View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री महान्यासम् - 7.3. उत्तर नारायणं

(तै. अर. 3.13.1 - तै. अर. 3.13.2)

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑-द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ।
वेदा॒हमे॒तं पुरु॑षं म॒हांत᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पंथा॑ विद्य॒तेऽय॑नाय । प्र॒जाप॑तिश्चरति॒ गर्भे॑ अं॒तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
तस्य॒ धीराः॒ परि॑जानंति॒ योनि᳚म् । मरी॑चीनां प॒दमि॑च्छंति वे॒धसः॑ ॥ 1

यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुचं॑ ब्रा॒ह्मं ज॒नयं॑तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् । यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ । ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्​श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्टं म॑निषाण ।
अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ 2

ॐ नमो भगवते॑ रुद्रा॒य ॥ उत्तर नारायणग्ं शिखायै वषट् ॥




Browse Related Categories: