ॐ महामायायै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महावाण्यै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ महादेव्यै नमः ।
ॐ महारात्र्यै नमः ।
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कुह्वै नमः ।
ॐ पूर्णायै नमः । 10 ।
ॐ आनन्दायै नमः ।
ॐ आद्यायै नमः ।
ॐ भद्रिकायै नमः ।
ॐ निशायै नमः ।
ॐ जयायै नमः ।
ॐ रिक्तायै नमः ।
ॐ महाशक्त्यै नमः ।
ॐ देवमात्रे नमः ।
ॐ कृशोदर्यै नमः ।
ॐ शच्यै नमः । 20 ।
ॐ इन्द्राण्यै नमः ।
ॐ शक्रनुतायै नमः ।
ॐ शङ्करप्रियवल्लभायै नमः ।
ॐ महावराहजनन्यै नमः ।
ॐ मदनोन्मथिन्यै नमः ।
ॐ मह्यै नमः ।
ॐ वैकुण्ठनाथरमण्यै नमः ।
ॐ विष्णुवक्षःस्थलस्थितायै नमः ।
ॐ विश्वेश्वर्यै नमः ।
ॐ विश्वमात्रे नमः । 30 ।
ॐ वरदायै नमः ।
ॐ अभयदायै नमः ।
ॐ शिवायै नमः ।
ॐ शूलिन्यै नमः ।
ॐ चक्रिण्यै नमः ।
ॐ मायै नमः ।
ॐ पाशिन्यै नमः ।
ॐ शङ्खधारिण्यै नमः ।
ॐ गदिन्यै नमः ।
ॐ मुण्डमालायै नमः । 40 ।
ॐ कमलायै नमः ।
ॐ करुणालयायै नमः ।
ॐ पद्माक्षधारिण्यै नमः ।
ॐ अम्बायै नमः ।
ॐ महाविष्णुप्रियङ्कर्यै नमः ।
ॐ गोलोकनाथरमण्यै नमः ।
ॐ गोलोकेश्वरपूजितायै नमः ।
ॐ गयायै नमः ।
ॐ गङ्गायै नमः ।
ॐ यमुनायै नमः । 50 ।
ॐ गोमत्यै नमः ।
ॐ गरुडासनायै नमः ।
ॐ गण्डक्यै नमः ।
ॐ सरय्वै नमः ।
ॐ ताप्यै नमः ।
ॐ रेवायै नमः ।
ॐ पयस्विन्यै नमः ।
ॐ नर्मदायै नमः ।
ॐ कावेर्यै नमः ।
ॐ केदारस्थलवासिन्यै नमः । 60 ।
ॐ किशोर्यै नमः ।
ॐ केशवनुतायै नमः ।
ॐ महेन्द्रपरिवन्दितायै नमः ।
ॐ ब्रह्मादिदेवनिर्माणकारिण्यै नमः ।
ॐ वेदपूजितायै नमः ।
ॐ कोटिब्रह्माण्डमध्यस्थायै नमः ।
ॐ कोटिब्रह्माण्डकारिण्यै नमः ।
ॐ श्रुतिरूपायै नमः ।
ॐ श्रुतिकर्यै नमः ।
ॐ श्रुतिस्मृतिपरायणायै नमः । 70 ।
ॐ इन्दिरायै नमः ।
ॐ सिन्धुतनयायै नमः ।
ॐ मातङ्ग्यै नमः ।
ॐ लोकमातृकायै नमः ।
ॐ त्रिलोकजनन्यै नमः ।
ॐ तन्त्रायै नमः ।
ॐ तन्त्रमन्त्रस्वरूपिण्यै नमः ।
ॐ तरुण्यै नमः ।
ॐ तमोहन्त्र्यै नमः ।
ॐ मङ्गलायै नमः । 80 ।
ॐ मङ्गलायनायै नमः ।
ॐ मधुकैटभमथन्यै नमः ।
ॐ शुम्भासुरविनाशिन्यै नमः ।
ॐ निशुम्भादिहरायै नमः ।
ॐ मात्रे नमः ।
ॐ हरिशङ्करपूजितायै नमः ।
ॐ सर्वदेवमय्यै नमः ।
ॐ सर्वायै नमः ।
ॐ शरणागतपालिन्यै नमः ।
ॐ शरण्यायै नमः । 90 ।
ॐ शम्भुवनितायै नमः ।
ॐ सिन्धुतीरनिवासिन्यै नमः ।
ॐ गन्धार्वगानरसिकायै नमः ।
ॐ गीतायै नमः ।
ॐ गोविन्दवल्लभायै नमः ।
ॐ त्रैलोक्यपालिन्यै नमः ।
ॐ तत्त्वरूपायै नमः ।
ॐ तारुण्यपूरितायै नमः ।
ॐ चन्द्रावल्यै नमः ।
ॐ चन्द्रमुख्यै नमः । 100 ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्रपूजितायै नमः ।
ॐ चन्द्रायै नमः ।
ॐ शशाङ्कभगिन्यै नमः ।
ॐ गीतवाद्यपरायणायै नमः ।
ॐ सृष्टिरूपायै नमः ।
ॐ सृष्टिकर्यै नमः ।
ॐ सृष्टिसंहारकारिण्यै नमः । 108 ।
इति श्री कमलाष्टोत्तरशतनामावलिः ॥