निशुम्भ-शुम्भ-मर्दनीं, प्रचण्ड-मुण्ड-खण्डिनीम् ।
वने रणे प्रकाशिनीं, भजामि विन्ध्यवासिनीम् ॥
त्रिशूल-मुण्डधारिणीं, धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं, भजामि विन्ध्यवासिनीम् ॥
दरिद्र्थ-दुःख-हारिणीं, सदा विभूतिकारिणीम् ।
वियोगशौक-हारिणीं, भजामि विन्ध्यवासिनीम् ॥
लसत्सुलोल-लोचनीं, जने सदा वरप्रदाम् ।
कपाल-शूलधारिणीं भजामि विन्ध्यवासिनीम् ॥
करे मुदा गदाधरां शिवां शिवप्रदायिनीम्।
वरा-वराननां शुभां, भजामि विन्ध्यवासिनीम् ॥
कपीन्द्र-जामिनीप्रदां, त्रिधास्वरूपधारिणीम् ।
जले स्थले निवासिनीं, भजामि विन्ध्यवासिनीम् ॥
विशिष्ट-शिष्टकारिणीं, विशालरूप धारिणीम् ।
महोदरे विलासिनीं, भजामि विन्ध्यवासिनीम् ॥
पुरन्दरादिसेवितां, सुरारिवंशखण्डिताम् ।
विशुद्ध-बुद्धिकारिणीं, भजामि विन्ध्यवासिनीम् ॥
इति श्री विन्ध्येश्वरीस्तोत्रं सम्पूर्णम् ।