| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
1.1 - इषे त्वोर्जे त्वा - कृष्ण यजुर्वेद संहिता पाठः कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां प्रथमकांडे प्रथमः प्रश्नः - (दर्शपूर्णमासौ) ॐ नमः परमात्मने, श्री महागणपतये नमः, इ॒षे त्वो॒र्जे त्वा॑ वा॒यवः॑ स्थोपा॒यवः॑ स्थ दे॒वो वः॑ सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आ प्या॑यद्ध्वमघ्निया देवभा॒गमूर्ज॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा वः॑ स्ते॒न ई॑शत॒ माऽघशग्ं॑सो रु॒द्रस्य॑ हे॒तिः परि॑ वो वृणक्तु ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वी-र्यज॑मानस्य प॒शून् पा॑हि ॥ 1 ॥ य॒ज्ञस्य॑ घो॒षद॑सि॒ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयः॒ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छ॒ मनु॑ना कृ॒ता स्व॒धया॒ वित॑ष्टा॒ त आ व॑हंति क॒वयः॑ पु॒रस्ता᳚द्- दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सदे॑ दे॒वानां᳚ परिषू॒तम॑सि व॒र्॒षवृ॑द्धमसि॒ देव॑बर्हि॒र्मा त्वाऽ॒न्वं मा ति॒र्यक् पर्व॑ ते राद्ध्यासमाच्छे॒त्ता ते॒ मा रि॑षं॒ देव॑बर्हिः श॒तव॑ल्शं॒-विँ रो॑ह स॒हस्र॑वल्शा॒ [स॒हस्र॑वल्शाः, वि व॒यग्ं रु॑हेम] ॥ 2 ॥ वि व॒यग्ं रु॑हेम पृथि॒व्याः सं॒पृचः॑ पाहि सुसं॒भृता᳚ त्वा॒ संभ॑रा॒म्यदि॑त्यै॒ रास्ना॑ऽसींद्रा॒ण्यै स॒न्नह॑नं पू॒षा ते᳚ ग्रं॒थिं ग्र॑थ्नातु॒ स ते॒ माऽऽ स्था॒दिंद्र॑स्य त्वा बा॒हुभ्या॒मुद्य॑च्छे॒ बृह॒स्पते᳚-र्मू॒र्ध्ना ह॑राम्यु॒र्वं॑तरि॑क्ष॒मन्वि॑हि देवंग॒मम॑सि ॥ 3 ॥ शुंध॑द्ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑ मात॒रिश्व॑नो घ॒र्मो॑ऽसि॒ द्यौर॑सि पृथि॒व्य॑सि वि॒श्वधा॑या असि पर॒मेण॒ धाम्ना॒ दृग्ंह॑स्व॒ मा ह्वा॒-र्वसू॑नां प॒वित्र॑मसि श॒तधा॑रं॒-वँसू॑नां प॒वित्र॑मसि स॒हस्र॑धारग्ं हु॒तः स्तो॒कोहु॒तो द्र॒फ्सो᳚ ऽग्नये॑ बृह॒ते नाका॑य॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ग्ं॒ सा वि॒श्वायुः॒ सा वि॒श्वव्य॑चाः॒ सा वि॒श्वक॑र्मा॒ सं पृ॑च्यद्ध्व-मृतावरी-रू॒र्मिणी॒र्मधु॑मत्तमा मं॒द्रा धन॑स्य सा॒तये॒ सोमे॑न॒ त्वाऽऽत॑न॒च्मींद्रा॑य॒ दधि॒ विष्णो॑ ह॒व्यग्ं र॑क्षस्व ॥ 4 ॥ कर्म॑णे वां दे॒वेभ्यः॑ शकेयं॒-वेँषा॑य त्वा॒ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ धूर॑सि॒ धूर्व॒ धूर्वं॑तं॒ धूर्व॒ तं-योँ᳚ऽस्मान् धूर्व॑ति॒ तं धू᳚र्व॒यं-वँ॒यं धूर्वा॑म॒स्त्वं दे॒वाना॑मसि॒ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं॒-वँह्नि॑तमं देव॒हूत॑म॒-मह्रु॑तमसि हवि॒र्धानं॒ दृग्ंह॑स्व॒ मा ह्वा᳚-र्मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्षे॒ मा भेर्मा सं-विँ॑क्था॒ मा त्वा॑ - [मा त्वा᳚, हि॒ग्ं॒सि॒ष॒मु॒रु] ॥ 5 ॥ हिग्ंसिषमु॒रु वाता॑य दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚-र्बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या-म॒ग्नये॒ जुष्टं॒ निर्व॑पाम्य॒ग्नीषोमा᳚भ्या-मि॒दं दे॒वाना॑मि॒दमु॑ नः स॒ह स्फा॒त्यै त्वा॒ नारा᳚त्यै॒ सुव॑र॒भि वि ख्ये॑षं-वैँश्वान॒रं ज्योति॒-र्दृग्ंहं॑तां॒ दुर्या॒ द्यावा॑पृथि॒व्यो- रु॒र्वं॑तरि॑क्ष॒ मन्वि॒-ह्यदि॑त्या स्त्वो॒पस्थे॑ सादया॒म्यग्ने॑ ह॒व्यग्ं र॑क्षस्व ॥ 6 ॥ दे॒वो वः॑ सवि॒तोत् पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभि॒रापो॑ देवीरग्रेपुवो अग्रेगु॒वोऽग्र॑ इ॒मं-यँ॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिं धत्त यु॒ष्मानिंद्रो॑ ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिंद्र॑-मवृणीद्ध्वं-वृँत्र॒तूर्ये॒ प्रोक्षि॑ताः स्था॒ग्नये॑ वो॒ जुष्टं॒ प्रोक्षा᳚म्य॒ग्नीषोमा᳚भ्या॒ग्ं॒ शुंध॑द्ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ अव॑धूत॒ग्ं॒ रक्षोऽव॑धूता॒ पृथि॒वी वे᳚त्त्वधि॒षव॑णमसि वानस्प॒त्यं प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्त्व॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णा॒म्यद्रि॑रसि वानस्प॒त्यः स इ॒दं दे॒वेभ्यो॑ ह॒व्यग्ं सु॒शमि॑ शमि॒ष्वेष॒मा व॒दोर्ज॒मा व॑द द्यु॒मद्व॑दत व॒यग्ं सं॑घा॒तं जे᳚ष्म व॒र्॒षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धं-वेँत्तु॒ परा॑पूत॒ग्ं॒ रक्षः॒ परा॑पूता॒ अरा॑तयो॒ रक्ष॑सां भा॒गो॑ ऽसि वा॒युर्वो॒ वि वि॑नक्तु दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ 8 ॥ अव॑धूत॒ग्ं॒ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॑ त्वा पृथि॒वीवे᳚त्तु दि॒वः स्कं॑भ॒निर॑सि॒ प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे᳚त्तु धि॒षणा॑ऽसि पर्व॒त्या प्रति॑ त्वा दि॒वः स्कं॑भ॒निर्वे᳚त्तु धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे᳚त्तु दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚-ऽश्विनो᳚-र्बा॒हुभ्यां᳚ पू॒ष्णोहस्ता᳚भ्या॒मधि॑ वपामिधा॒न्य॑मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वा ऽपा॒नाय॑ त्वा व्या॒नाय॑ त्वा दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षेधां दे॒वो वः॑ सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णातु ॥ 9 ॥ धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छापा᳚ग्ने॒ ऽग्निमा॒मादं॑ जहि॒ निष्क्र॒व्यादग्ं॑ से॒धाऽऽदे॑व॒यजं॑-वँह॒ निर्द॑ग्ध॒ग्ं॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तयो ध्रु॒वम॑सि पृथि॒वीं दृ॒ग्ं॒हाऽऽयु॑-र्दृग्ंह प्र॒जां दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒र्त्रम॑स्यं॒तरि॑क्षं दृग्ंह प्रा॒णं दृग्ं॑हापा॒नं दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह ध॒रुण॑मसि॒ दिवं॑ दृग्ंह॒ चक्षु॑- [चक्षुः॑, दृ॒ग्ं॒ह॒ श्रोत्रं॑ दृग्ंह] ॥ 10 ॥ र्दृग्ंह॒ श्रोत्रं॑ दृग्ंह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ धर्मा॑सि॒ दिशो॑ दृग्ंह॒ योनिं॑ दृग्ंह प्र॒जां दृग्ं॑ह सजा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ चितः॑ स्थ प्र॒जाम॒स्मै र॒यिम॒स्मै स॑जा॒तान॒स्मै यज॑मानाय॒ पर्यू॑ह॒ भृगू॑णा॒मंगि॑रसां॒ तप॑सा तप्यद्ध्वं॒-याँनि॑ घ॒र्मे क॒पाला᳚न्युपचि॒न्वंति॑ वे॒धसः॑ । सं-वँ॑पामि॒ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॑न॒ सग्ं रे॒वती॒-र्जग॑तीभि॒-र्मधु॑मती॒-र्मधु॑मतीभिः सृज्यद्ध्वम॒द्भ्यः परि॒ प्रजा॑ताः स्थ॒ सम॒द्भिः पृ॑च्यद्ध्वं॒ जन॑यत्यै त्वा॒ सं-यौँ᳚म्य॒ग्नये᳚ त्वा॒ऽग्नीषोमा᳚भ्यां म॒खस्य॒ शिरो॑ऽसि घ॒र्मो॑ऽसि वि॒श्वायु॑रु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथतां॒ त्वचं॑ गृह्णीष्वां॒तरि॑त॒ग्ं॒ रक्षो॒ऽंतरि॑ता॒ अरा॑तयोदे॒वस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॑ष्ठे॒ अधि॒ नाके॒ऽग्निस्ते॑ त॒नुवं॒ माऽति॑ धा॒गग्ने॑ ह॒व्यग्ं र॑क्षस्व॒ सं ब्रह्म॑णा पृच्यस्वैक॒ताय॒ स्वाहा᳚ द्वि॒ताय॒ स्वाहा᳚ त्रि॒ताय॒ स्वाहा᳚ ॥ 12 ॥ आ द॑द॒ इंद्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जाः॒ पृथि॑वि देवयज॒ - न्योष॑द्ध्यास्ते॒ मूलं॒ मा हिग्ं॑सिष॒-मप॑हतो॒ऽररुः॑ पृथि॒व्यै व्र॒जं ग॑च्छ गो॒स्थानं॒-वँर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररुः॑ पृथि॒व्यै दे॑व॒यज॑न्यै व्र॒जं- [व्र॒जम्, ग॒च्छ॒ गो॒स्थानं॒-वँर्ष॑तु] ॥ 13 ॥ ग॑च्छ गो॒स्थानं॒-वँर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॒गप॑हतो॒ऽररुः॑ पृथि॒व्या अदे॑वयजनो व्र॒जं ग॑च्छ गो॒स्थानं॒-वँर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां᳚ परा॒वति॑ श॒तेन॒ पाशै॒र्यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा- [मा, मौ॒ग॒ररु॑स्ते॒ दिवं॒ मा] ॥ 14 ॥ मौ॑ग॒ररु॑स्ते॒ दिवं॒ मा स्का॒न्॒. वस॑वस्त्वा॒ परि॑ गृह्णंतु गाय॒त्रेण॒ छंद॑सारु॒द्रास्त्वा॒ परि॑ गृह्णंतु॒ त्रैष्टु॑भेन॒ छंद॑साऽऽदि॒त्यास्त्वा॒ परि॑ गृह्णंतु॒ जाग॑तेन॒ छंद॑सा दे॒वस्य॑ सवि॒तुः स॒वे कर्म॑ कृण्वंति वे॒धस॑ ऋ॒तम॑स्यृत॒सद॑न-मस्यृत॒श्रीर॑सि॒ धा अ॑सि स्व॒धा अ॑स्यु॒र्वी चासि॒ वस्वी॑ चासि पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शिन् नुदा॒दाय॑ पृथि॒वीं जी॒रदा॑नु॒र्यामैर॑यन् चं॒द्रम॑सि स्व॒धाभि॒स्तां धीरा॑सो अनु॒दृश्य॑ यजंते ॥ 15 ॥ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तयो॒ ऽग्नेर्व॒स्तेजि॑ष्ठेन॒ तेज॑सा॒ निष्ट॑पामि गो॒ष्ठं मा निर्मृ॑क्षं-वाँ॒जिनं॑ त्वा सपत्नसा॒हग्ं सं मा᳚र्ज्मि॒ वाचं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॑ प्र॒जां-योँनिं॒ मा निर्मृ॑क्षं-वाँ॒जिनीं᳚ त्वा सपत्नसा॒हीग्ं सं मा᳚र्ज्म्या॒शासा॑ना सौमन॒सं प्र॒जाग्ं सौभा᳚ग्यं त॒नूम् । अ॒ग्नेरनु॑व्रता भू॒त्वा सं न॑ह्ये सुकृ॒ताय॒ कम् ॥सु॒प्र॒जस॑स्त्वा व॒यग्ं सु॒पत्नी॒रुप॑- [सु॒पथ्नी॒रुप॑, से॒दि॒मि॒ ।] ॥ 16 ॥ सेदिम । अग्ने॑ सपत्न॒दंभ॑न॒मद॑ब्धासो॒ अदा᳚भ्यम् ॥ इ॒मं-विँष्या॑मि॒ वरु॑णस्य॒ पाशं॒ ंयँमब॑द्ध्नीत सवि॒ता सु॒केतः॑ । धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं मे॑ स॒ह पत्या॑ करोमि ॥ समायु॑षा॒ संप्र॒जया॒ सम॑ग्ने॒ वर्च॑सा॒ पुनः॑ । सं पत्नी॒ पत्या॒ऽहं ग॑च्छे॒ समा॒त्मा त॒नुवा॒ मम॑ ॥ म॒ही॒नां पयो॒ऽस्योष॑धीना॒ग्ं॒ रस॒स्तस्य॒ तेऽक्षी॑यमाणस्य॒ नि- [निः, व॒पा॒मि॒ म॒ही॒नां] ॥ 17 ॥ र्व॑पामि मही॒नां पयो॒ऽस्योष॑धीना॒ग्ं॒ रसोऽद॑ब्धेन त्वा॒ चक्षु॒षाऽवे᳚क्षे सुप्रजा॒स्त्वाय॒ तेजो॑ऽसि॒ तेजोऽनु॒ प्रेह्य॒ग्निस्ते॒ तेजो॒ मा वि नै॑द॒ग्ने-र्जि॒ह्वाऽसि॑ सु॒भूर्दे॒वानां॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे भव शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑ऽसि दे॒वो वः॑ सवि॒तोत् पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसोः॒ सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रं त्वा॑ शु॒क्रायां॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि॒ ज्योति॑स्त्वा॒ ज्योति॑ष्य॒र्चिस्त्वा॒ऽर्चिषि॒ धाम्ने॑धाम्ने दे॒वेभ्यो॒ यजु॑षेयजुषे गृह्णामि ॥ 18 ॥ कृष्णो᳚ऽस्याखरे॒ष्ठो᳚ऽग्नये᳚ त्वा॒ स्वाहा॒ वेदि॑रसि ब॒र्॒हिषे᳚ त्वा॒ स्वाहा ॑ब॒र्॒हिर॑सि स्रु॒ग्भ्यस्त्वा॒ स्वाहा॑ दि॒वे त्वा॒ऽंतरि॑क्षाय त्वा पृथि॒व्यै त्वा᳚ स्व॒धा पि॒तृभ्य॒ ऊर्ग्भ॑व बर्हि॒षद्भ्य॑ ऊ॒र्जा पृ॑थि॒वीं ग॑च्छत॒ विष्णोः॒ स्तूपो॒ऽस्यूर्णा᳚म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्यो॑ गंध॒र्वो॑ऽसि वि॒श्वाव॑सु॒-र्विश्व॑स्मा॒दीष॑तो॒ यज॑मानस्य परि॒धिरि॒ड ई॑डि॒त इंद्र॑स्य बा॒हुर॑सि॒- [बा॒हुर॑सि, दक्षि॑णो॒] ॥ 19 ॥ भुव॑नमसि॒ वि प्र॑थ॒स्वाग्ने॒ यष्ट॑रि॒दं नमः॑ । वाज॑स्य मा प्रस॒वेनो᳚द्ग्रा॒भेणोद॑ग्रभीत् । अथा॑ स॒पत्ना॒ग्ं॒ इंद्रो॑ मे निग्रा॒भेणाध॑राग्ं अकः ॥ उ॒द्ग्रा॒भं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अ॑वीवृधन्न् । अथा॑ स॒पत्ना॑निंद्रा॒ग्नी मे॑ विषू॒चीना॒न् व्य॑स्यताम् ॥ वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वाऽऽदि॒त्येभ्य॑स्त्वा॒ऽक्तग्ं रिहा॑णा वि॒यंतु॒ वयः॑ ॥ प्र॒जां-योँनिं॒ मा निर्मृ॑क्ष॒मा प्या॑यंता॒माप॒ ओष॑धयो म॒रुतां॒ पृष॑तयः स्थ॒ दिवं॑- [दिव᳚म्, ग॒च्छ॒ ततो॑ नो॒] ॥ 22 ॥ दे॒वा इ॒मां-वाँच॑म॒भि विश्वे॑ गृ॒णंत॑ आ॒सद्या॒स्मिन् ब॒र्॒हिषि॑ मादयद्ध्वम॒ग्ने-र्वा॒मप॑न्नगृहस्य॒ सद॑सि सादयामि सुं॒नाय॑ सुंनिनी सुं॒ने मा॑ धत्तं धु॒रि ध॒र्यौ॑ पात॒मग्ने॑ ऽदब्धायो ऽशीततनो पा॒हि मा॒ऽद्य दि॒वः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्ट्यै पा॒हि दु॑रद्म॒न्यै पा॒हि दुश्च॑रिता॒दवि॑षं नः पि॒तुं कृ॑णु सु॒षदा॒ योनि॒ग्ग्॒ स्वाहा॒ देवा॑ गातुविदो गा॒तुंविँ॒त्त्वा गा॒तु मि॑त॒ मन॑सस्पत इ॒मं नो॑ देव दे॒वेषु॑ य॒ज्ञग्ग् स्वाहा॑ वा॒चि स्वाहा॒ वाते॑ धाः ॥ 24 ॥ उ॒भा वा॑मिंद्राग्नी आहु॒वद्ध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यद्ध्यै᳚ । उ॒भा दा॒तारा॑वि॒षाग्ं र॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ॥ अश्र॑व॒ग्ं॒ हि भू॑रि॒दाव॑त्तरा वां॒-विँजा॑मातुरु॒त वा॑ घा स्या॒लात् । अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिंद्रा᳚ग्नी॒ स्तोमं॑ जनयामि॒ नव्य᳚म् ॥ इंद्रा᳚ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम् । सा॒कमेके॑न॒ कर्म॑णा ॥ शुचिं॒ नु स्तोमं॒ नव॑जात-म॒द्येंद्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् ॥ 25 ॥ उ॒भा हि वाग्ं॑ सु॒हवा॒ जोह॑वीमि॒ ता वाजग्ं॑ स॒द्य उ॑श॒ते धेष्ठा᳚ ॥ व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये । धि॒ये पू॑षन्नयुज्महि ॥ प॒थस्प॑थः॒ परि॑पतिं-वँच॒स्या कामे॑न कृ॒तो अ॒भ्या॑नड॒र्कम् । सनो॑ रासच्छु॒रुध॑श्चं॒द्राग्रा॒ धियं॑धियग्ं सीषधाति॒ प्र पू॒षा ॥ क्षेत्र॑स्य॒ पति॑ना व॒यग्ं हि॒तेने॑व जयामसि । गामश्वं॑ पोषयि॒त्न्वा स नो॑ [स नः॑, मृ॒डा॒ती॒दृशे᳚ ।] ॥ 26 ॥ मृडाती॒दृशे᳚ ॥ क्षेत्र॑स्य पते॒ मधु॑मंतमू॒र्मिं धे॒नुरि॑व॒ पयो॑ अ॒स्मासु॑ धुक्ष्व । म॒धु॒श्चुतं॑ घृ॒तमि॑व॒ सुपू॑तमृ॒तस्य॑ नः॒ पत॑यो मृडयंतु ॥ अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्. विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । यु॒यो॒द्ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं-विँधेम ॥ आ दे॒वाना॒मपि॒ पंथा॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम् । अ॒ग्नि-र्वि॒द्वांथ् स य॑जा॒- [स य॑जात्, सेदु॒ होता॒ सो] ॥ 27 ॥ थ्सेदु॒ होता॒ सो अ॑द्ध्व॒रांथ् स ऋ॒तून् क॑ल्पयाति ॥यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो । महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते ॥ अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मांथ् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ । पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं-योः ँ॥ त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा । त्वं-यँ॒ज्ञेष्वीड्यः॑ ॥ यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां᳚ देवा॒ अवि॑दुष्टरासः । अ॒ग्निष्ट-द्विश्व॒मा पृ॑णाति वि॒द्वान्. येभि॑-र्दे॒वाग्ं ऋ॒तुभिः॑ क॒ल्पया॑ति ॥ 28 ॥ (इ॒षे त्वा॑ - य॒ज्ञस्य॒ - शुंध॑ध्वं॒ - कर्म॑णे वां - दे॒वो-ऽव॑धूतं॒ - धुष्टिः॒ - सं-वँ॑पा॒- म्या द॑दे॒ - प्रत्यु॑ष्टं॒ - कृष्णो॑ऽसि॒ - भुव॑नमसि॒ - वाज॑स्यो॒भा वां॒ - चतु॑र्दश ) (इ॒षे - दृग्ं॑ह॒ - भुव॑न - म॒ष्टाविग्ं॑शतिः ) (इ॒षे त्वा॑, क॒ल्पया॑ति) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहितायां प्रथमकांडे प्रथमः प्रश्नः समाप्तः ॥
|