कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके सप्तमः प्रपाठकः - शीक्षावल्ली
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1
शन्नो॑ मि॒त्र-श्शं-वँरु॑णः । शन्नो॑ भवत्वर्य॒मा । शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑-रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि । त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्म॑ वदिष्यामि । ऋ॒तं-वँ॑दिष्यामि । स॒त्यं-वँ॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु । अव॑तु॒ माम् । अव॑तु व॒क्तार᳚म् ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 1 ॥
(स॒त्त्यम् ँव॑दिष्यामि॒ पञ्च॑ च) (अ. 1)
अनुवाकं 2
शीक्षां-व्याँ᳚ख्यास्या॒मः । वर्ण॒-स्स्वरः ।
मात्रा॒ बलम् । साम॑ सन्ता॒नः ।
इत्युक्त-श्शी᳚क्षाद्ध्या॒यः ॥ 2 ॥
(शीक्षा-म्पञ्च॑) (अ. 2)
अनुवाकं 3
स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् ॥
अथात-स्सग्ंहिताया उपनिषदं-व्याँ᳚ख्यास्या॒मः । पञ्चस्वधि-क॑रणे॒षु । अधिलोकमधि-ज्यौतिष-मधिविद्य-मधिप्रज॑-मद्ध्या॒त्मम् । ता महासग्ंहिता इ॑त्याच॒क्षते ॥ अथा॑धि लो॒कम् । पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑श-स्स॒न्धिः ॥ 3 ॥
वायु॑-स्सन्धा॒नम् । इत्य॑धि लो॒कम् ॥
अथा॑धि ज्यौ॒तिषम् । अग्निः पू᳚र्व रू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑प-स्स॒न्धिः । वैद्युत॑-स्सन्धा॒नम् । इत्य॑धि ज्यौ॒तिषम् ॥ अथा॑धि वि॒द्यम् । आचार्यः पू᳚र्व रू॒पम् ॥ 4 ॥
अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः ।
प्रवचनग्ं॑ सन्धा॒नम् । इत्य॑धि वि॒द्यम् ॥
अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् । पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननग्ं॑ सन्धा॒नम् । इत्यधि॒प्रजम् ॥ 5 ॥
अथाद्ध्या॒त्मम् । अधराहनुः पू᳚र्व रू॒पम् । उत्तराहनु-रुत्त॑ररू॒पम् । वा-ख्स॒न्धिः । जिह्वा॑ सन्धा॒नम् । इत्यद्ध्या॒त्मम् ॥ इती माम॑हा स॒ग्ं॒हिताः ॥ य एवमेता महासग्ंहिता व्याख्या॑ता वे॒द । सन्धीयते प्रज॑या प॒शुभिः । ब्रह्मवर्च-सेनान्नाद्येन सुवर्ग्येण॑ (सुवर्गेण॑) लोके॒न ॥ 6 ॥
(स॒न्धि - राचार्यः पू᳚र्वरू॒प - मित्यधि॒प्रजम् - ँलो॑के॒न) (अ. 3)
अनुवाकं 4
य श्छन्द॑सा-मृष॒भो वि॒श्वरू॑पः । छन्दो॒भ्यो-ऽद्ध्य॒मृता᳚-थ्सम्ब॒भूव॑ । स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु । अ॒मृत॑स्य देव॒ धार॑णो भूयासम् ॥
शरी॑र-म्मे॒ विच॑र्षणम् । जि॒ह्वा मे॒ मधु॑मत्तमा । कर्णा᳚भ्या॒-म्भूरि॒ विश्रु॑वम् । ब्रह्म॑णः को॒शो॑-ऽसि मे॒धया ऽपि॑हितः । श्रु॒त-म्मे॑ गोपाय ॥ आ॒वह॑न्ती वितन्वा॒ना ॥ 7 ॥
कु॒र्वा॒णा चीर॑-मा॒त्मनः॑ । वासाग्ं॑सि॒ मम॒ गाव॑श्च । अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒-माव॑ह । लो॒म॒शा-म्प॒शुभि॑-स्स॒ह स्वाहा᳚ ॥ आमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ ।
विमा॑-ऽऽयन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ । प्रमा॑-ऽऽयन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ । दमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ । शमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा᳚ ॥ 8 ॥
यशो॒ जने॑-ऽसानि॒ स्वाहा᳚ । श्रेया॒न्॒. वस्य॑सो-ऽसानि॒ स्वाहा᳚ ॥ त-न्त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ । स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ । तस्मि᳚न-थ्स॒हस्र॑ शाखे । निभ॑गा॒ह-न्त्वयि॑ मृजे॒ स्वाहा᳚ ॥ यथा-ऽऽपः॒ प्रव॑ता॒-ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् ।
ए॒व-म्मा-म्ब्र॑ह्मचा॒रिणः॑ ।
धात॒राय॑न्तु स॒र्वत॒-स्स्वाहा᳚ ॥
प्र॒ति॒वे॒शो॑-ऽसि॒ प्र मा॑ भाहि॒ प्र मा॑ पद्यस्व ॥ 9 ॥
(वि॒त॒न्वा॒ना - शमा॑यन्तु ब्रह्मचा॒रिण॒-स्स्वाहा॒-धात॒राय॑न्तु स॒र्वत॒-स्स्वाहैक॑-ञ्च) (अ. 4)
अनुवाकं 5
भू-र्भुव॒-स्सुव॒-रिति॒ वा ए॒ता स्ति॒स्रो व्याहृ॑तयः ॥
तासा॑मुहस्मै॒ ता-ञ्च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते । मह॒ इति॑ ॥ त-द्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ ॥ भूरिति॒ वा अ॒यं-लोँ॒कः । भुव॒ इत्य॒न्तरि॑क्षम् । सुव॒-रित्य॒सौ लो॒कः ॥ 10 ॥
मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑ लो॒का मही॑यन्ते ॥ भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः । मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव सर्वा॑णि॒ ज्योतीग्ं॑षि॒ मही॑यन्ते ॥ भू-रिति॒ वा ऋचः॑ । भुव॒ इति॒ सामा॑नि ।
सुव॒ रिति॒ यजूग्ं॑षि ॥ 11 ॥
मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑ वे॒दा मही॑यन्ते ॥ भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः । मह॒ इत्यन्न᳚म् । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒णा मही॑यन्ते ॥ ता वा ए॒ता-श्चत॑स्र श्चतु॒र्धा । चत॑स्र-श्चतस्रो॒ व्याहृ॑तयः । ता यो वेद॑ ।
स वे॑द॒ ब्रह्म॑ । सर्वे᳚-ऽस्मै दे॒वा ब॒लिमाव॑हन्ति ॥ 12 ॥
(अ॒सौ लो॒को - यजूग्ं॑षि॒ - वेद॒ द्वे च॑) (अ. 5)
अनुवाकं 6
स य ए॒षो᳚-ऽन्तर्-हृ॑दय आका॒शः । तस्मि॑न्न॒य-म्पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ ॥ अन्त॑रेण॒ तालु॑के । य ए॒ष स्तन॑ इवाव॒लम्ब॑ते ।
से᳚न्द्र यो॒निः । यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले ॥ भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥ 13 ॥
सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् । आ॒प्नोति॒ मन॑स॒स्पति᳚म् । वाक्प॑ति॒ श्चक्षु॑ष्पतिः । श्रोत्र॑पति र्वि॒ज्ञान॑पतिः ।
ए॒त-त्ततो॑ भवति । आ॒का॒श श॑रीर॒-म्ब्रह्म॑ ।
स॒त्यात्म॑ प्रा॒णारा॑म॒-म्मन॑ आनन्दम् । शान्ति॑ समृद्ध-म॒मृत᳚म् ॥
इति॑ प्राचीन यो॒ग्योपा᳚स्व ॥ 14 ॥
(वा॒या-व॒मृत॒ मेक॑-ञ्च) (अ. 6)
अनुवाकं 7
पृ॒थि॒व्य॑न्तरि॑क्ष॒-न्द्यौ-र्दिशो॑-ऽवान्तरदि॒शाः । अ॒ग्नि-र्वा॒यु-रा॑दि॒त्य-श्च॒न्द्रमा॒ नक्ष॑त्राणि ।
आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् ॥ अथाद्ध्या॒त्मम् । प्रा॒णो व्या॒नो॑-ऽपा॒न उ॑दा॒न-स्स॑मा॒नः । चक्षु॒-श्श्रोत्र॒-म्मनो॒ वा-क्त्वक् ।
चर्म॑ मा॒ग्ं॒ सग्ग्स्नावास्थि॑ म॒ज्जा ॥
ए॒त द॑धिवि॒धाय॒र्॒षि॒ रवो॑चत् ।
पाङ्क्तं॒-वाँ इ॒दग्ं सर्व᳚म् ।
पाङ्क्त॑नै॒व पाङ्क्तग्ग्॑ स्पृणो॒तीति॑ ॥ 15 ॥
(सर्व॒मेक॑-ञ्च) (अ. 7)
अनुवाकं 8
ओ-मिति॒ ब्रह्म॑ ॥ ओ-मिती॒दग्ं सर्व᳚म् ॥
ओमित्ये॒त-द॑नुकृति हस्म॒ वा अ॒प्यो श्रा॑व॒येत्या-श्रा॑वयन्ति । ओ-मिति॒ सामा॑नि गायन्ति । ओग्ं शोमिति॑ श॒स्त्राणि॑ शग्ंसन्ति । ओमित्य॑द्ध्व॒र्युः प्र॑तिग॒र-म्प्रति॑गृणाति । ओमिति॒ ब्रह्मा॒ प्रसौ॑ति ।
ओमित्य॑ग्निहो॒त्र-मनु॑जानाति । ओमिति॑ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ ।
ब्रह्मै॒वो-पा᳚प्नोति ॥ 16 ॥
(ओ-न्दश॑) (अ. 8)
अनुवाकं 9
ऋत-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
सत्य-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
तपश्च स्वाद्ध्याय प्रव॑चने॒ च ।
दमश्च स्वाद्ध्याय प्रव॑चने॒ च ।
शमश्च स्वाद्ध्याय प्रव॑चने॒ च ।
अग्नयश्च स्वाद्ध्याय प्रव॑चने॒ च ।
अग्निहोत्र-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
अतिथयश्च स्वाद्ध्याय प्रव॑चने॒ च ।
मानुष-ञ्च स्वाद्ध्याय प्रव॑चने॒ च ।
प्रजा च स्वाद्ध्याय प्रव॑चने॒ च ।
प्रजनश्च स्वाद्ध्याय प्रव॑चने॒ च ।
प्रजातिश्च स्वाद्ध्याय प्रव॑चने॒ च ॥
सत्यमिति सत्यवचा॑ राथी॒ तरः ।
तप इति तपोनित्यः पौ॑रुशि॒ष्टिः ।
स्वाद्ध्याय प्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।
तद्धि तप॑स्तद्धि॒ तपः ॥ 17 ॥
(प्रजा च स्वाद्ध्यायप्रव॑चने॒ च षट्च॑) (अ. 9)
अनुवाकं 10
अ॒हं-वृँ॒क्षस्य॒ रेरि॑वा ।
की॒र्तिः पृ॒ष्ठ-ङ्गि॒रेरि॑व ।
ऊ॒र्ध्व प॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि । द्रवि॑ण॒ग्ं॒ सव॑र्चसम् । सुमेधा अ॑मृतो॒क्षितः । इति त्रिशङ्को-र्वेदा॑नुव॒चनम् ॥ 18 ॥
(अ॒हग्ं षट्) (अ. 10)
अनुवाकं 11
वेदमनूच्या- ऽचार्योन्तेवासिन-म॑नुशा॒स्ति ॥
सत्यं॒-वँद । धर्म॒-ञ्चर ॥ स्वाद्ध्याया᳚न्मा प्र॒मदः । आचार्याय प्रिय-न्धनमाहृत्य प्रजातन्तु-म्मा व्य॑वच्छे॒थ्सीः । सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् । कुशलान्न प्रम॑दित॒व्यम् ।
भूत्यै न प्रम॑दित॒व्यम् । स्वाद्ध्याय प्रवचनाभ्या-न्न प्रम॑दित॒व्यम् ॥ 19 ॥
देवपितृकार्याभ्या-न्न प्रम॑दित॒व्यम् ॥
मातृ॑देवो॒ भव । पितृ॑देवो॒ भव ।
आचार्य॑ देवो॒ भव । अतिथि॑देवो॒ भव ॥
यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि ।
नो इ॑तरा॒णि ॥ यान्यस्माकग्ं सुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥ 20 ॥
नो इ॑तरा॒णि ॥ ये के चास्म-च्छ्रेयाग्ं॑सो ब्रा॒ह्मणाः । तेषा-न्त्वया-ऽऽसने न प्रश्व॑सित॒व्यम् ॥ श्रद्ध॑या दे॒यम् । अश्रद्ध॑या-ऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् । भि॑या दे॒यम् । संविँ॑दा दे॒यम् ॥
अथ यदि ते कर्मविचिकिथ्सा वा वृत्त विचिकि॑थ्सा वा॒ स्यात् ॥ 21 ॥
ये तत्र ब्राह्मणा᳚-स्सम्म॒र॒.शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑कामा॒-स्स्युः । यथा ते॑ तत्र॑ वर्ते॒रन्न् । तथा तत्र॑ वर्ते॒थाः ॥ अथाभ्या᳚ख्याते॒षु । ये तत्र ब्राह्मणा᳚-स्सम्म॒र्॒शिनः । युक्ता॑ आयु॒क्ताः ।
अलूक्षा॑ धर्म॑ कामा॒-स्स्युः । यथा ते॑ तेषु॑ वर्ते॒रन्न् ॥ 22 ॥
तथा तेषु॑ वर्ते॒थाः ॥ एष॑ आदे॒शः ।
एष उ॑पदे॒शः । एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एव मुपा॑सित॒व्यम् । एव मुचैत॑दुपा॒स्यम् ॥ 23 ॥
(स्वाद्ध्यायप्रवचनाभ्या-न्न प्रम॑दित॒व्यम् - तानित्वयो॑पास्या॒नि - स्यात् - तेषु॑ वर्ते॒रन्थ् - +स॒प्त च॑) (अ. 11)
अनुवाकं 12
शन्नो॑ मि॒त्र-श्शं-वँरु॑णः । शन्नो॑ भवत्वर्य॒मा ।
शन्न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शन्नो॒ विष्णु॑ रुरुक्र॒मः । नमो॒ ब्रह्म॑णे । नम॑स्ते वायो ।
त्वमे॒व प्र॒त्यक्ष॒-म्ब्रह्मा॑सि ।
त्वामे॒व प्र॒त्यक्ष॒-म्ब्रह्मा वा॑दिषम् ।
ऋ॒तम॑वादिषम् । स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् । आवी॒न्माम् ।
आवी᳚द्व॒क्तार᳚म् ॥ ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥ 24 ॥
(स॒त्यम॑वादिष॒-म्पञ्च॑ च) (अ. 12)
॥ इति शीक्षावल्ली समाप्ता ॥
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय आरण्यके सप्तमः प्रपाठक-स्समाप्तः ॥