निशुंभ-शुंभ-मर्दनीं, प्रचंड-मुंड-खंडिनीम् ।
वने रणे प्रकाशिनीं, भजामि विंध्यवासिनीम् ॥
त्रिशूल-मुंडधारिणीं, धराविघातहारिणीम् ।
गृहे गृहे निवासिनीं, भजामि विंध्यवासिनीम् ॥
दरिद्र्थ-दुःख-हारिणीं, सदा विभूतिकारिणीम् ।
वियोगशौक-हारिणीं, भजामि विंध्यवासिनीम् ॥
लसत्सुलोल-लोचनीं, जने सदा वरप्रदाम् ।
कपाल-शूलधारिणीं भजामि विंध्यवासिनीम् ॥
करे मुदा गदाधरां शिवां शिवप्रदायिनीम्।
वरा-वराननां शुभां, भजामि विंध्यवासिनीम् ॥
कपींद्र-जामिनीप्रदां, त्रिधास्वरूपधारिणीम् ।
जले स्थले निवासिनीं, भजामि विंध्यवासिनीम् ॥
विशिष्ट-शिष्टकारिणीं, विशालरूप धारिणीम् ।
महोदरे विलासिनीं, भजामि विंध्यवासिनीम् ॥
पुरंदरादिसेवितां, सुरारिवंशखंडिताम् ।
विशुद्ध-बुद्धिकारिणीं, भजामि विंध्यवासिनीम् ॥
इति श्री विंध्येश्वरीस्तोत्रं संपूर्णम् ।