तै. ब्रा. 3.11.2.1 - तै. ब्रा. 3.11.2.4
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वग्ं शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे ।
त्वं-वाँतै॑ररु॒णै र्या॑सि शंग॒यः । त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नुत्मनाः᳚ ।
देवा॑ दे॒वेषु॑ श्रयद्ध्वम् । प्रथ॑मा द्वि॒तीये॑षु श्रयद्ध्वम् ।
द्विती॑या-स्तृ॒तीये॑षु श्रयद्ध्वम् । तृती॑या-श्चतु॒र्थेषु॑ श्रयद्ध्वम् ।
च॒तु॒र्थाः पं॑च॒मेषु॑ श्रयद्ध्वम् । पं॒च॒माः ष॒ष्ठेषु॑ श्रयद्ध्वम् । 1
ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयद्ध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयद्ध्वम् ।
अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयद्ध्वम् । न॒व॒मा द॑श॒मेषु॑ श्रयद्ध्वम् ।
द॒श॒मा ए॑काद॒शेषु॑ श्रयद्ध्वम् । ए॒क॒द॒शा द्वा॑द॒शेषु॑ श्रयद्ध्वम् ।
द्वा॒द॒शा-स्त्र॑योद॒शेषु॑ श्रयद्ध्वम् । त्र॒यो॒द॒शा-श्च॑तु र्दे॒शेषु॑ श्रयद्ध्वम् ।
च॒तु॒र्द॒शाः पं॑चद॒शेषु॑ श्रयद्ध्वम् । पं॒च॒द॒शाः षो॑ड॒शेषु॑ श्रयद्ध्वम् । 2
षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयद्ध्वम् । स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयद्ध्वम् ।
अ॒ष्टा॒द॒शा ए॑कान्नवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒का॒न्न॒वि॒ग्ं॒शा वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
वि॒ग्ं॒शा ए॑कवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒क॒वि॒ग्ं॒शा द्वा॑वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
द्वा॒वि॒ग्ं॒शा स्त्र॑योवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
त्र॒यो॒वि॒ग्ं॒शा श्च॑तुर्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । च॒तु॒र्वि॒ग्ं॒शाः पं॑चवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
पं॒च॒वि॒ग्ं॒शाः ष॑ड्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । 3
ष॒ड्वि॒ग्ं॒शा स्स॑प्तवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । स॒प्त॒वि॒ग्ं॒शा अ॑ष्टावि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । अ॒ष्टा॒वि॒ग्ं॒शा ए॑कान्नत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । ए॒का॒न्न॒त्रि॒ग्ं॒शा स्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । त्रि॒ग्ं॒शा ए॑कत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । ए॒क॒त्रि॒ग्ं॒शा द्वा᳚त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । द्वा॒त्रि॒ग्ं॒शा त्र॑यस्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । देवा᳚स्त्रिरेकादशा॒ स्त्रिस्त्र॑यस्त्रिग्ंशाः । उत्त॑रे भवत । उत्त॑र वर्त्मान॒ उत्त॑र सत्वानः । यत्का॑म इ॒दं जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒यग्ग्स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒स्व॑स्स्वाहा᳚ । 4
ॐ नमो भगवते॑ रुद्रा॒य ॥ त्वमग्ने त्वमग्ने शतरुद्रीयमित्यस्त्राय फट् ॥