View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

कठोपनिषद् - अध्याय 2, वल्ली 2

अध्याय 2
वल्ली 2

पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत्‌ ॥1॥

हंसः शुचिषद्वसुरांतरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्‌।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतं बृहत्‌ ॥2॥

ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति।
मध्ये वामनमासीनं-विँश्वे देवा उपासते ॥3॥

अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत्‌ ॥4॥

न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवंति यस्मिन्नेतावुपाश्रितौ ॥5॥

हंत त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्‌।
यथा च मरणं प्राप्य आत्मा भवति गौतम ॥6॥

योनिमन्ये प्रपद्यंते शरीरत्वाय देहिनः।
स्थाणुमन्येऽनुसं​यंँति यथाकर्म यथाश्रुतम्‌ ॥7॥

य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिं​ल्लोँकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत्‌ ॥8॥

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतांतरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥9॥

वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव।
एकस्तथा सर्वभूतांतरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥10॥

सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बह्यिदोषैः।
एकस्तथा सर्वभूतांतरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥11॥

एको वशी सर्वभूतांतरात्मा एकं रूपं बहुधा यः करोति।
तमात्मस्थं-येँऽनुपश्यंति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्‌ ॥12॥

नित्योऽनित्यानां चेतनश्चेतनानामेको बहूनां-योँ विदधाति कामान्‌।
तमात्मस्थं-येँऽनुपश्यंति धीरास्तेषां शांतिः शाश्वती नेतरेषाम्‌ ॥13॥

तदेतदिति मन्यंतेऽनिर्देश्यं परमं सुखम्‌।
कथं नु तद्विजानीयां किमु भाति विभाति वा ॥14॥

न तत्र सूर्यो भाति न चंद्रतारकं नेमा विद्युतो भांति कुतोऽयमग्निः।
तमेव भांतमनुभाति सर्वं तस्य भासा सर्वमिदं-विँभाति ॥15॥




Browse Related Categories: