View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

मुचुकुंद स्तुतिः

विमोहितोऽयं जन ईश मायया
त्वदीयया त्वां च भजत्यनर्थदृक् ।
सुखाय दुःखप्रभवेषु सज्जते
गृहेषु योषित्पुरुषश्च वंचितः ॥ 1 ॥
लब्ध्वा जनो दुर्लभमत्र मानुषं
कथंचिदव्यंगमयत्नतोऽनघ ।
पादारविंदं न भजत्यसन्मति-
र्गृहांधकूपे पतितो यथा पशुः ॥ 2 ॥
ममैष कालोऽजित निष्फलो गतो
राज्यश्रियोन्नद्धमदस्य भूपते ।
मर्त्यात्मबुद्धेः सुतदारकोशभू-
ष्वासज्जमानस्य दुरंतचिंतया ॥ 3 ॥
कलेवरेऽस्मिन् घटकुड्यसन्निभे
निरूढमानो नरदेव इत्यहम् ।
वृतो रथेभाश्वपदात्यनीकपैर्गां
पर्यटंस्त्वागणयन् सुदुर्मदः ॥ 4 ॥
प्रमत्तमुच्चैरिति कृत्यचिंतया
प्रभुद्धलोभं विषयेषु लालसम् ।
त्वमप्रमत्तः सहसाऽभिपद्यसे
क्षुल्लेलिहानोऽहिरिवाखुमंतकः ॥ 5 ॥
पुरा रथैर्हेमपरिष्कृतैश्चरन्
मतंगजैर्वा नरदेवसंज्ञितः ।
स एव कालेन दुरत्ययेन ते
कलेवरो विट्कृमिभस्मसंज्ञितः ॥ 6 ॥
निर्जित्य दिक्चक्रमभूतविग्रहो
वरासनस्थः समराजवंदितः ।
गृहेषु मैथुन्यसुखेषु योषितां
क्रीडामृग पूरुष ईश नीयते ॥ 7 ॥
करोति कर्माणि तपःसु निष्ठितो
निवृत्तभोगस्तदपेक्षया ददत् ।
पुनश्च भूयेयमहं स्वराडिति
प्रबुद्धतर्षो न सुखाय कल्पते ॥ 8 ॥
भवापवर्गो भ्रमतो यदा भवे-
ज्जनस्य तर्ह्यच्युत सत्समागमः ।
सत्संगमो यर्हि तदैव सद्गतौ
परावरेशे त्वयि जायते मतिः ॥ 9 ॥
मन्ये ममानुग्रह ईश ते कृतो
राज्यानुबंधापगमो यदृच्छया ।
यः प्रार्थ्यते साधुभिरेकचर्यया
वनं विविक्षद्भिरखंडभूमिपैः ॥ 10 ॥
न कामयेऽन्यं तव पादसेवनाद्-
अकिंचनप्रार्थ्यतमाद्वरं विभो ।
आराध्य कस्त्वां ह्यपवर्गदं हरे
वृणीत आर्यो वरमात्मबंधनम् ॥ 11 ॥
तस्माद्विसृज्याशिष ईश सर्वतो
रजस्तमःसत्त्वगुणानुबंधनाः ।
निरंजनं निर्गुणमद्वयं परं
त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥ 12 ॥
चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैः
अवितृषषडमित्रो लब्धशांतिः कथंचित् ।
शरणद समुपेतस्त्वत्पदाब्जं परात्मन्
अभयममृतमशोकं पाहि माऽपन्नमीश ॥ 13 ॥

इति श्रीमद्भागवतांतर्गता मुचुकुंदकृता श्रीविष्णुस्तुतिः समाप्ता ।




Browse Related Categories: