अध्याय 2
वल्ली 3
ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः।
तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोँकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥ ॥1॥
यदिदं किं च जगत्सर्वं प्राण एजति निःसृतम्।
महद् भयं-वँज्रमुद्यतं-यँ एतद्विदुरमृतास्ते भवंति ॥ ॥2॥
भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिंद्रश्च वायुश्च मृत्युर्धावति पंचमः ॥ ॥3॥
इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः।
ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ॥4॥
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके।
यथाऽप्सु परीव ददृशे तथा गंधर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ॥5॥
इंद्रियाणां पृथग्भावमुदयास्तमयौ च यत्।
पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥ ॥6॥
इंद्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्।
सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥ ॥7॥
अव्यक्तात्तु परः पुरुषो व्यापकोऽलिंग एव च।
यं ज्ञात्वा मुच्यते जंतुरमृतत्वं च गच्छति ॥ ॥8॥
न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा मनसाऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवंति ॥ ॥9॥
यदा पंचावतिष्ठंते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टते तामाहुः परमां गतिम् ॥ ॥10॥
तां-योँगमिति मन्यंते स्थिरामिंद्रियधारणाम्।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ॥11॥
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ ॥12॥
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ ॥13॥
यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि श्रिताः।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ ॥14॥
यथा सर्वे प्रभिद्यंते हृदयस्येह ग्रंथयः।
अथ मर्त्योऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ ॥15॥
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङन्या उत्क्रमणे भवंति ॥ ॥16॥
अंगुष्ठमात्रः पुरुषोऽंतरात्मा सदा जनानां हृदये संनिविष्टः।
तं स्वाच्छरीरात्प्रवृहेन्मुंजादिवेषीकां धैर्येण।
तं-विँद्याच्छुक्रममृतं तं-विँद्याच्छुक्रममृतमिति ॥ ॥17॥
मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां-योँगविधिं च कृत्स्नम्।
ब्रह्मप्राप्तो विरजोऽभूद्विमृत्यु रन्योऽप्येवं-योँ विदध्यात्ममेव ॥ ॥18॥