श्री गणेशाय नमः ।
अव्यादजोऽंघ्रि मणिमांस्तव जान्वथोरू
यज्ञोऽच्युतः कटितटं जठरं हयास्यः ।
हृत्केशवस्त्वदुर ईश इनस्तु कंठं
विष्णुर्भुजं मुखमुरुक्रम ईश्वरः कम् ॥ 1 ॥
चक्र्यग्रतः सहगदो हरिरस्तु पश्चात्
त्वत्पार्श्वयोर्धनुरसी मधुहाजनश्च ।
कोणेषु शंख उरुगाय उपर्युपेंद्रस्
तार्क्ष्यः क्षितौ हलधरः पुरुषः समंतात् ॥ 2 ॥
इंद्रियाणि हृषीकेशः प्राणान्नारायणोऽवतु ।
श्वेतद्वीपपतिश्चित्तं मनो योगेश्वरोऽवतु ॥ 3 ॥
पृश्निगर्भस्तु ते बुद्धिमात्मानं भगवान्परः ।
क्रीडंतं पातु गोविंदः शयानं पातु माधवः ॥ 4 ॥
व्रजंतमव्याद्वैकुंठ आसीनं त्वां श्रियः पतिः ।
भुंजानं यज्ञभुक्पातु सर्वग्रहभयंकरः ॥ 5 ॥
डाकिन्यो यातुधान्यश्च कुष्मांडा येऽर्भकग्रहाः ।
भूतप्रेतपिशाचाश्च यक्षरक्षोविनायकाः ॥ 6 ॥
कोटरा रेवती ज्येष्ठा पूतना मातृकादयः ।
उन्मादा ये ह्यपस्मारा देहप्राणेंद्रियद्रुहः ॥ 7 ॥
स्वप्नदृष्टा महोत्पाता वृद्धबालग्रहाश्च ये ।
सर्वे नश्यंतु ते विष्णोर्नामग्रहणभीरवः ॥ 8 ॥
॥ इति श्रीमद्भागवते दशमस्कंधे गोपीकृतबालरक्षा समाप्ता ॥