View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

श्री राम तांडव स्तोत्रम्

॥ इंद्रादयो ऊचुः ॥

जटाकटाहयुक्तमुंडप्रांतविस्तृतं हरेः
अपांगक्रुद्धदर्शनोपहार चूर्णकुंतलः ।
प्रचंडवेगकारणेन पिंजलः प्रतिग्रहः
स क्रुद्धतांडवस्वरूपधृग्विराजते हरिः ॥ 1 ॥

अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषंगिनः
तथांजनेयृक्षभूपसौरबालिनंदनाः ।
प्रचंडदानवानलं समुद्रतुल्यनाशकाः
नमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे ॥ 2 ॥

कलेवरे कषायवासहस्तकार्मुकं हरेः
उपासनोपसंगमार्थधृग्विशाखमंडलम् ।
हृदि स्मरन् दशाकृतेः कुचक्रचौर्यपातकं
विदार्यते प्रचंडतांडवाकृतिः स राघवः ॥ 3 ॥

प्रकांडकांडकांडकर्मदेहछिद्रकारणं
कुकूटकूटकूटकौणपात्मजाभिमर्दनम् ।
तथागुणंगुणंगुणंगुणंगुणेन दर्शयन्
कृपीटकेशलंघ्यमीशमेकराघवं भजे ॥ 4 ॥

सवानरान्वितः तथाप्लुतं शरीरमसृजा
विरोधिमेदसाग्रमांसगुल्मकालखंडनैः ।
महासिपाशशक्तिदंडधारकैः निशाचरैः
परिप्लुतं कृतं शवैश्च येन भूमिमंडलम् ॥ 5 ॥

विशालदंष्ट्रकुंभकर्णमेघरावकारकैः
तथाहिरावणाद्यकंपनातिकायजित्वरैः ।
सुरक्षितां मनोरमां सुवर्णलंकनागरीं
निजास्त्रसंकुलैरभेद्यकोटमर्दनं कृतः ॥ 6 ॥

प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणैः
विदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः ।
पुलस्त्यनंदनात्मजस्य मुंडरुंडछेदनं
सुरारियूथभेदनं विलोकयामि सांप्रतम् ॥ 7 ॥

करालकालरूपिणं महोग्रचापधारिणं
कुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम् ।
विभीषणादिभिः सदाभिषेणनेऽभिचिंतकं
भजामि जित्वरं तथोर्मिलापतेः प्रियाग्रजम् ॥ 8 ॥

इतस्ततः मुहुर्मुहुः परिभ्रमंति कौंतिकाः
अनुप्लवप्रवाहप्रासिकाश्च वैजयंतिकाः ।
मृधे प्रभाकरस्य वंशकीर्तिनोऽपदानतां
अभिक्रमेण राघवस्य तांडवाकृतेः गताः ॥ 9 ॥

निराकृतिं निरामयं तथादिसृष्टिकारणं
महोज्ज्वलं अजं विभुं पुराणपूरुषं हरिम् ।
निरंकुशं निजात्मभक्तजन्ममृत्युनाशकं
अधर्ममार्गघातकं कपीशव्यूहनायकम् ॥ 10 ॥

करालपालिचक्रशूलतीक्ष्णभिंदिपालकैः
कुठारसर्वलासिधेनुकेलिशल्यमुद्गरैः ।
सुपुष्करेण पुष्करांच पुष्करास्त्रमारणैः
सदाप्लुतं निशाचरैः सुपुष्करंच पुष्करम् ॥ 11 ॥

प्रपन्नभक्तरक्षकं वसुंधरात्मजाप्रियं
कपीशवृंदसेवितं समस्तदूषणापहम् ।
सुरासुराभिवंदितं निशाचरांतकं विभुं
जगत्प्रशस्तिकारणं भजेह राममीश्वरम् ॥ 12 ॥

॥ इति श्रीभागवतानंदगुरुणा विरचिते श्रीराघवेंद्रचरिते
इंद्रादि देवगणैः कृतं श्रीरामतांडवस्तोत्रं संपूर्णम् ॥




Browse Related Categories: