शेषाचलं समासाद्य कश्यपाद्या महर्षयः ।
वेंकटेशं रमानाथं शरणं प्रापुरंजसा ॥ 1 ॥
कलिसंतारकं मुख्यं स्तोत्रमेतज्जपेन्नरः ।
सप्तर्षिवाक्प्रसादेन विष्णुस्तस्मै प्रसीदति ॥ 2 ॥
कश्यप उवाच –
कादिह्रीमंतविद्यायाः प्राप्यैव परदेवता ।
कलौ श्रीवेंकटेशाख्या तामहं शरणं भजे ॥ 3 ॥
अत्रिरुवाच –
अकारादिक्षकारांतवर्णैर्यः प्रतिपाद्यते ।
कलौ स वेंकटेशाख्यः शरणं मे रमापतिः ॥ 4 ॥
भरद्वाज उवाच –
भगवान् भार्गवीकांतो भक्ताभीप्सितदायकः ।
भक्तस्य वेंकटेशाख्यो भरद्वाजस्य मे गतिः ॥ 5 ॥
विश्वामित्र उवाच –
विराड्विष्णुर्विधाता च विश्वविज्ञानविग्रहः ।
विश्वामित्रस्य शरणं वेंकटेशो विभुः सदा ॥ 6 ॥
गौतम उवाच –
गौर्गौरीशप्रियो नित्यं गोविंदो गोपतिर्विभुः ।
शरणं गौतमस्यास्तु वेंकटाद्रिशिरोमणिः ॥ 7 ॥
जमदग्निरुवाच –
जगत्कर्ता जगद्भर्ता जगद्धर्ता जगन्मयः ।
जमदग्नेः प्रपन्नस्य जीवेशो वेंकटेश्वरः ॥ 8 ॥
वसिष्ठ उवाच –
वस्तुविज्ञानमात्रं यन्निर्विशेषं सुखं च सत् ।
तद्ब्रह्मैवाहमस्मीति वेंकटेशं भजे सदा ॥ 9 ॥
सप्तर्षिरचितं स्तोत्रं सर्वदा यः पठेन्नरः ।
सोऽभयं प्राप्नुयात्सत्यं सर्वत्र विजयी भवेत् ॥ 10 ॥
इति सप्तर्षिभिः कृतं श्री वेंकटेश्वर शरणागति स्तोत्रम् ।