पते ॥ 8 ॥ भवापवर्गो भ्रमतो यदा भवे- ज्जनस्य तर्ह्यच्युत सत्समागमः । सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः ॥ 9 ॥ मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया । यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षद्भिरखण्डभूमिपैः ॥ 10 ॥ न कामयेऽन्यं तव पादसेवनाद्- अकिञ्चनप्रार्थ्यतमाद्वरं विभो । आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम् ॥ 11 ॥ तस्माद्विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः । निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ 12 ॥ चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैः अवितृषषडमित्रो लब्धशान्तिः कथञ्चित् । शरणद समुपेतस्त्वत्पदाब्जं परात्मन् अभयममृतमशोकं पाहि माऽपन्नमीश ॥ 13 ॥
इति श्रीमद्भागवतान्तर्गता मुचुकुन्दकृता श्रीविष्णुस्तुतिः समाप्ता ।
Browse Related Categories: