View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री बगलामुखी स्तोत्रम् - 2

अस्य श्रीबगलामुखीमहामन्त्रस्य
नारदो भगवान् ऋषिः
अतिजगतीछन्दः
श्री बगलामुखी देवता
लां बीजं इं शक्तिः
लं कीलकं-मम दूरस्थानां समीपस्थानां गति मति वाक्त्सम्भनार्थे जपे विनियोगः

ॐ ह्रीं अङ्गुष्ठाभ्यां नमः
बगलामुखी तर्जनीभ्यां नमः
सर्वदुष्टानां मध्यमाभ्यां नमः
वाचं मुखं पदं स्तम्भय अनामिकाभ्यां नमः
जिह्वां कीलय बुद्धिं विनाशय कनिष्ठिकाभ्यां नमः
ह्रीं ॐ स्वाहा करतलकरपृष्टाभ्यां नमः

ॐ ह्रीं हृदयाय नमः
बगलामुखी शिरसे स्वाहा
सर्वदुष्टानां शिखायै वषत्
वाचं मुखं पदं स्तम्भय कवचा हुं
जिह्वां कीलय बुद्धिं विनाशय नेत्रत्रयाय वौषट्
ह्रीं ॐ स्वाहा अस्त्राय फट्
भूर्भुवस्सुवरोमिति दिग्बन्धः ।

ध्यानम् ।

पीताम्बरां त्रिणेत्रां च द्विभुजां दहनोज्वलाम् ।
शिलापर्वतहस्तां च रिपुकम्पां महोत्कटाम् ॥ 1 ॥

गम्भीरां च मदोन्मत्तां स्वर्णकान्तिसमप्रभाम् ।
वैरिनिर्दलनार्थाय स्मरेत्तां बगलामुखीम् ॥ 2 ॥

चतुर्भुजां त्रिणयनां कमलासनसंस्थिताम् ।
दक्षिणे मुद्गरं पाशं वामे जिह्वां च वज्रकम् ॥ 3 ॥

पीताम्बरधरां सान्द्रां दृढपीनयोधराम् ।
वैरिवाक्त्सम्भिनीं देवीं स्मरामि बगलामुखीम् ॥ 4 ॥

हेमकुण्डलभूषाङ्गीं शीतचन्द्रार्धशेखरीम् ।
पीतभूषणभूषाढ्यां स्वर्णसिंहासनेस्थिताम् ॥ 5 ॥

त्रिशूलधारिणीमम्बां सर्वसौभाग्यदायिनीम् ।
सर्वशृङ्गारवेषाढ्यां भजेत्तां बगलामुखीम् ॥ 6 ॥

मध्ये सुधाब्धिमणिमण्टप रत्न वेद्यां
सिंहासनोपरिगतां परिपीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं नमामि धृत मुद्गरवैरि जिह्वाम् ॥ 7 ॥

चलत्कनककुण्डलोल्लसितचारुगण्डस्थलां
लसत्कनकचम्पक द्युतिमदर्धेन्दु बिम्बाञ्चिताम् ।
सदाहितविपक्षकां दलितवैरि जिह्वाञ्चलां
नमामि बगलामुखीं धीमतां वाङ्मनस्स्तम्भिनीम् ॥ 8 ॥

पीयूषो दधिमध्यचारु विलसद्रत्नोज्वले मण्टपे
यासिंहासन मौलिपातितरिपु प्रेतासनाध्यासिनीम् ।
स्वर्णाभां करपीडितारिरशनां भ्राम्यद्गदां बिभ्रतीं
यस्त्वां पश्यति तस्य यान्ति विलयं सद्योहि सर्वापदः ॥ 9 ॥

देवि त्वच्चरणाम्बुजार्चनकृते यः पीतपुष्पाञ्जलिं
मुद्रां वामकरे निधाय च पुनर्मन्त्री मनोज्ञाक्षरीम् ।
पीठध्यानपरोपि कुम्भकवशाद्बीजं स्मरेत्प्रार्थितं
तस्या मित्रचयस्य संसदि मुख स्तम्भो भवेत्तत्क्षणात् ॥ 10 ॥

(ॐ ह्रीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्रीं ॐ स्वाहा)

मन्त्रस्तावदयं विपक्षदलने स्तोत्रं पवित्रं च ते
यन्त्रंवादिनि यन्त्रिणं त्रिजगतां जैत्रं स चित्रं च तत् ।
श्रीमातर्बगलेति नाम ललितं यस्यास्ति जन्तोर्मुखे
तन्नामस्मरणेन वाग्भवमुख स्तम्भोभवेत्तत्क्षणात् ॥ 11 ॥

दुष्टस्तम्भनमुग्रविघ्नशमनं दारिद्र्यविद्रावणं
भूभृत्त्सम्भनकारणं मृगदृशां चेतस्समाकर्षणम् ।
सौभाग्यैकनिकेतनं मम दृशां कारुण्यपूर्णेक्षणे
मृत्योर्मारणमाविरस्तु पुरतो मातस्त्वदीयं वपुः ॥ 12 ॥

सङ्ख्याग्रे चोरदण्ड प्रहरणसमये बन्धने वैरिमध्ये
विद्यावादे विवादे प्रकटितनृपतौ युद्धकाले निशायाम् ।
वश्ये च स्तम्भने वा रिपुवधसमये प्राणबाधे रणे वा
गच्छन्तीष्टं त्रिकालं तव पठनमिदं कारयेदाशु धीरः ॥ 13 ॥

मातर्भञ्जय मद्विपक्षवदनं जिह्वां च सङ्कीलय
ब्राह्मीं मुद्रय मुद्रयाशुधिषणामङ्घ्र्योर्गतिं स्तम्भय ।
शत्रून् चूर्णय चूर्णयाशु गदया गौराङ्गि पीताम्बरे
विघ्नौघं बगले हर प्रतिदिनं कौमारि वामेक्षणे ॥ 14 ॥

मातर्भैरवि भद्रकालि विजये वाराहि विश्वाश्रये
श्रीनित्ये बगले महेशि समये रामे सुरामे रमे ।
मातङ्गि त्रिपुरे परात्परतरे स्वर्गापवर्गप्रदे
वन्देहं शरणागतोस्मिकृपया विश्वेश्वरी त्राहि माम् ॥ 15 ॥

त्वं विद्या परमा त्रिलोकजननी व्योषाननं छेदिनी
योषाकर्षणकारिणी च सुमहाबन्धैकसम्भेदिनी ।
दुष्टोच्चाटनकारिणी रिपुमनस्सन्दोहसन्दायिनी
जिह्वाकीलनभैरवी विजयते ब्रह्मास्त्रसारायणी ॥ 16 ॥

यः कृतं जपसङ्ख्यानां चिन्तितं परमेश्वरी ।
शत्रूणां बुद्धिनाशाय गृहाण मदनुग्रहात् ॥ 17 ॥

वैडूर्यहारपरिशोभितहेममालां
मध्येतिपीन कुचयोर्धृतपीतवस्त्राम् ।
व्याघ्राधिरूढ परिपूरित रत्नशोभां
नित्यं स्मरामि बगलां रिपुवक्त्र कीलाम् ॥ 18 ॥

एकाग्र मानसो भूत्वा स्तोष्यत्यम्बां सुशोभनाम् ।
रजन्या रचितां मालां करे धृत्वा जपेच्छुचिः ॥ 19 ॥

वामे पाणौ तु पाशं च तस्याधस्ताद्धृढं शुभम् ।
दक्षे करेऽक्षसूत्रं च अधःपद्मं च धारिणीम् ॥ 20 ॥

चामुण्डे चण्डिकोष्ट्रे हुतवहदयिते श्यामले श्रीभुजङ्गी
दुर्गे प्रत्यङ्गिराद्ये मुररिपुभगिनी भार्गवीवामनेत्रे ।
नानारूपप्रभेदे स्थितिलयजननं पालयद्भर्गहृद्ये
विश्वाद्ये विश्वजैत्री त्रिपुरः बगले विश्ववन्द्ये त्वमेका ॥ 21 ॥

चक्रं खड्गं मुसलमभयं दक्षिणाभिश्च दोर्भिः
शङ्खं खेटं हलमपि च गदां बिभ्रतीं वामदोर्भिः ।
सिंहारूढामयुगनयनां श्यामलां कञ्जवक्त्रां
वन्दे देवीं सकलवरदां पञ्चमीं मातृमध्याम् ॥ 22 ॥

द्वात्रिंशदायुतयुतैश्चतुरष्टहस्तै-
रष्टोत्तरैश्शतकरैश्च सहस्रहस्तैः ।
सर्वायुधैरयुत बाहुभिरन्वितां तां
देवीं भजामि बगलां रसनाग्रहस्ताम् ॥ 23 ॥

सर्वतश्शुभकरां द्विभुजां तां
कम्बुहेम नवकुण्डल कर्णाम् ।
शत्रुनिर्दलनकारणकोपां
चिन्तयामि बगलां हृदयाब्जे ॥ 24 ॥

जिह्वाग्रमादाय करेण देवीं
वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन
पीताम्बराढ्यां द्विभुजां नमामि ॥ 25 ॥

वन्दे वारिजलोचनां वसुकरां पीताम्बराडम्बरां
पीताम्भोरुहसंस्थितां त्रिनयनां पीताङ्गरागोज्ज्वलाम् ।
शब्दब्रह्ममयीं महाकविजयीं त्रैलोक्यसम्मोहनीं
विद्युत्कोटि निभां प्रसन्न बगलां प्रत्यर्थिवाक्त्सम्भिनीम् ॥ 26 ॥

दुःखेन वा यदि सुखेन च वा त्वदीयं
स्तुत्वाऽथ नामबगले समुपैति वश्यम् ।
निश्चित्य शत्रुमबलं विजयं त्वदङ्घ्रि
पद्मार्चकस्य भवतीति किमत्र चित्रम् ॥ 27 ॥

विमोहितजगत्त्रयां वशगतावनवल्लभां
भजामि बगलामुखीं भवसुखैकसन्धायिनीम् ।
गेहं नातति गर्वितः प्रणमति स्त्रीसङ्गमो मोक्षति
द्वेषी मित्रति पापकृत्सुकृतति क्ष्मावल्लभोधावति ॥ 28 ॥

मृत्युर्वैधृतिदूषणं सुगुणति त्वत्पादसंसेवनात्
त्वां वन्दे भवभीतिभञ्जनकरीं गौरीं गिरीशप्रियाम् ।
नित्यं यस्तु मनोहरं स्तवमिदं दिव्यं पठेत्सादरं
धृत्वा यन्त्रमिदं तथैव समरे बाह्वोः करे वा गले ॥ 29 ॥

राजानो वरयोषितोथकरिणस्सर्वामृगेन्द्रा वशाः
स्तोत्रैर्यान्ति विमोहिता रिपुगणा लक्ष्मीः स्थिरा सिद्धयः ।
निर्निद्रे बगले समुद्रनिलये रौद्र्यादि वाङ्मुद्रिके
भद्रे रुद्रमनोहरे त्रिभुवनत्राणे दरिद्रापहे ॥ 30 ॥

सद्रत्नाकर भूमिगोज्वल करी निस्तन्द्रि चान्द्रानने
नीहाराद्रिसुते निसर्गसरले विद्ये सुराद्ये नमः ।
देवी तस्य निरामयात्मजमुखान्यायूंषि दद्यादिदं
ये नित्यं प्रजपन्ति भक्ति भरितास्तेभ्यस्स्तवं निश्चितम् ॥ 31 ॥

नूनं श्रेयो वश्यमारोग्यतां च प्राप्तस्सर्वं भूतले साधकस्तु ।
भक्त्या नित्यं स्तोत्रमेतत्पठन्वै विद्यां कीर्तिं वंशवृद्धिं च विन्देत् ॥ 32 ॥

इति श्रीरुद्रयामले श्रीबगलामुखीस्तोत्रम् ॥




Browse Related Categories: