View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

श्री मातङ्गी अष्टोत्तर शत नामा स्तोत्रं

श्रीभैरव्युवाच
भगवन् श्रोतुमिच्छामि मातङ्ग्याः शतनामकम् ।
यद्गुह्यं सर्वतन्त्रेषु केनापि न प्रकाशितम् ॥ 1 ॥

श्रीभैरव उवाच
शृणु देवि प्रवक्ष्यामि रहस्यातिरहस्यकम् ।
नाख्येयं यत्र कुत्रापि पठनीयं परात्परम् ॥ 2 ॥

यस्यैकवारपठनात्सर्वे विघ्ना उपद्रवाः ।
नश्यन्ति तत्क्षणाद्देवि वह्निना तूलराशिवत् ॥ 3 ॥

प्रसन्ना जायते देवी मातङ्गी चास्य पाठतः ।
सहस्रनामपठने यत्फलं परिकीर्तितम् ।
तत्कोटिगुणितं देवीनामाष्टशतकं शुभम् ॥ 4 ॥

अस्य श्रीमातङ्ग्यष्टोत्तरशतनामस्तोत्रस्य भगवान्मतङ्ग ऋषिः अनुष्टुप्छन्दः श्रीमातङ्गी देवता श्रीमातङ्गी प्रीतये जपे विनियोगः ।

महामत्तमातङ्गिनी सिद्धिरूपा
तथा योगिनी भद्रकाली रमा च ।
भवानी भवप्रीतिदा भूतियुक्ता
भवाराधिता भूतिसम्पत्करी च ॥ 1 ॥

धनाधीशमाता धनागारदृष्टि-
-र्धनेशार्चिता धीरवापी वराङ्गी ।
प्रकृष्टा प्रभारूपिणी कामरूपा
प्रहृष्टा महाकीर्तिदा कर्णनाली ॥ 2 ॥

कराली भगा घोररूपा भगाङ्गी
भगाह्वा भगप्रीतिदा भीमरूपा ।
भवानी महाकौशिकी कोशपूर्णा
किशोरी किशोरप्रिया नन्दीहा ॥ 3 ॥

महाकारणाऽकारणा कर्मशीला
कपाली प्रसिद्धा महासिद्धखण्डा ।
मकारप्रिया मानरूपा महेशी
मलोल्लासिनी लास्यलीलालयाङ्गी ॥ 4 ॥

क्षमा क्षेमशीला क्षपाकारिणी चा-
-ऽक्षयप्रीतिदा भूतियुक्ता भवानी ।
भवाराधिता भूतिसत्यात्मिका च
प्रभोद्भासिता भानुभास्वत्करा च ॥ 5 ॥

धराधीशमाता धरागारदृष्टि-
-र्धरेशार्चिता धीवरा धीवराङ्गी ।
प्रकृष्टा प्रभारूपिणी प्राणरूपा
प्रकृष्टस्वरूपा स्वरूपप्रिया च ॥ 6 ॥

चलत्कुण्डला कामिनी कान्तयुक्ता
कपालाऽचला कालकोद्धारिणी च ।
कदम्बप्रिया कोटरी कोटदेहा
क्रमा कीर्तिदा कर्णरूपा च काक्ष्मीः ॥ 7 ॥

क्षमाङ्गी क्षयप्रेमरूपा क्षया च
क्षयाक्षा क्षयाह्वा क्षयप्रान्तरा च ।
क्षवत्कामिनी क्षारिणी क्षीरपूर्णा
शिवाङ्गी च शाकम्भरी शाकदेहा ॥ 8 ॥

महाशाकयज्ञा फलप्राशका च
शकाह्वाऽशकाह्वा शकाख्या शका च ।
शकाक्षान्तरोषा सुरोषा सुरेखा
महाशेषयज्ञोपवीतप्रिया च ॥ 9 ॥

जयन्ती जया जाग्रती योग्यरूपा
जयाङ्गा जपध्यानसन्तुष्टसञ्ज्ञा ।
जयप्राणरूपा जयस्वर्णदेहा
जयज्वालिनी यामिनी याम्यरूपा ॥ 10 ॥

जगन्मातृरूपा जगद्रक्षणा च
स्वधावौषडन्ता विलम्बाऽविलम्बा ।
षडङ्गा महालम्बरूपासिहस्ता-
पदाहारिणीहारिणी हारिणी च ॥ 11 ॥

महामङ्गला मङ्गलप्रेमकीर्ति-
-र्निशुम्भच्छिदा शुम्भदर्पापहा च ।
तथाऽऽनन्दबीजादिमुक्तिस्वरूपा
तथा चण्डमुण्डापदा मुख्यचण्डा ॥ 12 ॥

प्रचण्डाऽप्रचण्डा महाचण्डवेगा
चलच्चामरा चामरा चन्द्रकीर्तिः ।
सुचामीकरा चित्रभूषोज्ज्वलाङ्गी
सुसङ्गीतगीता च पायादपायात् ॥ 13 ॥

इति ते कथितं देवि नाम्नामष्टोत्तरं शतम् ।
गोप्यं च सर्वतन्त्रेषु गोपनीयं च सर्वदा ॥ 14 ॥

एतस्य सतताभ्यासात्साक्षाद्देवो महेश्वरः ।
त्रिसन्ध्यं च महाभक्त्या पठनीयं सुखोदयम् ॥ 15 ॥

न तस्य दुष्करं किञ्चिज्जायते स्पर्शतः क्षणात् ।
सुकृतं यत्तदेवाप्तं तस्मादावर्तयेत्सदा ॥ 16 ॥

सदैव सन्निधौ तस्य देवी वसति सादरम् ।
अयोगा ये त एवाग्रे सुयोगाश्च भवन्ति वै ॥ 17 ॥

त एव मित्रभूताश्च भवन्ति तत्प्रसादतः ।
विषाणि नोपसर्पन्ति व्याधयो न स्पृशन्ति तान् ॥ 18 ॥

लूताविस्फोटकाः सर्वे शमं यान्ति च तत्क्षणात् ।
जरापलितनिर्मुक्तः कल्पजीवी भवेन्नरः ॥ 19 ॥

अपि किं बहुनोक्तेन सान्निध्यं फलमाप्नुयात् ।
यावन्मया पुरा प्रोक्तं फलं साहस्रनामकम् ।
तत्सर्वं लभते मर्त्यो महामायाप्रसादतः ॥ 20 ॥

इति श्रीरुद्रयामले श्रीमातङ्गीशतनामस्तोत्रम् ।




Browse Related Categories: