अस्य श्रीललिता कवच स्तवरत्न मन्त्रस्य, आनन्दभैरव ऋषिः, अमृतविराट् छन्दः, श्री महात्रिपुरसुन्दरी ललितापराम्बा देवता ऐं बीजं ह्रीं शक्तिः श्रीं कीलकं, मम श्री ललिताम्बा प्रसादसिद्ध्यर्थे श्री ललिता कवचस्तवरत्न मन्त्र जपे विनियोगः ।
करन्यासः ।
ऐं अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
श्रीं मध्यमाभ्यां नमः ।
श्रीं अनामिकाभ्यां नमः ।
ह्रीं कनिष्ठिकाभ्यां नमः ।
ऐं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः ।
ऐं हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
श्रीं शिखायै वषट् ।
श्रीं कवचाय हुम् ।
ह्रीं नेत्रत्रयाय वौषट् ।
ऐं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ।
ध्यानम् –
श्रीविद्यां परिपूर्णमेरुशिखरे बिन्दुत्रिकोणेस्थितां
वागीशादि समस्तभूतजननीं मञ्चे शिवाकारके ।
कामाक्षीं करुणारसार्णवमयीं कामेश्वराङ्कस्थितां
कान्तां चिन्मयकामकोटिनिलयां श्रीब्रह्मविद्यां भजे ॥ 1 ॥
लमित्यादि पञ्चपूजां कुर्यात् ।
लं – पृथ्वीतत्त्वात्मिकायै श्रीललितादेव्यै गन्धं समर्पयामि ।
हं – आकाशतत्त्वात्मिकायै श्रीललितादेव्यै पुष्पं समर्पयामि ।
यं – वायुतत्त्वात्मिकायै श्री ललितादेव्यै धूपं समर्पयामि ।
रं – वह्नितत्त्वात्मिकायै श्री ललितादेव्यै दीपं समर्पयामि ।
वं – अमृततत्त्वात्मिकायै श्री ललितादेव्यै अमृतनैवेद्यं समर्पयामि ।
पञ्चपूजां कृत्वा योनिमुद्रां प्रदर्श्य ।
अथ कवचम् ।
ककारः पातु शीर्षं मे एकारः पातु फालकम् ।
ईकारश्चक्षुषी पातु श्रोत्रे रक्षेल्लकारकः ॥ 2 ॥
ह्रीङ्कारः पातु नासाग्रं वक्त्रं वाग्भवसञ्ज्ञिकः ।
हकारः पातु कण्ठं मे सकारः स्कन्धदेशकम् ॥ 3 ॥
ककारो हृदयं पातु हकारो जठरं तथा ।
लकारो नाभिदेशं तु ह्रीङ्कारः पातु गुह्यकम् ॥ 4 ॥
कामकूटः सदा पातु कटिदेशं ममावतु ।
सकारः पातु चोरू मे ककारः पातु जानुनी ॥ 5 ॥
लकारः पातु जङ्घे मे ह्रीङ्कारः पातु गुल्फकौ ।
शक्तिकूटं सदा पातु पादौ रक्षतु सर्वदा ॥ 6 ॥
मूलमन्त्रकृतं चैतत्कवचं यो जपेन्नरः ।
प्रत्यहं नियतः प्रातस्तस्य लोका वशंवदाः ॥ 7 ॥
उत्तरन्यासः ।
करन्यासः –
ऐं अङ्गुष्ठाभ्यां नमः ।
ह्रीं तर्जनीभ्यां नमः ।
श्रीं मध्यमाभ्यां नमः ।
श्रीं अनामिकाभ्यां नमः ।
ह्रीं कनिष्ठिकाभ्यां नमः ।
ऐं करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः ।
ऐं हृदयाय नमः ।
ह्रीं शिरसे स्वाहा ।
श्रीं शिखायै वषट् ।
श्रीं कवचाय हुम् ।
ह्रीं नेत्रत्रयाय वौषट् ।
ऐं अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।
इति ब्रह्मकृत श्री ललिता मूलमन्त्र कवचम् ।