View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

विष्णु शोडश नाम स्तोत्रम्

औषधे चिंतयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ 1 ॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥ 2 ॥

दुस्स्वप्ने स्मर गोविंदं संकटे मधुसूदनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥ 3 ॥

जलमध्ये वराहं च पर्वते रघुनंदनम् ।
गमने वामनं चैव सर्वकालेषु माधवम् ॥ 4 ॥

षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ 5 ॥




Browse Related Categories: