श्रीवसिष्ठ उवाच ।
भगवन् केन विधिना नामभिर्वेङ्कटेश्वरम् ।
पूजयामास तं देवं ब्रह्मा तु कमलैः शुभैः ॥ 1 ॥
पृच्छामि तानि नामानि गुणयोगपराणि किम् ।
मुख्यवृत्तीनि किं ब्रूहि लक्षकाण्यथवा हरेः ॥ 2 ॥
नारद उवाच ।
नामान्यनन्तानि हरेः गुणयोगानि कानि चित् ।
मुख्यवृत्तीनि चान्यानि लक्षकाण्यपराणि च ॥ 3 ॥
परमार्थैः सर्वशब्दैरेको ज्ञेयः परः पुमान् ।
आदिमध्यान्तरहितस्त्वव्यक्तोऽनन्तरूपभृत् ॥ 4 ॥
चन्द्रार्कवह्निवाय्वाद्या ग्रहर्क्षाणि नभो दिशः ।
अन्वयव्यतिरेकाभ्यां सन्ति नो सन्ति यन्मतेः ॥ 5 ॥
तस्य देवस्य नाम्नां हि पारं गन्तुं हि कः क्षमः ।
तथाऽपि चाभिधानानि वेङ्कटेशस्य कानिचित् ॥ 6 ॥
ब्रह्मगीतानि पुण्यानि तानि वक्ष्यामि सुव्रत ।
यदुच्चारणमात्रेण विमुक्ताघः परं व्रजेत् ॥ 7 ॥
वेङ्कटेशस्य नाम्नां हि सहस्रस्य ऋषिर्विधिः ।
छन्दोऽनुष्टुप्तथा देवः श्रीवत्साङ्को रमापतिः ॥ 8 ॥
बीजभूतस्तथोङ्कारो ह्रीं क्लीं शक्तिश्च कीलकम् ।
ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रोऽत्र कथ्यते ॥ 9 ॥
ब्रह्माण्डगर्भः कवचमस्त्रं चक्रगदाधरः ।
विनियोगोऽभीष्टसिद्धौ हृदयं सामगायनः ॥ 10 ॥
अस्य श्री वेङ्कटेश सहस्रनाम स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्रीवत्साङ्को रमापतिर्देवता ॐ बीजं ह्रीं शक्तिः क्लीं कीलकं ब्रह्माण्डगर्भ इति कवचं चक्रगदाधर इत्यस्त्रं सामगानमिति हृदयं ॐ नमो वेङ्कटेशायेत्यादिर्मन्त्रः श्री वेङ्कटेश प्रीत्यर्थे जपे विनियोगः ॥
ध्यानम्
भास्वच्चन्द्रमसौ यदीयनयने भार्या यदीया रमा
यस्माद्विश्वसृडप्यभूद्यमिकुलं यद्ध्यानयुक्तं सदा
नाथो यो जगतां नगेन्द्रदुहितुर्नाथोऽपि यद्भक्तिमान्
तातो यो मदनस्य यो दुरितहा तं वेङ्कटेशं भजे ॥
ऊर्ध्वौ हस्तौ यदीयौ सुररिपुदलने बिभ्रतौ शङ्खचक्रे
सेव्यावङ्घ्री स्वकीयावभिदधदधरो दक्षिणो यस्य पाणिः ।
तावन्मात्रं भवाब्धिं गमयति भजतामूरुगो वामपाणिः
श्रीवत्साङ्कश्च लक्ष्मीर्यदुरसि लसतस्तं भजे वेङ्कटेशम् ॥
इति ध्यायन् वेङ्कटेशं श्रीवत्साङ्कं रमापतिम् ।
वेङ्कटेशो विरूपाक्ष इत्यारभ्य जपेत्क्रमात् ॥
स्तोत्रं
ॐ वेङ्कटेशो विरूपाक्षो विश्वेशो विश्वभावनः ।
विश्वसृड्विश्वसंहर्ता विश्वप्राणो विराड्वपुः ॥ 1 ॥
शेषाद्रिनिलयोऽशेषभक्तदुःखप्रणाशनः ।
शेषस्तुत्यः शेषशायी विशेषज्ञो विभुः स्वभूः ॥ 2 ॥
विष्णुर्जिष्णुश्च वर्धिष्णुरुत्सहिष्णुः सहिष्णुकः ।
भ्राजिष्णुश्च ग्रसिष्णुश्च वर्तिष्णुश्च भरिष्णुकः ॥ 3 ॥
कालयन्ता कालगोप्ता कालः कालान्तकोऽखिलः ।
कालगम्यः कालकण्ठवन्द्यः कालकलेश्वरः ॥ 4 ॥
शम्भुः स्वयम्भूरम्भोजनाभिः स्तम्भितवारिधिः ।
अम्भोधिनन्दिनीजानिः शोणाम्भोजपदप्रभः ॥ 5 ॥
कम्बुग्रीवः शम्बरारिरूपः शम्बरजेक्षणः ।
बिम्बाधरो बिम्बरूपी प्रतिबिम्बक्रियातिगः ॥ 6 ॥
गुणवान् गुणगम्यश्च गुणातीतो गुणप्रियः ।
दुर्गुणध्वंसकृत्सर्वसुगुणो गुणभासकः ॥ 7 ॥
परेशः परमात्मा च परञ्ज्योतिः परा गतिः ।
परं पदं वियद्वासाः पारम्पर्यशुभप्रदः ॥ 8 ॥
ब्रह्माण्डगर्भो ब्रह्मण्यो ब्रह्मसृड्ब्रह्मबोधितः ।
ब्रह्मस्तुत्यो ब्रह्मवादी ब्रह्मचर्यपरायणः ॥ 9 ॥
सत्यव्रतार्थसन्तुष्टः सत्यरूपी झषाङ्गवान् ।
सोमकप्राणहारी चाऽऽनीताम्नायोऽब्धिसञ्चरः ॥ 10 ॥
देवासुरवरस्तुत्यः पतन्मन्दरधारकः ।
धन्वन्तरिः कच्छपाङ्गः पयोनिधिविमन्थकः ॥ 11 ॥
अमरामृतसन्धाता धृतसंमोहिनीवपुः ।
हरमोहकमायावी रक्षस्सन्दोहभञ्जनः ॥ 12 ॥
हिरण्याक्षविदारी च यज्ञो यज्ञविभावनः ।
यज्ञीयोर्वीसमुद्धर्ता लीलाक्रोडः प्रतापवान् ॥ 13 ॥
दण्डकासुरविध्वंसी वक्रदंष्ट्रः क्षमाधरः ।
गन्धर्वशापहरणः पुण्यगन्धो विचक्षणः ॥ 14 ॥
करालवक्त्रः सोमार्कनेत्रः षड्गुणवैभवः ।
श्वेतघोणी घूर्णितभ्रूर्घुर्घुरध्वनिविभ्रमः ॥ 15 ॥
द्राघीयान् नीलकेशी च जाग्रदम्बुजलोचनः ।
घृणावान् घृणिसम्मोहो महाकालाग्निदीधितिः ॥ 16 ॥
ज्वालाकरालवदनो महोल्काकुलवीक्षणः ।
सटानिर्भिन्नमेघौघो दंष्ट्रारुग्व्याप्तदिक्तटः ॥ 17 ॥
उच्छ्वासाकृष्टभूतेशो निश्श्वासत्यक्तविश्वसृट् ।
अन्तर्भ्रमज्जगद्गर्भोऽनन्तो ब्रह्मकपालहृत् ॥ 18 ॥
उग्रो वीरो महाविष्णुर्ज्वलनः सर्वतोमुखः ।
नृसिंहो भीषणो भद्रो मृत्युमृत्युः सनातनः ॥ 19 ॥
सभास्तम्भोद्भवो भीमः शीरोमाली महेश्वरः ।
द्वादशादित्यचूडालः कल्पधूमसटाच्छविः ॥ 20 ॥
हिरण्यकोरःस्थलभिन्नखः सिंहमुखोऽनघः ।
प्रह्लादवरदो धीमान् भक्तसङ्घप्रतिष्ठितः ॥ 21 ॥
ब्रह्मरुद्रादिसंसेव्यः सिद्धसाध्यप्रपूजितः ।
लक्ष्मीनृसिंहो देवेशो ज्वालाजिह्वान्त्रमालिकः ॥ 22 ॥
खड्गी खेटी महेष्वासी कपाली मुसली हली ।
पाशी शूली महाबाहुर्ज्वरघ्नो रोगलुण्ठकः ॥ 23 ॥
मौञ्जीयुक् छात्रको दण्डी कृष्णाजिनधरो वटुः ।
अधीतवेदो वेदान्तोद्धारको ब्रह्मनैष्ठिकः ॥ 24 ॥
अहीनशयनप्रीतः आदितेयोऽनघो हरिः ।
संवित्प्रियः सामवेद्यो बलिवेश्मप्रतिष्ठितः ॥ 25 ॥
बलिक्षालितपादाब्जो विन्ध्यावलिविमानितः ।
त्रिपादभूमिस्वीकर्ता विश्वरूपप्रदर्शकः ॥ 26 ॥
धृतत्रिविक्रमः स्वाङ्घ्रिनखभिन्नाण्डखर्परः ।
पज्जातवाहिनीधारापवित्रितजगत्त्रयः ॥ 27 ॥
विधिसम्मानितः पुण्यो दैत्ययोद्धा जयोर्जितः ।
सुरराज्यप्रदः शुक्रमदहृत्सुगतीश्वरः ॥ 28 ॥
जामदग्न्यः कुठारी च कार्तवीर्यविदारणः ।
रेणुकायाः शिरोहारी दुष्टक्षत्रियमर्दनः ॥ 29 ॥
वर्चस्वी दानशीलश्च धनुष्मान् ब्रह्मवित्तमः ।
अत्युदग्रः समग्रश्च न्यग्रोधो दुष्टनिग्रहः ॥ 30 ॥
रविवंशसमुद्भूतो राघवो भरताग्रजः ।
कौसल्यातनयो रामो विश्वामित्रप्रियङ्करः ॥ 31 ॥
ताटकारिः सुबाहुघ्नो बलातिबलमन्त्रवान् ।
अहल्याशापविच्छेदी प्रविष्टजनकालयः ॥ 32 ॥
स्वयंवरसभासंस्थ ईशचापप्रभञ्जनः ।
जानकीपरिणेता च जनकाधीशसंस्तुतः ॥ 33 ॥
जमदग्नितनूजातयोद्धाऽयोध्याधिपाग्रणीः ।
पितृवाक्यप्रतीपालस्त्यक्तराज्यः सलक्ष्मणः ॥ 34 ॥
ससीतश्चित्रकूटस्थो भरताहितराज्यकः ।
काकदर्पप्रहर्ता च दण्डकारण्यवासकः ॥ 35 ॥
पञ्चवट्यां विहारी च स्वधर्मपरिपोषकः ।
विराधहाऽगस्त्यमुख्यमुनिसम्मानितः पुमान् ॥ 36 ॥
इन्द्रचापधरः खड्गधरश्चाक्षयसायकः ।
खरान्तको दूषणारिस्त्रिशिरस्करिपुर्वृषः ॥ 37 ॥
ततः शूर्पणखानासाच्छेत्ता वल्कलधारकः ।
जटावान् पर्णशालास्थो मारीचबलमर्दकः ॥ 38 ॥
पक्षिराट्कृतसंवादो रवितेजा महाबलः ।
शबर्यानीतफलभुक् हनूमत्परितोषितः ॥ 39 ॥
सुग्रीवाऽभयदो दैत्यकायक्षेपणभासुरः ।
सप्ततालसमुच्छेत्ता वालिहृत्कपिसंवृतः ॥ 40 ॥
वायुसूनुकृतासेवस्त्यक्तपम्पः कुशासनः ।
उदन्वत्तीरगः शूरो विभीषणवरप्रदः ॥ 41 ॥
सेतुकृद्दैत्यहा प्राप्तलङ्कोऽलङ्कारवान् स्वयम् ।
अतिकायशिरश्छेत्ता कुम्भकर्णविभेदनः ॥ 42 ॥
दशकण्ठशिरोध्वंसी जाम्बवत्प्रमुखावृतः ।
जानकीशः सुराध्यक्षः साकेतेशः पुरातनः ॥ 43 ॥
पुण्यश्लोको वेदवेद्यः स्वामितीर्थनिवासकः ।
लक्ष्मीसरःकेलिलोलो लक्ष्मीशो लोकरक्षकः ॥ 44 ॥
देवकीगर्भसम्भूतो यशोदेक्षणलालितः ।
वसुदेवकृतस्तोत्रो नन्दगोपमनोहरः ॥ 45 ॥
चतुर्भुजः कोमलाङ्गो गदावान्नीलकुन्तलः ।
पूतनाप्राणसंहर्ता तृणावर्तविनाशनः ॥ 46 ॥
गर्गारोपितनामाङ्को वासुदेवो ह्यधोक्षजः ।
गोपिकास्तन्यपायी च बलभद्रानुजोऽच्युतः ॥ 47 ॥
वैयाघ्रनखभूषश्च वत्सजिद्वत्सवर्धनः ।
क्षीरसाराशनरतो दधिभाण्डप्रमर्दनः ॥ 48 ॥
नवनीतापहर्ता च नीलनीरदभासुरः ।
आभीरदृष्टदौर्जन्यो नीलपद्मनिभाननः ॥ 49 ॥
मातृदर्शितविश्वाऽऽस्य उलूखलनिबन्धनः ।
नलकूबरशापान्तो गोधूलिच्छुरिताङ्गकः ॥ 50 ॥
गोसङ्घरक्षकः श्रीशो बृन्दारण्यनिवासकः ।
वत्सान्तको बकद्वेषी दैत्याम्बुदमहानिलः ॥ 51 ॥
महाजगरचण्डाग्निः शकटप्राणकण्टकः ।
इन्द्रसेव्यः पुण्यगात्रः खरजिच्चण्डदीधितिः ॥ 52 ॥
तालपक्वफलाशी च कालीयफणिदर्पहा ।
नागपत्नीस्तुतिप्रीतः प्रलम्बासुरखण्डनः ॥ 53 ॥
दावाग्निबलसंहारी फलाहारी गदाग्रजः ।
गोपाङ्गनाचेलचोरः पाथोलीलाविशारदः ॥ 54 ॥
वंशगानप्रवीणश्च गोपीहस्ताम्बुजार्चितः ।
मुनिपत्न्याहृताहारो मुनिश्रेष्ठो मुनिप्रियः ॥ 55 ॥
गोवर्धनाद्रिसन्धर्ता सङ्क्रन्दनतमोऽपहः ।
सदुद्यानविलासी च रासक्रीडापरायणः ॥ 56 ॥
वरुणाभ्यर्चितो गोपीप्रार्थितः पुरुषोत्तमः ।
अक्रूरस्तुतिसम्प्रीतः कुब्जायौवनदायकः ॥ 57 ॥
मुष्टिकोरःप्रहारी च चाणूरोदरदारणः ।
मल्लयुद्धाग्रगण्यश्च पितृबन्धनमोचकः ॥ 58 ॥
मत्तमातङ्गपञ्चास्यः कंसग्रीवानिकृन्तनः ।
उग्रसेनप्रतिष्ठाता रत्नसिंहासनस्थितः ॥ 59 ॥
कालनेमिखलद्वेषी मुचुकुन्दवरप्रदः ।
साल्वसेवितदुर्धर्षराजस्मयनिवारणः ॥ 60 ॥
रुक्मिगर्वापहारी च रुक्मिणीनयनोत्सवः ।
प्रद्युम्नजनकः कामी प्रद्युम्नो द्वारकाधिपः ॥ 61 ॥
मण्याहर्ता महामायो जाम्बवत्कृतसङ्गरः ।
जाम्बूनदाम्बरधरो गम्यो जाम्बवतीविभुः ॥ 62 ॥
कालिन्दीप्रथितारामकेलिर्गुञ्जावतंसकः ।
मन्दारसुमनोभास्वान् शचीशाभीष्टदायकः ॥ 63 ॥
सत्राजिन्मानसोल्लासी सत्याजानिः शुभावहः ।
शतधन्वहरः सिद्धः पाण्डवप्रियकोत्सवः ॥ 64 ॥
भद्रप्रियः सुभद्राया भ्राता नाग्नाजितीविभुः ।
किरीटकुण्डलधरः कल्पपल्लवलालितः ॥ 65 ॥
भैष्मीप्रणयभाषावान् मित्रविन्दाधिपोऽभयः ।
स्वमूर्तिकेलिसम्प्रीतो लक्ष्मणोदारमानसः ॥ 66 ॥
प्राग्ज्योतिषाधिपध्वंसी तत्सैन्यान्तकरोऽमृतः ।
भूमिस्तुतो भूरिभोगो भूषणाम्बरसंयुतः ॥ 67 ॥
बहुरामाकृताह्लादो गन्धमाल्यानुलेपनः ।
नारदादृष्टचरितो देवेशो विश्वराड्गुरुः ॥ 68 ॥
बाणबाहुविदारश्च तापज्वरविनाशकः ।
उषोद्धर्षयिताऽव्यक्तः शिववाक्तुष्टमानसः ॥ 69 ॥
महेशज्वरसंस्तुत्यः शीतज्वरभयान्तकः ।
नृगराजोद्धारकश्च पौण्ड्रकादिवधोद्यतः ॥ 70 ॥
विविधारिच्छलोद्विग्नब्राह्मणेषु दयापरः ।
जरासन्धबलद्वेषी केशिदैत्यभयङ्करः ॥ 71 ॥
चक्री चैद्यान्तकः सभ्यो राजबन्धविमोचकः ।
राजसूयहविर्भोक्ता स्निग्धाङ्गः शुभलक्षणः ॥ 72 ॥
धानाभक्षणसम्प्रीतः कुचेलाभीष्टदायकः ।
सत्त्वादिगुणगम्भीरो द्रौपदीमानरक्षकः ॥ 73 ॥
भीष्मध्येयो भक्तवश्यो भीमपूज्यो दयानिधिः ।
दन्तवक्त्रशिरश्छेत्ता कृष्णः कृष्णासखः स्वराट् ॥ 74 ॥
वैजयन्तीप्रमोदी च बर्हिबर्हविभूषणः ।
पार्थकौरवसन्धानकारी दुश्शासनान्तकः ॥ 75 ॥
बुद्धो विशुद्धः सर्वज्ञः क्रतुहिंसाविनिन्दकः ।
त्रिपुरस्त्रीमानभङ्गः सर्वशास्त्रविशारदः ॥ 76 ॥
निर्विकारो निर्ममश्च निराभासो निरामयः ।
जगन्मोहकधर्मी च दिग्वस्त्रो दिक्पतीश्वरः ॥ 77 ॥
कल्की म्लेच्छप्रहर्ता च दुष्टनिग्रहकारकः ।
धर्मप्रतिष्टाकारी च चातुर्वर्ण्यविभागकृत् ॥ 78 ॥
युगान्तको युगाक्रान्तो युगकृद्युगभासकः ।
कामारिः कामकारी च निष्कामः कामितार्थदः ॥ 79 ॥
भर्गो वरेण्यः सवितुः शार्ङ्गी वैकुण्ठमन्दिरः ।
हयग्रीवः कैटभारिः ग्राहघ्नो गजरक्षकः ॥ 80 ॥
सर्वसंशयविच्छेत्ता सर्वभक्तसमुत्सुकः ।
कपर्दी कामहारी च कला काष्ठा स्मृतिर्धृतिः ॥ 81 ॥
अनादिरप्रमेयौजाः प्रधानः सन्निरूपकः ।
निर्लेपो निःस्पृहोऽसङ्गो निर्भयो नीतिपारगः ॥ 82 ॥
निष्प्रेष्यो निष्क्रियः शान्तो निष्प्रपञ्चो निधिर्नयः
कर्म्यकर्मी विकर्मी च कर्मेप्सुः कर्मभावनः ॥ 83 ॥
कर्माङ्गः कर्मविन्यासो महाकर्मी महाव्रती ।
कर्मभुक्कर्मफलदः कर्मेशः कर्मनिग्रहः ॥ 84 ॥
नरो नारायणो दान्तः कपिलः कामदः शुचिः ।
तप्ता जप्ताऽक्षमालावान् गन्ता नेता लयो गतिः ॥ 85 ॥
शिष्टो द्रष्टा रिपुद्वेष्टा रोष्टा वेष्टा महानटः ।
रोद्धा बोद्धा महायोद्धा श्रद्धावान् सत्यधीः शुभः ॥ 86 ॥
मन्त्री मन्त्रो मन्त्रगम्यो मन्त्रकृत्परमन्त्रहृत् ।
मन्त्रभृन्मन्त्रफलदो मन्त्रेशो मन्त्रविग्रहः ॥ 87 ॥
मन्त्राङ्गो मन्त्रविन्यासो महामन्त्रो महाक्रमः ।
स्थिरधीः स्थिरविज्ञानः स्थिरप्रज्ञः स्थिरासनः ॥ 88 ॥
स्थिरयोगः स्थिराधारः स्थिरमार्गः स्थिरागमः ।
निश्श्रेयसो निरीहोऽग्निर्निरवद्यो निरञ्जनः ॥ 89 ॥
निर्वैरो निरहङ्कारो निर्दम्भो निरसूयकः ।
अनन्तोऽनन्तबाहूरुरनन्ताङ्घ्रिरनन्तदृक् ॥ 90 ॥
अनन्तवक्त्रोऽनन्ताङ्गोऽनन्तरूपो ह्यनन्तकृत् ।
ऊर्ध्वरेता ऊर्ध्वलिङ्गो ह्यूर्ध्वमूर्धोर्ध्वशाखकः ॥ 91 ॥
ऊर्ध्व ऊर्ध्वाध्वरक्षी च ह्यूर्ध्वज्वालो निराकुलः ।
बीजं बीजप्रदो नित्यो निदानं निष्कृतिः कृती ॥ 92 ॥
महानणीयन् गरिमा सुषमा चित्रमालिकः ।
नभः स्पृङ्नभसो ज्योतिर्नभस्वान्निर्नभा नभः ॥ 93 ॥
अभुर्विभुः प्रभुः शम्भुर्महीयान् भूर्भुवाकृतिः ।
महानन्दो महाशूरो महोराशिर्महोत्सवः ॥ 94 ॥
महाक्रोधो महाज्वालो महाशान्तो महागुणः ।
सत्यव्रतः सत्यपरः सत्यसन्धः सतां गतिः ॥ 95 ॥
सत्येशः सत्यसङ्कल्पः सत्यचारित्रलक्षणः ।
अन्तश्चरो ह्यन्तरात्मा परमात्मा चिदात्मकः ॥ 96 ॥
रोचनो रोचमानश्च साक्षी शौरिर्जनार्दनः ।
मुकुन्दो नन्दनिष्पन्दः स्वर्णबिन्दुः पुरन्दरः ॥ 97 ॥
अरिन्दमः सुमन्दश्च कुन्दमन्दारहासवान् ।
स्यन्दनारूढचण्डाङ्गो ह्यानन्दी नन्दनन्दनः ॥ 98 ॥
अनसूयानन्दनोऽत्रिनेत्रानन्दः सुनन्दवान् ।
शङ्खवान्पङ्कजकरः कुङ्कुमाङ्को जयाङ्कुशः ॥ 99 ॥
अम्भोजमकरन्दाढ्यो निष्पङ्कोऽगरुपङ्किलः ।
इन्द्रश्चन्द्ररथश्चन्द्रोऽतिचन्द्रश्चन्द्रभासकः ॥ 100 ॥
उपेन्द्र इन्द्रराजश्च वागिन्द्रश्चन्द्रलोचनः ।
प्रत्यक् पराक् परन्धाम परमार्थः परात्परः ॥ 101 ॥
अपारवाक् पारगामी पारावारः परावरः ।
सहस्वानर्थदाता च सहनः साहसी जयी ॥ 102 ॥
तेजस्वी वायुविशिखी तपस्वी तापसोत्तमः ।
ऐश्वर्योद्भूतिकृद्भूतिरैश्वर्याङ्गकलापवान् ॥ 103 ॥
अम्भोधिशायी भगवान् सर्वज्ञः सामपारगः ।
महायोगी महाधीरो महाभोगी महाप्रभुः ॥ 104 ॥
महावीरो महातुष्टिर्महापुष्टिर्महागुणः ।
महादेवो महाबाहुर्महाधर्मो महेश्वरः ॥ 105 ॥
समीपगो दूरगामी स्वर्गमार्गनिरर्गलः ।
नगो नगधरो नागो नागेशो नागपालकः ॥ 106 ॥
हिरण्मयः स्वर्णरेता हिरण्यार्चिर्हिरण्यदः ।
गुणगण्यः शरण्यश्च पुण्यकीर्तिः पुराणगः ॥ 107 ॥
जन्यभृज्जन्यसन्नद्धो दिव्यपञ्चायुधो वशी ।
दौर्जन्यभङ्गः पर्जन्यः सौजन्यनिलयोऽलयः ॥ 108 ॥
जलन्धरान्तको भस्मदैत्यनाशी महामनाः ।
श्रेष्ठः श्रविष्ठो द्राघिष्ठो गरिष्ठो गरुडध्वजः ॥ 109 ॥
ज्येष्ठो द्रढिष्ठो वर्षिष्ठो द्राघीयान् प्रणवः फणी ।
सम्प्रदायकरः स्वामी सुरेशो माधवो मधुः ॥ 110 ॥
निर्निमेषो विधिर्वेधा बलवान् जीवनं बली ।
स्मर्ता श्रोता विकर्ता च ध्याता नेता समोऽसमः ॥ 111 ॥
होता पोता महावक्ता रन्ता मन्ता खलान्तकः ।
दाता ग्राहयिता माता नियन्ताऽनन्तवैभवः ॥ 112 ॥
गोप्ता गोपयिता हन्ता धर्मजागरिता धवः ।
कर्ता क्षेत्रकरः क्षेत्रप्रदः क्षेत्रज्ञ आत्मवित् ॥ 113 ॥
क्षेत्री क्षेत्रहरः क्षेत्रप्रियः क्षेमकरो मरुत् ।
भक्तिप्रदो मुक्तिदायी शक्तिदो युक्तिदायकः ॥ 114 ॥
शक्तियुङ्मौक्तिकस्रग्वी सूक्तिराम्नायसूक्तिगः ।
धनञ्जयो धनाध्यक्षो धनिको धनदाधिपः ॥ 115 ॥
महाधनो महामानी दुर्योधनविमानितः ।
रत्नाकरो रत्नरोची रत्नगर्भाश्रयः शुचिः ॥ 116 ॥
रत्नसानुनिधिर्मौलिरत्नभा रत्नकङ्कणः ।
अन्तर्लक्ष्योऽन्तरभ्यासी चान्तर्ध्येयो जितासनः ॥ 117 ॥
अन्तरङ्गो दयावांश्च ह्यन्तर्मायो महार्णवः ।
सरसः सिद्धरसिकः सिद्धिः साध्यः सदागतिः ॥ 118 ॥
आयुःप्रदो महायुष्मानर्चिष्मानोषधीपतिः ।
अष्टश्रीरष्टभागोऽष्टककुब्व्याप्तयशो व्रती ॥ 119 ॥
अष्टापदः सुवर्णाभो ह्यष्टमूर्तिस्त्रिमूर्तिमान् ।
अस्वप्नः स्वप्नगः स्वप्नः सुस्वप्नफलदायकः ॥ 120 ॥
दुःस्वप्नध्वंसको ध्वस्तदुर्निमित्तः शिवङ्करः ।
सुवर्णवर्णः सम्भाव्यो वर्णितो वर्णसम्मुखः ॥ 121 ॥
सुवर्णमुखरीतीरशिवध्यातपदाम्बुजः ।
दाक्षायणीवचस्तुष्टो दूर्वासोदृष्टिगोचरः ॥ 122 ॥
अम्बरीषव्रतप्रीतो महाकृत्तिविभञ्जनः ।
महाभिचारकध्वंसी कालसर्पभयान्तकः ॥ 123 ॥
सुदर्शनः कालमेघश्यामः श्रीमन्त्रभावितः ।
हेमाम्बुजसरःस्नायी श्रीमनोभाविताकृतिः ॥ 124 ॥
श्रीप्रदत्ताम्बुजस्रग्वी श्रीकेलिः श्रीनिधिर्भवः ।
श्रीप्रदो वामनो लक्ष्मीनायकश्च चतुर्भुजः ॥ 125 ॥
सन्तृप्तस्तर्पितस्तीर्थस्नातृसौख्यप्रदर्शकः ।
अगस्त्यस्तुतिसंहृष्टो दर्शिताव्यक्तभावनः ॥ 126 ॥
कपिलार्चिः कपिलवान् सुस्नाताघविपाटनः ।
वृषाकपिः कपिस्वामिमनोऽन्तःस्थितविग्रहः ॥ 127 ॥
वह्निप्रियोऽर्थसम्भाव्यो जनलोकविधायकः ।
वह्निप्रभो वह्नितेजाः शुभाभीष्टप्रदो यमी ॥ 128 ॥
वारुणक्षेत्रनिलयो वरुणो वारणार्चितः ।
वायुस्थानकृतावासो वायुगो वायुसम्भृतः ॥ 129 ॥
यमान्तकोऽभिजननो यमलोकनिवारणः ।
यमिनामग्रगण्यश्च संयमी यमभावितः ॥ 130 ॥
इन्द्रोद्यानसमीपस्थः इन्द्रदृग्विषयः प्रभुः ।
यक्षराट् सरसीवासो ह्यक्षय्यनिधिकोशकृत् ॥ 131 ॥
स्वामितीर्थकृतावासः स्वामिध्येयो ह्यधोक्षजः ।
वराहाद्यष्टतीर्थाभिसेविताङ्घ्रिसरोरुहः ॥ 132 ॥
पाण्डुतीर्थाभिषिक्ताङ्गो युधिष्ठिरवरप्रदः ।
भीमान्तःकरणारूढः श्वेतवाहनसख्यवान् ॥ 133 ॥
नकुलाभयदो माद्रीसहदेवाभिवन्दितः ।
कृष्णाशपथसन्धाता कुन्तीस्तुतिरतो दमी ॥ 134 ॥
नारदादिमुनिस्तुत्यो नित्यकर्मपरायणः ।
दर्शिताव्यक्तरूपश्च वीणानादप्रमोदितः ॥ 135 ॥
षट्कोटितीर्थचर्यावान् देवतीर्थकृताश्रमः ।
बिल्वामलजलस्नायी सरस्वत्यम्बुसेवितः ॥ 136 ॥
तुम्बुरूदकसंस्पर्शजनचित्ततमोऽपहः ।
मत्स्यवामनकूर्मादितीर्थराजः पुराणभृत् ॥ 137 ॥
चक्रध्येयपदाम्भोजः शङ्खपूजितपादुकः ।
रामतीर्थविहारी च बलभद्रप्रतिष्ठितः ॥ 138 ॥
जामदग्न्यसरस्तीर्थजलसेचनतर्पितः ।
पापापहारिकीलालसुस्नाताघविनाशनः ॥ 139 ॥
नभोगङ्गाभिषिक्तश्च नागतीर्थाभिषेकवान् ।
कुमारधारातीर्थस्थो वटुवेषः सुमेखलः ॥ 140 ॥
वृद्धस्य सुकुमारत्वप्रदः सौन्दर्यवान् सुखी ।
प्रियंवदो महाकुक्षिरिक्ष्वाकुकुलनन्दनः ॥ 141 ॥
नीलगोक्षीरधाराभूर्वराहाचलनायकः ।
भरद्वाजप्रतिष्ठावान् बृहस्पतिविभावितः ॥ 142 ॥
अञ्जनाकृतपूजावान् आञ्जनेयकरार्चितः ।
अञ्जनाद्रिनिवासश्च मुञ्जकेशः पुरन्दरः ॥ 143 ॥
किन्नरद्वयसम्बन्धिबन्धमोक्षप्रदायकः ।
वैखानसमखारम्भो वृषज्ञेयो वृषाचलः ॥ 144 ॥
वृषकायप्रभेत्ता च क्रीडनाचारसम्भ्रमः ।
सौवर्चलेयविन्यस्तराज्यो नारायणः प्रियः ॥ 145 ॥
दुर्मेधोभञ्जकः प्राज्ञो ब्रह्मोत्सवमहोत्सुकः ।
भद्रासुरशिरश्छेत्ता भद्रक्षेत्री सुभद्रवान् ॥ 146 ॥
मृगयाऽक्षीणसन्नाहः शङ्खराजन्यतुष्टिदः ।
स्थाणुस्थो वैनतेयाङ्गभावितो ह्यशरीरवान् ॥ 147 ॥
भोगीन्द्रभोगसंस्थानो ब्रह्मादिगणसेवितः ।
सहस्रार्कच्छटाभास्वद्विमानान्तःस्थितो गुणी ॥ 148 ॥
विष्वक्सेनकृतस्तोत्रः सनन्दनवरीवृतः ।
जाह्नव्यादिनदीसेव्यः सुरेशाद्यभिवन्दितः ॥ 149 ॥
सुराङ्गनानृत्यपरो गन्धर्वोद्गायनप्रियः ।
राकेन्दुसङ्काशनखः कोमलाङ्घ्रिसरोरुहः ॥ 150 ॥
कच्छपप्रपदः कुन्दगुल्फकः स्वच्छकूर्परः ।
मेदुरस्वर्णवस्त्राढ्यकटिदेशस्थमेखलः ॥ 151 ॥
प्रोल्लसच्छुरिकाभास्वत्कटिदेशः शुभङ्करः ।
अनन्तपद्मजस्थाननाभिर्मौक्तिकमालिकः ॥ 152 ॥
मन्दारचाम्पेयमाली रत्नाभरणसम्भृतः ।
लम्बयज्ञोपवीती च चन्द्रश्रीखण्डलेपवान् ॥ 153 ॥
वरदोऽभयदश्चक्री शङ्खी कौस्तुभदीप्तिमान् ।
श्रीवत्साङ्कितवक्षस्को लक्ष्मीसंश्रितहृत्तटः ॥ 154 ॥
नीलोत्पलनिभाकारः शोणाम्भोजसमाननः ।
कोटिमन्मथलावण्यश्चन्द्रिकास्मितपूरितः ॥ 155 ॥
सुधास्वच्छोर्ध्वपुण्ड्रश्च कस्तूरीतिलकाञ्चितः ।
पुण्डरीकेक्षणः स्वच्छो मौलिशोभाविराजितः ॥ 156 ॥
पद्मस्थः पद्मनाभश्च सोममण्डलगो बुधः ।
वह्निमण्डलगः सूर्यः सूर्यमण्डलसंस्थितः ॥ 157 ॥
श्रीपतिर्भूमिजानिश्च विमलाद्यभिसंवृतः ।
जगत्कुटुम्बजनिता रक्षकः कामितप्रदः ॥ 158 ॥
अवस्थात्रययन्ता च विश्वतेजस्स्वरूपवान् ।
ज्ञप्तिर्ज्ञेयो ज्ञानगम्यो ज्ञानातीतः सुरातिगः ॥ 159 ॥
ब्रह्माण्डान्तर्बहिर्व्याप्तो वेङ्कटाद्रिगदाधरः ।
वेङ्कटाद्रिगदाधर ॐ नमः इति ॥
एवं श्रीवेङ्कटेशस्य कीर्तितं परमाद्भुतम् ॥ 160 ॥
नाम्नां सहस्रं संश्राव्यं पवित्रं पुण्यवर्धनम् ।
श्रवणात्सर्वदोषघ्नं रोगघ्नं मृत्युनाशनम् ॥ 1 ॥
दारिद्र्यभेदनं धर्म्यं सर्वैश्वर्यफलप्रदम् ।
कालाहिविषविच्छेदि ज्वरापस्मारभञ्जनम् ॥ 2 ॥
[शत्रुक्षयकरं राजग्रहपीडानिवारणम् ।
ब्रह्मराक्षसकूष्माण्डभेतालभयभञ्जनम् ॥]
विद्याभिलाषी विद्यावान् धनार्थी धनवान् भवेत् ।
अनन्तकल्पजीवी स्यादायुष्कामो महायशाः ॥ 3 ॥
पुत्रार्थी सुगुणान्पुत्रान् लभेताऽऽयुष्मतस्ततः ।
सङ्ग्रामे शत्रुविजयी सभायां प्रतिवादिजित् ॥ 4 ॥
दिव्यैर्नामभिरेभिस्तु तुलसीपूजनात्सकृत् ।
वैकुण्ठवासी भगवत्सदृशो विष्णुसन्निधौ ॥ 5 ॥
कल्हारपूजनान्मासात् द्वितीय इव यक्षराट् ।
नीलोत्पलार्चनात्सर्वराजपूज्यः सदा भवेत् ॥ 6 ॥
हृत्संस्थितैर्नामभिस्तु भूयाद्दृग्विषयो हरिः ।
वाञ्छितार्थं तदा दत्वा वैकुण्ठं च प्रयच्छति ॥ 7 ॥
त्रिसन्ध्यं यो जपेन्नित्यं सम्पूज्य विधिना विभुम् ।
त्रिवारं पञ्चवारं वा प्रत्यहं क्रमशो यमी ॥ 8 ॥
मासादलक्ष्मीनाशः स्यात् द्विमासात् स्यान्नरेन्द्रता ।
त्रिमासान्महदैश्वर्यं ततः सम्भाषणं भवेत् ॥ 9 ॥
मासं पठन्न्यूनकर्मपूर्तिं च समवाप्नुयात् ।
मार्गभ्रष्टश्च सन्मार्गं गतस्वः स्वं स्वकीयकम् ॥ 10 ॥
चाञ्चल्यचित्तोऽचाञ्चल्यं मनस्स्वास्थ्यं च गच्छति ।
आयुरारोग्यमैश्वर्यं ज्ञानं मोक्षं च विन्दति ॥ 11 ॥
सर्वान्कामानवाप्नोति शाश्वतं च पदं तथा ।
सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं न संशयः ॥ 12 ॥
इति श्री ब्रह्माण्डपुराणे वसिष्ठनारदसंवादे श्रीवेङ्कटाचलमाहात्म्ये श्री वेङ्कटेश सहस्रनाम स्तोत्रं समाप्तम् ।