View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

मृतसंजीवन कवच स्तोत्रम्

एवमाराध्य गौरीशं देवं मृत्युंजयेश्वरम् ।
मृतसंजीवनं नाम्ना कवचं प्रजपेत् सदा ॥ 1 ॥

सारात्सारतरं पुण्यं गुह्याद्गुह्यतरं शुभम् ।
महादेवस्य कवचं मृतसंजीवनामकम् ॥ 2 ॥

समाहितमना भूत्वा शृणुष्व कवचं शुभम् ।
शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥ 3 ॥

वराभयकरो यज्वा सर्वदेवनिषेवितः ।
मृत्युंजयो महादेवः प्राच्यां मां पातु सर्वदा ॥ 4 ॥

दधानः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः ।
सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥ 5 ॥

अष्टादशभुजोपेतो दंडाभयकरो विभुः ।
यमरूपी महादेवो दक्षिणस्यां सदावतु ॥ 6 ॥

खड्गाभयकरो धीरो रक्षोगणनिषेवितः ।
रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥ 7 ॥

पाशाभयभुजः सर्वरत्नाकरनिषेवितः ।
वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥ 8 ॥

गदाभयकरः प्राणनायकः सर्वदागतिः ।
वायव्यां मारुतात्मा मां शंकरः पातु सर्वदा ॥ 9 ॥

शंखाभयकरस्थो मां नायकः परमेश्वरः ।
सर्वात्मांतरदिग्भागे पातु मां शंकरः प्रभुः ॥ 10 ॥

शूलाभयकरः सर्वविद्यानामधिनायकः ।
ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥ 11 ॥

ऊर्ध्वभागे ब्रह्मरूपी विश्वात्माधः सदावतु ।
शिरो मे शंकरः पातु ललाटं चंद्रशेखरः ॥ 12 ॥

भ्रूमध्यं सर्वलोकेशस्त्रिनेत्रो लोचनेऽवतु ।
भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥ 13 ॥

नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः ।
जिह्वां मे दक्षिणामूर्तिर्दंतान्मे गिरिशोऽवतु ॥ 14 ॥

मृत्युंजयो मुखं पातु कंठं मे नागभूषणः ।
पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥ 15 ॥

पंचवक्त्रः स्तनौ पातु उदरं जगदीश्वरः ।
नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥ 16 ॥

कटद्वयं गिरीशो मे पृष्ठं मे प्रमथाधिपः ।
गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥ 17 ॥

जानुनी मे जगद्धर्ता जंघे मे जगदंबिका ।
पादौ मे सततं पातु लोकवंद्यः सदाशिवः ॥ 18 ॥

गिरिशः पातु मे भार्यां भवः पातु सुतान्मम ।
मृत्युंजयो ममायुष्यं चित्तं मे गणनायकः ॥ 19 ॥

सर्वांगं मे सदा पातु कालकालः सदाशिवः ।
एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥ 20 ॥

मृतसंजीवनं नाम्ना महादेवेन कीर्तितम् ।
सहस्रावर्तनं चास्य पुरश्चरणमीरितम् ॥ 21 ॥

यः पठेच्चृणुयान्नित्यं श्रावयेत्सु समाहितः ।
स कालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥ 22 ॥

हस्तेन वा यदा स्पृष्ट्वा मृतं संजीवयत्यसौ ।
आधयोव्याधयस्तस्य न भवंति कदाचन ॥ 23 ॥

कालमृत्युमपि प्राप्तमसौ जयति सर्वदा ।
अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥ 24 ॥

युद्धारंभे पठित्वेदमष्टाविंशतिवारकम् ।
युद्धमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥ 25 ॥

न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वंति तस्य वै ।
विजयं लभते देवयुद्धमध्येऽपि सर्वदा ॥ 26 ॥

प्रातरुत्थाय सततं यः पठेत्कवचं शुभम् ।
अक्षय्यं लभते सौख्यमिहलोके परत्र च ॥ 27 ॥

सर्वव्याधिविनिर्मुक्तः सर्वरोगविवर्जितः ।
अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥ 28 ॥

विचरत्यखिलान्लोकान्प्राप्य भोगांश्च दुर्लभान् ।
तस्मादिदं महागोप्यं कवचं समुदाहृतम् ॥ 29 ॥

मृतसंजीवनं नाम्ना देवतैरपि दुर्लभम् ॥ 30 ॥

इति वसिष्ठ कृत मृतसंजीवन कवच स्तोत्रम् ॥




Browse Related Categories: