View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

प्रश्नोपनिषद् - पंच प्रश्नः

पंचमः प्रश्नः

अथ हैनं सैब्यः सत्यकामः पप्रच्छ।
स यो ह वै तद् वगवन्मनुष्येषु प्रायणांतमोंकारमभिध्यायीत कतमं-वाँव स तेन लोकं जयतीति ॥1॥

तस्मै स होवाच एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः।
तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ॥2॥

स यध्येकमात्रमभिध्यायीत स तेनैव सं​वेँदितस्तूर्णमेव जगत्याभिसंपध्यते।
तमृचो मनुष्यलोकमुपनयंते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥3॥

अथ यदि द्विमात्रेण मनसि संपद्यते सोऽंतरिक्षं-यँजुर्भिरुन्नीयते सोमलोकम्‌।
स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥4॥

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः।
यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥5॥

तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः।
क्रियासु बाह्यांतरमध्यमासु सम्यक्प्रयुक्तासु न कंपते ज्ञः ॥6॥

ऋग्भिरेतं-यँजुर्भिरंतरिक्षं सामभिर्यत्तत्कवयो वेदयंते।
तमोंकारेणैवायतनेनान्वेति विद्वान्‌ यत्तच्छांतमजरममृतमभयं परं चेति ॥7॥




Browse Related Categories: