श्रीगुरुः सर्वकारणभूता शक्तिः ॥ ॥1॥
केन नवरंध्ररूपो देहः।
नवशक्तिरूपं श्रीचक्रम।
वाराही पितृरूपा।
कुरुकुल्ला बलिदेवता माता।
पुरुषार्थाः सागराः।
देहो नवरत्नद्वीपः।
आधारनवकमुद्रा: शक्तयः।
त्वगादिसप्तधातुभिर-नेकैः संयुँक्ताः संकल्पाः कल्पतरवः।
तेज: कल्पकोद्यानम्।रसनया भाव्यमाना मधुराम्लतिक्त-कटुकषायलवणभेदाः षड्रसाः षडृतवः ।
क्रियाशक्तिः पीठम्।
कुंडलिनी ज्ञानशक्तिर्गृहम्। इच्छाशक्तिर्महात्रिपुरसुंदरी।
ज्ञाता होता ज्ञानमग्निः ज्ञेयं हविः। ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम्। नियतिसहिताः श्र्ऋंगारादयो नव रसा अणिमादयः। कामक्रोधलोभमोहमद-मात्सर्यपुण्यपापमया ब्राह्मयाद्यष्टशक्तयः । पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवा-क्पाणिपादपायूपस्थमनोविकाराः षोडश शक्तयः ।
वचनादानगमनविसर्गानंदहानोपेक्षाबुद्धयो-ऽनंगकुसुमादिशक्तयोऽष्टौ।
अलंबुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गांधारी पूषा शंखिनी सरस्वतीडा पिंगला सुषुम्ना चेति चतुर्दश नाड्यः। सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः। प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनंजया इति दश वायवः ।
सर्वसिद्धि-प्रदा देव्यो बहिर्दशारगा देवताः। एतद्वायुदशकसंसर्गोपाथिभेदेन रेचकपूरकशोषकदाहक-प्लावका अमृतमिति प्राणमुख्यत्वेन पंचविधोऽस्ति ।
क्षारको दारकः क्षोभको मोहको जृंभक इत्यपालनमुख्यत्वेन पंचविधोऽस्ति ।
तेन मनुष्याणां मोहको दाहको भक्ष्यभोज्यलेह्यचोष्यपेया-त्मकं चतुर्विधमन्नं पाचयति।
एता दश वह्निकलाः सर्वात्वाद्यंतर्दशारगा देवताः। शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्टौ।
शब्दस्पर्शरूपरसगंधाः पंचतन्मात्राः पंच पुष्पबाणा मन इक्षुधनुः।
वश्यो बाणो रागः पाशः।
द्वेषोऽंकुशः।
अव्यक्तमहत्तत्त्वमहदहंकार इति कामेश्वरीवज्नेश्वरीभगमालिन्योऽंतस्त्रिकोणाग्नगा देवताः ।
पंचदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पंचदश नित्या श्रद्धानुरूपाधिदेवता।
तयोः कामेश्वरी सदानंदघना परिपूर्णस्वात्मैक्यरूपा देवता ॥ ॥2॥
सलिलमिति सौहित्यकारणं सत्त्वम् । कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः।
अस्ति नास्तीति कर्तव्यता उपचारः। बाह्याभ्यंत:करणानां रूपग्रहणयोग्यताऽस्त्वित्यावाहनम्।
तस्य वाह्याभ्यंतःकरणानामेकरूपविषयग्रहणमासनम्।
रक्तशुक्लपदैकीकरणं पाद्यम्।
उज्ज्वलदा-मोदानंदासनदानमर्घ्यम्।
स्वच्छं स्वत:सिद्धमित्याचमनीयम्। चिच्चंद्रमयीति सर्वांगस्त्रवणं स्नानम्। चिदग्निस्वरूपपरमानंदशक्तिस्फुरणं-वँस्त्रम्। प्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छाज्ञान-क्रियात्मकब्रह्मग्रंथिमद्रसतंतुब्रह्मनाडी ब्रह्मसूत्रम्।
स्वव्यतिरिक्तवस्तुसंगरहितस्मरणं-विँभूषणम्। स्वच्छस्वपरिपूर्णतास्मरणं गंधः ।
समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् । तेषामेव सर्वदा स्वीकरणं धूपः । पवनावच्छिन्नोर्ध्वग्वलनसच्चिदुल्काकाशदेहो दीपः । समस्तयाताया-तवर्ज्यं नैवेद्यम् । अवस्थात्रयाणामेकीकरणं तांबूलम्। मूलाधारादाब्रह्मरंध्रपर्यंतं ब्रह्मरंध्रादा-मूलाधारपर्यंतं गतागतरूपेण प्रादक्षिण्यम्। तुर्यावस्था नमस्कारः ।
देहशून्यप्रमातृतानिमज्जनं बलिहरणम्।
सत्यमस्ति कर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः।
स्वयं तत्पादुका-निमज्जनं परिपूर्णध्यानम्॥ ॥3॥
एवं मुहूर्तत्रयं भावनापरो जीवन्मुक्तो भवति।
तस्य देवतात्मैक्यसिद्धिः।
चिंतितकार्याण्य-यत्नेन सिद्धयंति।
स एव शिवयोगीति कथ्यते ॥ ॥4॥
Browse Related Categories:
वेद मंत्राः (81)
- गणपति प्रार्थन घनपाठः
- गायत्री मंत्रं घनपाठः
- श्री रुद्रं लघुन्यासम्
- श्री रुद्रं नमकम्
- श्री रुद्रं - चमकप्रश्नः
- पुरुष सूक्तम्
- श्री सूक्तम्
- दुर्गा सूक्तम्
- नारायण सूक्तम्
- मंत्र पुष्पम्
- शांति मंत्रम् (दश शांतयः)
- नित्य संध्या वंदनम् (कृष्ण यजुर्वेदीय)
- श्री गणपति अथर्व षीर्षम् (गणपत्यथर्वषीर्षोपनिषत्)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- नक्षत्र सूक्तम् (नक्षत्रेष्टि)
- मन्यु सूक्तम्
- मेधा सूक्तम्
- विष्णु सूक्तम्
- शिव पंचामृत स्नानाभिषेकम्
- यज्ञोपवीत धारण
- सर्व देवता गायत्री मंत्राः
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- भू सूक्तम्
- नवग्रह सूक्तम्
- महानारायण उपनिषद्
- अरुणप्रश्नः
- श्री महान्यासम्
- सरस्वती सूक्तम्
- भाग्य सूक्तम्
- पवमान सूक्तम्
- नासदीय सूक्तम्
- नवग्रह सूक्तम्
- पितृ सूक्तम्
- रात्रि सूक्तम्
- सर्प सूक्तम्
- हिरण्य गर्भ सूक्तम्
- सानुस्वार प्रश्न (सुन्नाल पन्नम्)
- गो सूक्तम्
- त्रिसुपर्णम्
- चित्ति पन्नम्
- अघमर्षण सूक्तम्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- विश्वकर्म सूक्तम्
- श्री देव्यथर्वशीर्षम्
- दुर्वा सूक्तम् (महानारायण उपनिषद्)
- मृत्तिका सूक्तम् (महानारायण उपनिषद्)
- श्री दुर्गा अथर्वशीर्षम्
- अग्नि सूक्तम् (ऋग्वेद)
- क्रिमि संहारक सूक्तम् (यजुर्वेद)
- नीला सूक्तम्
- वेद आशीर्वचनम्
- वेद स्वस्ति वाचनम्
- ऐकमत्य सूक्तम् (ऋग्वेद)
- आयुष्य सूक्तम्
- श्रद्धा सूक्तम्
- श्री गणेश (गणपति) सूक्तम् (ऋग्वेद)
- शिवोपासन मंत्राः
- शांति पंचकम्
- शुक्ल यजुर्वेद संध्यावंदनम्
- मांडूक्य उपनिषद्
- ऋग्वेद संध्यावंदनम्
- एकात्मता स्तोत्रम्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
उपनिषदः (28)
- ईशावास्योपनिषद् (ईशोपनिषद्)
- शिवसंकल्पोपनिषत् (शिव संकल्पमस्तु)
- तैत्तिरीय उपनिषद् - शीक्षावल्ली
- तैत्तिरीय उपनिषद् - आनंदवल्ली
- तैत्तिरीय उपनिषद् - भृगुवल्ली
- महानारायण उपनिषद्
- केन उपनिषद् - प्रथमः खंडः
- केन उपनिषद् - द्वितीयः खंडः
- केन उपनिषद् - तृतीयः खंडः
- केन उपनिषद् - चतुर्थः खंडः
- मुंडक उपनिषद् - प्रथम मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - प्रथम मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - द्वितीय मुंडक, द्वितीय कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, प्रथम कांडः
- मुंडक उपनिषद् - तृतीय मुंडक, द्वितीय कांडः
- नारायण उपनिषद्
- चाक्षुषोपनिषद् (चक्षुष्मती विद्या)
- अपराध क्षमापण स्तोत्रम्
- श्री सूर्योपनिषद्
- मांडूक्य उपनिषद्
- भावनोपनिषद्
- कठोपनिषद् - अध्याय 1, वल्ली 1
- कठोपनिषद् - अध्याय 1, वल्ली 2
- कठोपनिषद् - अध्याय 1, वल्ली 3
- कठोपनिषद् - अध्याय 2, वल्ली 1
- कठोपनिषद् - अध्याय 2, वल्ली 2
- कठोपनिषद् - अध्याय 2, वल्ली 3
कठोपनिषद् (7)