ॐ काल्यै नमः ।
ॐ कपालिन्यै नमः ।
ॐ कान्तायै नमः ।
ॐ कामदायै नमः ।
ॐ कामसुन्दर्यै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कालिकायै नमः ।
ॐ कालभैरवपूजितायै नमः ।
ॐ कुरुकुल्लायै नमः ।
ॐ कामिन्यै नमः । 10 ।
ॐ कमनीयस्वभाविन्यै नमः ।
ॐ कुलीनायै नमः ।
ॐ कुलकर्त्र्यै नमः ।
ॐ कुलवर्त्मप्रकाशिन्यै नमः ।
ॐ कस्तूरीरसनीलायै नमः ।
ॐ काम्यायै नमः ।
ॐ कामस्वरूपिण्यै नमः ।
ॐ ककारवर्णनिलयायै नमः ।
ॐ कामधेनवे नमः ।
ॐ करालिकायै नमः । 20 ।
ॐ कुलकान्तायै नमः ।
ॐ करालास्यायै नमः ।
ॐ कामार्तायै नमः ।
ॐ कलावत्यै नमः ।
ॐ कृशोदर्यै नमः ।
ॐ कामाख्यायै नमः ।
ॐ कौमार्यै नमः ।
ॐ कुलपालिन्यै नमः ।
ॐ कुलजायै नमः ।
ॐ कुलकन्यायै नमः । 30 ।
ॐ कुलहायै नमः ।
ॐ कुलपूजितायै नमः ।
ॐ कामेश्वर्यै नमः ।
ॐ कामकान्तायै नमः ।
ॐ कुञ्जरेश्वरगामिन्यै नमः ।
ॐ कामदात्र्यै नमः ।
ॐ कामहर्त्र्यै नमः ।
ॐ कृष्णायै नमः ।
ॐ कपर्दिन्यै नमः ।
ॐ कुमुदायै नमः । 40 ।
ॐ कृष्णदेहायै नमः ।
ॐ कालिन्द्यै नमः ।
ॐ कुलपूजितायै नमः ।
ॐ काश्यप्यै नमः ।
ॐ कृष्णमात्रे नमः ।
ॐ कुलिशाङ्ग्यै नमः ।
ॐ कलायै नमः ।
ॐ क्रीं रूपायै नमः ।
ॐ कुलगम्यायै नमः ।
ॐ कमलायै नमः । 50 ।
ॐ कृष्णपूजितायै नमः ।
ॐ कृशाङ्ग्यै नमः ।
ॐ किन्नर्यै नमः ।
ॐ कर्त्र्यै नमः ।
ॐ कलकण्ठ्यै नमः ।
ॐ कार्तिक्यै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ कौलिन्यै नमः ।
ॐ कुमुदायै नमः ।
ॐ कामजीविन्यै नमः । 60 ।
ॐ कुलस्त्रियै नमः ।
ॐ कीर्तिकायै नमः ।
ॐ कृत्यायै नमः ।
ॐ कीर्त्यै नमः ।
ॐ कुलपालिकायै नमः ।
ॐ कामदेवकलायै नमः ।
ॐ कल्पलतायै नमः ।
ॐ कामाङ्गवर्धिन्यै नमः ।
ॐ कुन्तायै नमः ।
ॐ कुमुदप्रीतायै नमः । 70 ।
ॐ कदम्बकुसुमोत्सुकायै नमः ।
ॐ कादम्बिन्यै नमः ।
ॐ कमलिन्यै नमः ।
ॐ कृष्णानन्दप्रदायिन्यै नमः ।
ॐ कुमारीपूजनरतायै नमः ।
ॐ कुमारीगणशोभितायै नमः ।
ॐ कुमारीरञ्जनरतायै नमः ।
ॐ कुमारीव्रतधारिण्यै नमः ।
ॐ कङ्काल्यै नमः ।
ॐ कमनीयायै नमः । 80 ।
ॐ कामशास्त्रविशारदायै नमः ।
ॐ कपालखट्वाङ्गधरायै नमः ।
ॐ कालभैरवरूपिण्यै नमः ।
ॐ कोटर्यै नमः ।
ॐ कोटराक्ष्यै नमः ।
ॐ काशीवासिन्यै नमः ।
ॐ कैलासवासिन्यै नमः ।
ॐ कात्यायन्यै नमः ।
ॐ कार्यकर्यै नमः ।
ॐ काव्यशास्त्रप्रमोदिन्यै नमः । 90 ।
ॐ कामाकर्षणरूपायै नमः ।
ॐ कामपीठनिवासिन्यै नमः ।
ॐ कङ्किन्यै नमः ।
ॐ काकिन्यै नमः ।
ॐ क्रीडायै नमः ।
ॐ कुत्सितायै नमः ।
ॐ कलहप्रियायै नमः ।
ॐ कुण्डगोलोद्भवप्राणायै नमः ।
ॐ कौशिक्यै नमः ।
ॐ कीर्तिवर्धिन्यै नमः । 100 ।
ॐ कुम्भस्तन्यै नमः ।
ॐ कटाक्षायै नमः ।
ॐ काव्यायै नमः ।
ॐ कोकनदप्रियायै नमः ।
ॐ कान्तारवासिन्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ कठिनायै नमः ।
ॐ कृष्णवल्लभायै नमः । 108
इति ककारादि श्री काली अष्टोत्तरशतनामावलिः ।