View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री महान्यासम् - 7.1. शिवसंकल्पाः

(ऋग् वेद खिल कांडं 4.11 9.1)

येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीत-म॒मृते॑न॒ सर्व᳚म् । येन॑ य॒ज्ञस्ता॑यते
(य॒ज्ञस्त्रा॑यते) स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 1

येन॒ कर्मा॑णि प्र॒चरं॑ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यंति॑ ।
यथ् स॒म्मित॒मनु॑ सं॒​यंँति॑ प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 2

येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॑ण्वंति वि॒दथे॑षु॒ धीराः᳚ ।
यद॑पू॒र्वं-यँ॒क्ष्ममं॒तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 3

यत्प्र॒ज्ञान॑-मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑ रं॒तर॒मृतं॑ प्र॒जासु॑ ।
यस्मा॒न्न ऋ॒ते किंच॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 4

सु॒षा॒र॒थि-रश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्ने नी॒यते॑-ऽभी॒शु॑भि र्वा॒जिन॑ इव ।
हृत्प्र॑तिष्ठं॒-यँद॑जिरं॒ जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 5

यस्मि॒न् ऋच॒स्साम॒-यजूग्ं॑षि॒ यस्मि॑न् प्रतिष्ठि॒ता र॑थ॒नाभा॑ वि॒वाराः᳚ ।
यस्मिग्ग्॑श्चि॒त्तग्ं सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 6

यदत्र॑ ष॒ष्ठं त्रि॒शतग्ं॑ सु॒वीरं॑-यँ॒ज्ञस्य॑ गु॒ह्यं नव॑ नाव॒माय्य᳚म् ।
दश॒ पंच॑ त्रि॒ग्ं॒शतं॒-यँत्परं॑ च॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 7

यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
दू॒र॒गं॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 8

येने॒दं-विँश्वं॒ जग॑तो ब॒भूव॒ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः ।
तदे॒वाग्नि-स्तम॑सो॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 9

येन॒ द्यौः पृ॑थि॒वी चां॒तरि॑क्षं च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च ।
येने॒दं जग॒-द्व्याप्तं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 10

ये म॑नो॒ हृद॑यं॒-येँ च॑ दे॒वा ये दि॒व्या आपो॒ ये सूर्य॑रश्मिः ।
ते श्रोत्रे॒ चक्षु॑षी सं॒चरं॑तं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 11

अचिं॑त्यं॒ चा प्र॑मेयं॒ च व्य॒क्ता-व्यक्त॑ परं॒ च य॑त् ।
सूक्ष्मा᳚त् सूक्ष्मत॑रं ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 12

एका॑ च द॒श श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒
चार्बु॑दं च॒ न्य॑र्बुदं च समु॒द्रश्च॒ मद्ध्यं॒ चांत॑श्च परा॒र्धश्च॒ तन्मे॒ मनः॑
शि॒वसं॑क॒ल्पम॑स्तु ॥ 13

ये पं॑च॒ पंच॑ दश श॒तग्ं स॒हस्र॑-म॒युत॒-न्न्य॑र्बुदं च ।
ते अ॑ग्नि-चि॒त्येष्ट॑का॒स्तग्ं शरी॑रं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 14

वेदा॒हमे॒तं पु॑रुषं म॒हांत॑-मादि॒त्य-व॑र्णं॒ तम॑सः॒ पर॑स्तात् ।
यस्य॒ योनिं॒ परि॒पश्यं॑ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 15

यस्ये॒दं धीराः᳚ पु॒नंति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒तं त्वा॑ वृणत॒ इंदु᳚म् ।
स्था॒व॒रं जंग॑मं॒-द्यौ॑राका॒शं तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 16

परा᳚त् प॒रत॑रं चै॒व॒ य॒त् परा᳚श्चैव॒ यत्प॑रम् ।
य॒त्परा᳚त् पर॑तो ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 17

परा᳚त् परत॑रो ब्र॒ह्मा॒ त॒त्परा᳚त् पर॒तो ह॑रिः ।
त॒त्परा᳚त् पर॑तो ऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 18

या वे॑दा॒दिषु॑ गाय॒त्री॒ स॒र्व॒व्यापि॑ महे॒श्वरी ।
ऋग् य॑जु-स्सामा-थर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 19

यो वै॑ दे॒वं म॑हादे॒वं॒ प्र॒णवं॑ पर॒मेश्व॑रम् ।
यः सर्वे॑ सर्व॑ वेदै॒श्च॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 20

प्रय॑तः॒ प्रण॑वोंका॒रं॒ प्र॒णवं॑ पुरु॒षोत्त॑मम् ।
ओकां॑रं॒ प्रण॑वात्मा॒नं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 21

योऽसौ॑ स॒र्वेषु॑ वेदे॒षु॒ प॒ठ्यते᳚ ह्यज॒ ईश्व॑रः । अ॒कायो॑ निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 22

गोभि॒ र्जुष्टं॒ धने॑न॒ ह्यायु॑षा च॒ बले॑न च । प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्षं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 23

कैला॑स॒ शिख॑रे र॒म्ये॒ शं॒कर॑स्य शि॒वाल॑ये ।
दे॒वता᳚स्तत्र॑ मोदं॒ते॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 24

त्र्य॑बंकं-यँजामहे सुगं॒धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बंध॑नान् मृ॒त्यो-र्मु॑क्षीय॒ माऽमृता॒त् तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 25
वि॒श्वत॑-श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।

संबा॒हुभ्यां॒-नम॑ति॒ संप॑तत्रै॒ र्द्यावा॑ पृथि॒वी ज॒नय॑न् दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 26

च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्व शा᳚स्त्रम॒यं-विँ॑दुः । इ॒ति॒हा॒स॒ पु॒रा॒णा॒नां॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 27

मा नो॑ म॒हांत॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्षं॑तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 28

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तोव॑धी र्​ह॒विष्मं॑तो॒ नम॑सा विधेम ते॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 29

ऋ॒तग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् ।
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 30

क-द्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शंत॑मग्ं हृ॒दे ।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 31

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विव॒स्तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 32

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 33

य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒-यँस्य॑ दे॒वाः ।
यस्य॑ छा॒याऽमृतं॒-यँस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 34

यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 35

गं॒ध॒द्वा॒रां दु॑राध॒र्​षां॒ नि॒त्यपु॑ष्टां करी॒षिणी᳚म् । ई॒श्वरीग्ं॑ सर्व॑ भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 36
य इदग्ं॑ शिव॑संक॒ल्प॒ग्ं॒ स॒दा ध्या॑यंति॒ ब्राह्म॑णाः । ते प॑रं मोक्षं॑ गमिष्यं॒ति॒ तन्मे॒ मनः॑ शि॒वसं॑क॒ल्पम॑स्तु ॥ 37

ॐ नमो भगवते॑ रुद्रा॒य ॥ शिवसंकल्पग्ं हृदयाय नमः॑ ॥




Browse Related Categories: