View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री महा कालभैरव कवचं

पठनात् कालिका देवि पठेत् कवचमुत्तमम् ।
श्रृणुयाद्वा प्रयत्नेन सदानंदमयो भवेत् ॥

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् ।
सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ॥

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् ।
त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ॥

ऱेलतेद् फ्रोदुच्त्स्
कुमारी पूजयित्वा तु यः पठेद् भावतत्परः ।
न किंचिद् दुर्लभं तस्य दिवि वा भुवि मोदते ॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।
यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ॥

तत्रतत्राभयं तस्य भवत्येव न संशयः ।
वामपार्श्वे समानीय शोभितां वर कामिनीम् ॥

श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु ।
प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ॥

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।
नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे ।
आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ॥

॥ इति रुद्रयामले महातंत्रे महाकाल भैरव कवचं संपूर्णम् ॥




Browse Related Categories: