| | English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| | Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
|
2.2 - होतृब्राह्मणम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - प्रजापतिरकामयत प्रजाः कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके द्वितीयः प्रपाठकः - होतृब्राह्मणम् ओ-न्नमः परमात्मने, श्री महागणपतये नमः, अनुवाकं 1 - दशहोतृमन्त्रस्य क्रत्वर्थपुरुषार्थप्रयोगौ प्र॒जाप॑तिरकामयत प्र॒जा-स्सृ॑जे॒येति॑ । स ए॒त-न्दश॑होतार-मपश्यत् । त-म्मन॑सा ऽनु॒द्रुत्य॑ दर्भस्त॒म्बे॑-ऽजुहोत् । ततो॒ वै स प्र॒जा अ॑सृजत । ता अ॑स्माथ्सृ॒ष्टा अपा᳚क्रामन्न् । ता ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । यः का॒मये॑त॒ प्रजा॑ये॒येति॑ । स दश॑होतार॒-म्मन॑सा ऽनु॒द्रुत्य॑ दर्भस्त॒म्बे जु॑हुयात् । प्र॒जाप॑ति॒र्वै दश॑होता ॥ 1 ॥ प्र॒जाप॑तिरे॒व भू॒त्वा प्र जा॑यते ॥ मन॑सा जुहोति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ पू॒र्णया॑ जुहोति । पू॒र्ण इ॑व॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ न्यू॑नया जुहोति । न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत । प्र॒जाना॒ग्ं॒ सृष्ट्यै᳚ ॥ 2 ॥ द॒र्भ॒स्त॒म्बे जु॑होति । ए॒तस्मा॒द्वै योनेः᳚ प्र॒जाप॑तिः प्र॒जा अ॑सृजत । यस्मा॑दे॒व योनेः᳚ प्र॒जाप॑तिः प्र॒जा असृ॑जत । तस्मा॑दे॒व योनेः॒ प्र जा॑यते ॥ ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑-मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒मत्ये॒व प्र जा॑यते ॥ ग्रहो॑ भवति । प्र॒जानाग्ं॑ सृ॒ष्टाना॒-न्धृत्यै᳚ ॥ य-म्ब्रा᳚ह्म॒णं-विँ॒द्यां-विँ॒द्वाग्ंसं॒-यँशो॒ नर्च्छेत् ॥ 3 ॥ सो-ऽर॑ण्य-म्प॒रेत्य॑ । द॒र्भ॒स्त॒म्ब-मु॒द्ग्रत्थ्य॑ । ब्रा॒ह्म॒ण-न्द॑क्षिण॒तो नि॒षाद्य॑ । चतु॑र्होतॄ॒न् व्याच॑क्षीत । ए॒तद्वै दे॒वाना᳚-म्पर॒म-ङ्गुह्य॒-म्ब्रह्म॑ । यच्चतु॑र्होतारः । तदे॒व प्र॑का॒श-ङ्ग॑मयति । तदे॑न-म्प्रका॒श-ङ्ग॒तम् । प्र॒का॒श-म्प्र॒जाना᳚-ङ्गमयति ॥ द॒र्भ॒स्त॒म्ब-मु॒द्ग्रत्थ्य॒ व्याच॑ष्टे ॥ 4 ॥ अ॒ग्नि॒वान्. वै द॑र्भस्त॒म्बः । अ॒ग्नि॒वत्ये॒व व्याच॑ष्टे ॥ ब्रा॒ह्म॒णो द॑क्षिण॒त उपा᳚स्ते । ब्रा॒ह्म॒णो वै प्र॒जाना॑-मुपद्र॒ष्टा । उ॒प॒द्र॒ष्टु॒-मत्ये॒वैनं॒-यँश॑ ऋच्छति ॥ ई॒श्व॒र-न्तं-यँशो-ऽर्तो॒रित्या॑हुः । यस्यान्ते᳚ व्या॒चष्ट॒ इति॑ । वर॒स्तस्मै॒ देयः॑ । यदे॒वैन॒-न्तत्रो॑प॒ नम॑ति । तदे॒वाव॑ रुन्धे ॥ 5 ॥ अ॒ग्निमा॒दधा॑नो॒ दश॑होत्रा॒ ऽरणि॒मव॑दद्ध्यात् । प्रजा॑तमे॒वैन॒-माध॑त्ते । तेनै॒वोद्द्रुत्या᳚ग्निहो॒त्र-ञ्जु॑हुयात् । प्रजा॑तमे॒वैन॑ज्जुहोति । ह॒विर्नि॑र्व॒फ्स्यन्-दश॑होतारं॒-व्याँच॑क्षीत । प्रजा॑तमे॒वैन॒-न्निर्व॑पति । सा॒मि॒धे॒नी-र॑नुव॒क्ष्यन्-दश॑होतारं॒-व्याँच॑क्षीत । सा॒मि॒धे॒नीरे॒व सृ॒ष्ट्वा-ऽऽरभ्य॒ प्र त॑नुते । अथो॑ य॒ज्ञो वै दश॑होता । य॒ज्ञमे॒व त॑नुते ॥ 6 ॥ अ॒भि॒चर॒न्-दश॑होतार-ञ्जुहुयात् । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । सप्रा॑णमे॒वैन॑-म॒भिच॑रति । ए॒ताव॒द्वै पुरु॑षस्य॒ स्वम् । याव॑-त्प्रा॒णाः । याव॑दे॒वास्यास्ति॑ । तद॒भिच॑रति ॥ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚ । ए॒तद्वा अ॒स्यै निर्-ऋ॑तिगृहीतम् । निर्-ऋ॑ति गृहीत ए॒वैन॒-न्निर्-ऋ॑त्या ग्राहयति ॥ य-द्वा॒चः क्रू॒रम् । तेन॒ वष॑ट्करोति । वा॒च ए॒वैन॑-ङ्क्रू॒रेण॒ प्र वृ॑श्चति । ता॒जगार्ति॒मार्च्छ॑ति ॥ 7 ॥ अनुवाकं 2 - चतुर्होत्रादिमन्त्राणा-ङ्क्रत्वर्थप्रयोगः ग्रहो॑ भवति । द॒र्॒श॒पू॒र्ण॒मा॒सयो᳚-स्सृ॒ष्टयो॒र्धृत्यै᳚ ॥ सो॑-ऽकामयत चातुर्मा॒स्यानि॑ सृजे॒येति॑ । स ए॒त-म्पञ्च॑होतार-मपश्यत् । त-म्मन॑सा-ऽनु॒द्रुत्या॑ हव॒नीये॑-ऽजुहोत् । ततो॒ वै स चा॑तुर्मा॒स्यान्य॑सृजत । तान्य॑स्मा-थ्सृ॒ष्टान्यपा᳚क्रामन्न् । तानि॒ ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । चा॒तु॒र्मा॒स्यान्या॒लभ॑मानः ॥ 9 ॥ पञ्च॑होतार॒-म्मन॑सा-ऽनु॒द्रुत्या॑ हव॒नीये॑ जुहुयात् । चा॒तु॒र्मा॒स्यान्ये॒व सृ॒ष्ट्वा-ऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । चा॒तु॒र्मा॒स्यानाग्ं॑ सृ॒ष्टाना॒-न्धृत्यै᳚ ॥ सो॑-ऽकामयत पशुब॒न्धग्ं सृ॑जे॒येति॑ । स ए॒तग्ं षड्ढो॑तार-मपश्यत् । त-म्मन॑सा-ऽनु॒द्रुत्या॑ हव॒नीये॑-ऽजुहोत् । ततो॒ वै स प॑शुब॒न्धम॑सृजत । सो᳚-ऽस्मा-थ्सृ॒ष्टो ऽपा᳚क्रामत् । त-ङ्ग्रहे॑णागृह्णात् ॥ 10 ॥ तद्ग्रह॑स्य ग्रह॒त्वम् । प॒शु॒ब॒न्धेन॑ य॒क्ष्यमा॑णः । षड्ढो॑तार॒-म्मन॑सा ऽनु॒द्रुत्या॑ हव॒नीये॑ जुहुयात् । प॒शु॒ब॒न्धमे॒व सृ॒ष्ट्वा-ऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । प॒शु॒ब॒न्धस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚ ॥ सो॑-ऽकामयत सौ॒म्य-म॑द्ध्व॒रग्ं सृ॑जे॒येति॑ । स ए॒तग्ं स॒प्तहो॑तार-मपश्यत् । त-म्मन॑सा-ऽनु॒द्रुत्या॑ हव॒नीये॑ ऽजुहोत् । ततो॒ वै स सौ॒म्य-म॑द्ध्व॒र-म॑सृजत ॥ 11 ॥ सो᳚-ऽस्मा-थ्सृ॒ष्टो-ऽपा᳚क्रामत् । त-ङ्ग्रहे॑णागृह्णात् । तद्ग्रह॑स्य ग्रह॒त्वम् । दी॒क्षि॒ष्यमा॑णः । स॒प्तहो॑तार॒-म्मन॑सा-ऽनु॒द्रुत्या॑ हव॒नीये॑ जुहुयात् । सौ॒म्यमे॒वाद्ध्व॒रग्ं सृ॒ष्ट्वा-ऽऽरभ्य॒ प्र त॑नुते । ग्रहो॑ भवति । सौ॒म्यस्या᳚-द्ध्व॒रस्य॑ सृ॒ष्टस्य॒ धृत्यै᳚ ॥ दे॒वेभ्यो॒ वै य॒ज्ञो न प्राभ॑वत् । तमे॑ताव॒च्छ-स्सम॑भरन्न् ॥ 12 ॥ य-थ्स॑भां॒राः । ततो॒ वै तेभ्यो॑ य॒ज्ञः प्राभ॑वत् । य-थ्स॑भां॒रा भव॑न्ति । य॒ज्ञस्य॒ प्रभू᳚त्यै ॥ आ॒ति॒त्थ्यमा॒साद्य॒ व्याच॑ष्टे । य॒ज्ञ॒मु॒खं-वाँ आ॑ति॒थ्यम् । मु॒ख॒त ए॒व य॒ज्ञग्ं स॒भृन्त्य॒ प्र त॑नुते ॥ अय॑ज्ञो॒ वा ए॒षः । यो॑-ऽप॒त्नीकः॑ । न प्र॒जाः प्र जा॑येरन्न् । पत्नी॒र्व्याच॑ष्टे । य॒ज्ञमे॒वाकः॑ । प्र॒जाना᳚-म्प्र॒जन॑नाय ॥ उ॒प॒सथ्सु॒ व्याच॑ष्टे । ए॒तद्वै पत्नी॑ना-मा॒यत॑नम् । स्व ए॒वैना॑ आ॒यत॒ने-ऽव॑ कल्पयति ॥ 13 ॥ अनुवाकं 3 - चतुर्होतृपञ्चहोतृमन्त्रग्रहभागयोः पुरुषार्थ प्रयोगः प्र॒जाप॑ति-रकामयत॒ प्र जा॑ये॒येति॑ । स तपो॑-ऽतप्यत । स त्रि॒वृत॒ग्ग्॒ स्तोम॑-मसृजत । त-म्प॑ञ्चद॒शस्तोमो॑ मद्ध्य॒त उद॑तृणत् । तौ पू᳚र्वप॒क्षश्चा॑परप॒क्षश्चा॑भवताम् । पू॒र्व॒प॒क्ष-न्दे॒वा अन्वसृ॑ज्यन्त । अ॒प॒र॒प॒क्ष-मन्वसु॑राः । ततो॑ दे॒वा अभ॑वन्न् । परा-ऽसु॑राः । य-ङ्का॒मये॑त॒ वसी॑यान्-थ्स्या॒दिति॑ ॥ 14 ॥ त-म्पू᳚र्वप॒क्षे या॑जयेत् । वसी॑याने॒व भ॑वति । य-ङ्का॒मये॑त॒ पापी॑यान्-थ्स्या॒दिति॑ । तम॑परप॒क्षे या॑जयेत् । पापी॑याने॒व भ॑वति । तस्मा᳚-त्पूर्वप॒क्षो॑ ¶प॒क्षात्-क॑रु॒ण्य॑तरः ॥ प्र॒जाप॑ति॒र्वै दश॑होता । चतु॑र्होता॒ पञ्च॑होता । षड्ढो॑ता स॒प्तहो॑ता । ऋ॒तव॑-स्संवँथ्स॒रः ॥ 15 ॥ प्र॒जाः प॒शव॑ इ॒मे लो॒काः । य ए॒व-म्प्र॒जाप॑ति-म्ब॒होर्भूयाग्ं॑सं॒-वेँद॑ । ब॒होरे॒व भूया᳚-न्भवति ॥ प्र॒जाप॑ति-र्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । त-न्दे॒वा अ॑ब्रुवन्न् । इन्द्र॑-न्नो जन॒येति॑ । सो᳚-ऽब्रवीत् । यथा॒ ऽहं-युँ॒ष्माग् स्तप॒सा ऽसृ॑क्षि । ए॒वमिन्द्र॑-ञ्जनयद्ध्व॒मिति॑ ॥ 16 ॥ ते तपो॑-ऽतप्यन्त । त आ॒त्मन्निन्द्र॑-मपश्यन्न् । तम॑ब्रुवन्न् । जाय॒स्वेति॑ । सो᳚-ऽब्रवीत् । कि-म्भा॑ग॒धेय॑-म॒भिज॑निष्य॒ इति॑ । ऋ॒तून्-थ्सं॑वँथ्स॒रम् । प्र॒जाः प॒शून् । इ॒माल् ँलो॒कानित्य॑ब्रुवन्न् । तं-वैँ मा-ऽऽहु॑त्या॒ प्रज॑नय॒तेत्य॑ब्रवीत् ॥ 17 ॥ त-ञ्चतु॑र्होत्रा॒ प्राज॑नयन्न् ॥ यः का॒मये॑त वी॒रो म॒ आ जा॑ये॒तेति॑ । स चतु॑र्होतार-ञ्जुहुयात् । प्र॒जाप॑ति॒र्वै चतु॑र्होता । प्र॒जाप॑तिरे॒व भू॒त्वा प्रजा॑यते । ज॒जन॒दिन्द्र॑-मिन्द्रि॒याय॒ स्वाहेति॒ ग्रहे॑ण जुहोति । आ-ऽस्य॑ वी॒रो जा॑यते । वी॒रग्ं हि दे॒वा ए॒तया ऽऽहु॑त्या॒ प्राज॑नयन्न् ॥ आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के᳚ ऽस्पर्धन्त । व॒य-म्पूर्वे॑ सुव॒र्गं-लोँ॒कमि॑याम व॒य-म्पूर्व॒ इति॑ ॥ 18 ॥ त आ॑दि॒त्या ए॒त-म्पञ्च॑होतार-मपश्यन्न् । त-म्पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚द्ध्रे ऽजुहवुः । ततो॒ वै ते पूर्वे॑ सुव॒र्गं-लोँ॒कमा॑यन्न् । य-स्सु॑व॒र्गका॑म॒-स्स्यात् । स पञ्च॑होतार-म्पु॒रा प्रा॑तरनुवा॒कादाग्नी᳚द्ध्रे जुहुयात् । सं॒वँ॒थ्स॒रो वै पञ्च॑होता । सं॒वँ॒थ्स॒र-स्सु॑व॒र्गो लो॒कः । सं॒वँ॒थ्स॒र ए॒वर्तुषु॑ प्रति॒ष्ठाय॑ । सु॒व॒र्गं-लोँ॒कमे॑ति ॥ ते᳚ब्रुव॒-न्नङ्गि॑रस आदि॒त्यान् ॥ 19 ॥ क्व॑ स्थ । क्व॑ व-स्स॒द्भ्यो ह॒व्यं-वँ॑क्ष्याम॒ इति॑ । छन्द॒-स्स्वित्य॑ब्रुवन्न् । गा॒य॒त्रि॒या-न्त्रि॒ष्टुभि॒-जग॑त्या॒मिति॑ । तस्मा॒च्छन्द॑-स्सु स॒द्भ्य आ॑दि॒त्येभ्यः॑ । आ॒ङ्गी॒र॒सीः प्र॒जा ह॒व्यं-वँ॑हन्ति । वह॑न्त्यस्मै प्र॒जा ब॒लिम् । ऐन॒मप्र॑तिख्यात-ङ्गच्छति । य ए॒वं-वेँद॑ ॥ द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कवि॒ग्ं॒शः । ए॒तस्मि॒न् वा ए॒ष श्रि॒तः । ए॒तस्मि॒न्-प्रति॑ष्ठितः । य ए॒वमे॒तग्ग् श्रि॒त-म्प्रति॑ष्ठितं॒-वेँद॑ । प्रत्ये॒व ति॑ष्ठति ॥ 20 ॥ अनुवाकं 4 - जग-थ्सृष्टिकथनमुखेन होतृमन्त्रप्रशंसा असृ॑क्षि॒ वा इ॒ममिति॑ । तस्य॒ सोमो॑ ह॒विरासी᳚त् । स चतु॑र्होत्रा ऽतप्यत । सो॑-ऽताम्यत् । स भूरिति॒ व्याह॑रत् । स भूमि॑मसृजत । अ॒ग्नि॒हो॒त्र-न्द॑र्शपूर्णमा॒सौ यजूग्ं॑षि । स द्वि॒तीय॑मतप्यत । सो॑-ऽताम्यत् । स भुव॒ इति॒ व्याह॑रत् ॥ 22 ॥ सो᳚-ऽन्तरि॑क्ष-मसृजत । चा॒तु॒र्मा॒स्यानि॒ सामा॑नि । स तृ॒तीय॑मतप्यत । सो॑-ऽताम्यत् । स सुव॒रिति॒ व्याह॑रत् । स दिव॑मसृजत । अ॒ग्नि॒ष्टो॒म-मु॒क्थ्य॑-मतिरा॒त्रमृचः॑ । ए॒ता वै व्याहृ॑तय इ॒मे लो॒काः । इ॒मा-न्खलु॒ वै लो॒काननु॑ प्र॒जाः प॒शव॒श्छन्दाग्ं॑सि॒ प्राजा॑यन्त । य ए॒वमे॒ताः प्र॒जाप॑तेः प्रथ॒मा व्याहृ॑तीः॒ प्रजा॑ता॒ वेद॑ ॥ 23 ॥ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते ॥ स पञ्च॑होतार-मसृजत । स ह॒विर्ना-वि॑न्दत । तस्मै॒ सोम॑-स्त॒नुव॒-म्प्राय॑च्छत् । ए॒त-त्ते॑ ह॒विरिति॑ । स पञ्च॑होत्रा ऽतप्यत । सो॑-ऽताम्यत् । स प्र॒त्यङ्ङ॑बाधत । सो-ऽसु॑रा-नसृजत । तद॒स्या प्रि॑यमासीत् ॥ 24 ॥ त-द्दु॒र्वर्ण॒ग्ं॒ हिर॑ण्यमभवत् । त-द्दु॒र्वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । स द्वि॒तीय॑मतप्यत । सो॑-ऽताम्यत् । स प्रांअ॑बाधत । स दे॒वान॑सृजत । तद॑स्य प्रि॒यम॑सीत् । त-थ्सु॒वर्ण॒ग्ं॒ हिर॑ण्यमभवत् । त-थ्सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॑ । य ए॒वग्ं सु॒वर्ण॑स्य॒ हिर॑ण्यस्य॒ जन्म॒ वेद॑ ॥ 25 ॥ सु॒वर्ण॑ आ॒त्मना॑ भवति । दु॒र्वर्णो᳚-ऽस्य॒ भ्रातृ॑व्यः । तस्मा᳚-थ्सु॒वर्ण॒ग्ं॒ हिर॑ण्य-म्भा॒र्य᳚म् । सु॒वर्ण॑ ए॒व भ॑वति । ऐन॑-म्प्रि॒य-ङ्ग॑च्छति॒ नाप्रि॑यम् ॥ स स॒प्तहो॑तार-मसृजत । स स॒प्तहो᳚त्रै॒व सु॑व॒र्गं-लोँ॒कमै᳚त् ॥ त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो-ऽसु॑रा॒-न्प्राणु॑दत । त्र॒य॒स्त्रि॒ग्ं॒शेन॒ प्रत्य॑तिष्ठत् । ए॒क॒वि॒ग्ं॒शेन॒ रुच॑मधत्त ॥ 26 ॥ स॒प्त॒द॒शेन॒ प्राजा॑यत । य ए॒वं-विँ॒द्वान्-थ्सोमे॑न॒ यज॑ते । स॒प्तहो᳚त्रै॒व सु॑व॒र्गं-लोँ॒कमे॑ति । त्रि॒ण॒वेन॒ स्तोमे॑नै॒भ्यो लो॒केभ्यो॒ भ्रातृ॑व्या॒न्-प्रणु॑दते । त्र॒य॒स्त्रि॒ग्ं॒शेन॒ प्रति॑ तिष्ठति । ए॒क॒वि॒ग्ं॒शेन॒ रुच॑-न्धत्ते । स॒प्त॒द॒शेन॒ प्रजा॑यते । तस्मा᳚-थ्सप्तद॒श-स्स्तोमो॒ न नि॒र्॒हृत्यः॑ । प्र॒जाप॑ति॒ र्वै स॑प्तद॒शः । प्र॒जाप॑तिमे॒व म॑द्ध्य॒तो ध॑त्ते॒ प्रजा᳚त्यै ॥ 27 ॥ अनुवाकं 5 - दक्षिणाप्रतिग्रहमन्त्रव्याख्यानम् राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒-ऽग्नये॒ हिर॑ण्य॒मित्या॑ह । आ॒ग्ने॒यं-वैँ हिर॑ण्यम् । स्वयै॒वैन॑-द्दे॒वत॑या॒ प्रति॑ गृह्णाति । सोमा॑य॒ वास॒ इत्या॑ह । सौ॒म्यं-वैँ वासः॑ । स्वयै॒वैन॑-द्दे॒वत॑या॒ प्रति॑ गृह्णाति । रु॒द्राय॒ गामित्या॑ह । रौ॒द्री वै गौः । स्वयै॒वैना᳚-न्दे॒वत॑या॒ प्रति॑ गृह्णाति । वरु॑णा॒याश्व॒मित्या॑ह ॥ 29 ॥ वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैन॑-न्दे॒वत॑या॒ प्रति॑ गृह्णाति । प्रा॒जाप॑तये॒ पुरु॑ष॒मित्या॑ह । प्रा॒जा॒प॒त्यो वै पुरु॑षः । स्वयै॒वैन॑-न्दे॒वत॑या॒ प्रति॑ गृह्णाति । मन॑वे॒ तल्प॒मित्या॑ह । मा॒न॒वो वै तल्पः॑ । स्वयै॒वैन॑-न्दे॒वत॑या॒ प्रति॑ गृह्णाति । उ॒त्ता॒नाया᳚ङ्गीर॒सायान॒ इत्या॑ह । इ॒यं-वाँ उ॑त्ता॒न आ᳚ङ्गीर॒सः ॥ 30 ॥ अ॒नयै॒वैन॒त्-प्रति॑ गृह्णाति ॥ वै॒श्वा॒न॒र्यार्चा रथ॒-म्प्रति॑ गृह्णाति । वै॒श्वा॒न॒रो वै दे॒वत॑या॒ रथः॑ । स्वयै॒वैन॑-न्दे॒वत॑या॒ प्रति॑ गृह्णाति ॥ तेना॑मृत॒त्वम॑श्या॒-मित्या॑ह । अ॒मृत॑मे॒वात्मन्-ध॑त्ते ॥ वयो॑ दा॒त्र इत्या॑ह । वय॑ ए॒वैन॑-ङ्कृ॒त्वा । सु॒व॒र्गं-लोँ॒क-ङ्ग॑मयति ॥ मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्र इत्या॑ह ॥ 31 ॥ यद्वै शि॒वम् । तन्मयः॑ । आ॒त्मन॑ ए॒वैषा परी᳚त्तिः ॥ क इ॒द-ङ्कस्मा॑ अदा॒दित्या॑ह । प्र॒जाप॑ति॒र्वै कः । स प्र॒जाप॑तये ददाति ॥ कामः॒ कामा॒येत्या॑ह । कामे॑न॒ हि ददा॑ति । कामे॑न प्रतिगृ॒ह्णाति॑ ॥ कामो॑ दा॒ता कामः॑ प्रति ग्रही॒तेत्या॑ह ॥ 32 ॥ कामो॒ हि दा॒ता । कामः॑ प्रति ग्रही॒ता ॥ कामग्ं॑ समु॒द्र-मावि॒शेत्या॑ह । स॒मु॒द्र इ॑व॒ हि कामः॑ । नेव॒ हि काम॒स्यान्तो-ऽस्ति॑ । न स॑मु॒द्रस्य॑ ॥ कामे॑न त्वा॒ प्रति॑ गृह्णा॒मीत्या॑ह । येन॒ कामे॑न प्रति गृ॒ह्णाति॑ । स ए॒वैन॑म॒मुष्मि॑ल् ँलो॒के काम॒ आग॑च्छति ॥ कामै॒तत्त॑ ए॒षा ते॑ काम॒ दक्षि॒णेत्या॑ह । काम॑ ए॒व त-द्यज॑मानो॒-ऽमुष्मि॑ल् ँलो॒के दक्षि॑णामिच्छति । न प्र॑तिग्रही॒तरि॑ ॥ य ए॒वं-विँ॒द्वान्-दक्षि॑णा-म्प्रतिगृ॒ह्णाति॑ । अ॒नृ॒णामे॒वैना॒-म्प्रति॑ गृह्णाति ॥ 33 ॥ अनुवाकं 6 - द्वादशाहदशमे-ऽहनि होतृमन्त्राः अन्न॑मे॒वाव॑-रुन्धते ॥ मन॑सा॒ प्रस्तौ॑ति । मन॒सोद्गा॑यति । मन॑सा॒ प्रति॑ हरति । मन॑ इव॒ हि प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ ॥ दे॒वा वै स॒र्पाः । तेषा॑मि॒यग्ं राज्ञी᳚ । य-थ्स॑र्परा॒ज्ञिया॑ ऋ॒ग्भि-स्स्तु॒वन्ति॑ । अ॒स्यामे॒व प्रति॑ तिष्ठन्ति ॥ 35 ॥ चतु॑र्होतॄ॒न्॒. होता॒ व्याच॑ष्टे । स्तु॒तमनु॑शग्ंसति॒ शान्त्यै᳚ ॥ अन्तो॒ वा ए॒ष य॒ज्ञस्य॑ । य-द्द॑श॒ममहः॑ । ए॒त-त्खलु॒ वै दे॒वाना᳚-म्पर॒म-ङ्गुह्य॒-म्ब्रह्म॑ । यच्चतु॑र्होतारः । द॒श॒मे-ऽह॒ग्ग्॒-श्चतु॑र्होतॄ॒न् व्याच॑ष्टे । य॒ज्ञस्यै॒वान्त॑-ङ्ग॒त्वा । प॒र॒म-न्दे॒वाना॒-ङ्गुह्य॒-म्ब्रह्माव॑रुन्धे । तदे॒व प्र॑का॒श-ङ्ग॑मयति ॥ 36 ॥ तदे॑न-म्प्रका॒श-ङ्ग॒तम् । प्र॒का॒श-म्प्र॒जाना᳚-ङ्गमयति ॥ वाचं॑-यँच्छति । य॒ज्ञस्य॒ धृत्यै᳚ ॥ य॒ज॒मा॒न॒दे॒व॒त्यं॑-वाँ अहः॑ । भ्रा॒तृ॒व्य॒दे॒व॒त्या॑ रात्रिः॑ । अह्ना॒ रात्रि॑-न्ध्यायेत् । भ्रातृ॑व्यस्यै॒व तल्लो॒कं-वृँ॑ङ्क्ते । यद्दिवा॒ वाचं॑-विँसृ॒जेत् । अह॒र्भ्रातृ॑व्या॒योच्छिग्ं॑षेत् । यन्नक्तं॑-विँसृ॒जेत् । रात्रि॒-म्भ्रातृ॑व्या॒योच्छिग्ं॑षेत् । अ॒धि॒वृ॒क्ष॒सू॒र्ये वाचं॒-विँसृ॑जति । ए॒ताव॑न्तमे॒वास्मै॑ लो॒कमुच्छिग्ं॑षति । याव॑दादि॒त्यो᳚-ऽस्त॒मेति॑ ॥ 37 ॥ अनुवाकं 7 - सप्तहोतृमन्त्रसाध्ययज्ञप्रशंसा मि॒त्रमे॒व भ॑वतः ॥ प्र॒जाप॑ति-र्देवासु॒रान॑सृजत । स इन्द्र॒मपि॒ नासृ॑जत । त-न्दे॒वा अ॑ब्रुवन्न् । इन्द्र॑-न्नो जन॒येति॑ । स आ॒त्म-न्निन्द्र॑-मपश्यत् । तम॑सृजत । त-न्त्रि॒ष्टुग्-वी॒र्य॑-म्भू॒त्वा-ऽनु॒ प्रावि॑शत् । तस्य॒ वज्रः॑ पञ्चद॒शो हस्त॒ आप॑द्यत । तेनो॒दय्यासु॑रान॒भ्य॑ भवत् ॥ 39 ॥ य ए॒वं-वेँद॑ । अ॒भि भ्रातृ॑व्या-न्भवति ॥ ते दे॒वा असु॑रै-र्वि॒जित्य॑ । सु॒व॒र्गं-लोँ॒कमा॑यन्न् । ते॑-ऽमुष्मि॑ल् ँलो॒के व्य॑क्षुद्ध्यन्न् । ते᳚-ऽब्रुवन्न् । अ॒मुतः॑ प्रदानं॒-वाँ उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारं-यँ॒ज्ञं-विँ॒धाया॒यास्य᳚म् । आ॒ङ्गी॒र॒स-म्प्राहि॑ण्वन्न् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ ॥ 40 ॥ तस्य॒ वा इ॒य-ङ्क्लृप्तिः॑ । यदि॒द-ङ्कि-ञ्च॑ । य ए॒वं-वेँद॑ । कल्प॑ते-ऽस्मै । स वा अ॒य-म्म॑नु॒ष्ये॑षु य॒ज्ञ-स्स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं-वँ॑हति । य ए॒वं-वेँद॑ । उपै॑नं-यँ॒ज्ञो न॑मति ॥ सो॑-ऽमन्यत । अ॒भि वा इ॒मे᳚-ऽस्मा-ल्लो॒काद॒मुंलोँ॒क-ङ्क॑मिष्यन्त॒ इति॑ । स वाच॑स्पते॒ हृदिति॒ व्याह॑रत् । तस्मा᳚-त्पु॒त्रो हृद॑यम् । तस्मा॑द॒स्मा-ल्लो॒काद॒मुं-लोँ॒क-न्नाभिका॑मयन्ते । पु॒त्रो हि हृद॑यम् ॥ 41 ॥ अनुवाकं 8 - होतृमन्त्राणां सोमयागाङ्गत्वम् ऋ॒जु॒धैवैन॑म॒मुं-लोँ॒क-ङ्ग॑मयति । चतु॑र्होत्रा ऽऽति॒त्थ्यम् । यशो॒ वै चतु॑र्होता । यश॑ ए॒वात्मन्-ध॑त्ते । पञ्च॑होत्रा प॒शुमुप॑ सादयति । सु॒व॒र्ग्यो॑ वै पञ्च॑होता । यज॑मानः प॒शुः । यज॑मानमे॒व सु॑व॒र्गं-लोँ॒क-ङ्ग॑मयति । ग्रहा᳚न्-गृही॒त्वा स॒प्तहो॑तार-ञ्जुहोति । इ॒न्द्रि॒यं-वैँ स॒प्तहो॑ता ॥ 43 ॥ इ॒न्द्रि॒यमे॒वात्मन्-ध॑त्ते ॥ यो वै चतु॑र्होतॄ-ननुसव॒न-न्त॒र्पय॑ति । तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑नग्ं सोमपी॒थो न॑मति । ब॒हि॒ष्पव॒मा॒ने दश॑होतारं॒-व्याँच॑क्षीत । माद्ध्य॑न्दिने॒ पव॑माने॒ चतु॑र्होतारम् । आर्भ॑वे॒ पव॑माने॒ पञ्च॑होतारम् । पि॒तृ॒य॒ज्ञे षड्ढो॑तारम् । य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स॒प्तहो॑तारम् । अ॒नु॒स॒व॒नमे॒वैनाग्॑ स्तर्पयति ॥ 44 ॥ तृप्य॑ति प्र॒जया॑ प॒शुभिः॑ । उपै॑नग्ं सोमपी॒थो न॑मति ॥ दे॒वा वै चतु॑र्होतृभि-स्स॒त्रमा॑सत । ऋद्धि॑परिमितं॒-यँश॑स्कामाः । ते᳚-ऽब्रुवन्न् । यन्नः॑ प्रथ॒मं-यँश॑ ऋ॒च्छात् । सर्वे॑षा-न्न॒स्त-थ्स॒हास॒दिति॑ । सोम॒श्चतु॑र्होत्रा । अ॒ग्निः पञ्च॑होत्रा । धा॒ता षड्ढो᳚त्रा ॥ 45 ॥ इन्द्र॑-स्स॒प्तहो᳚त्रा । प्र॒जाप॑ति॒-र्दश॑होत्रा । तेषा॒ग्ं॒ सोम॒ग्ं॒ राजा॑नं॒-यँश॑ आर्च्छत् ॥ तन्न्य॑कामयत । तेनापा᳚क्रामत् । तेन॑ प्र॒लाय॑मचरत् । त-न्दे॒वाः प्रै॒षैः प्रैष॑मैच्छन्न् । तत्-प्रै॒षाणा᳚-म्प्रैष॒त्वम् । नि॒विद्भि॒र्न्य॑वेदयन्न् । तन्नि॒विदा᳚-न्निवि॒त्त्वम् ॥ 46 ॥ आ॒प्रीभि॑राप्नुवन्न् । तदा॒प्रीणा॑माप्रि॒त्वम् । तम॑घ्नन्न् । तस्य॒ यशो॒ व्य॑गृह्णत । ते ग्रहा॑ अभवन्न् । तद्ग्रहा॑णा-ङ्ग्रह॒त्वम् । यस्यै॒वं-विँ॒दुषो॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । तस्य॒ त्वे॑व गृ॑ही॒ताः ॥ ते᳚-ऽब्रुवन्न् । यो वै न॒-श्श्रेष्ठो-ऽभू᳚त् ॥ 47 ॥ तम॑वधिष्म । पुन॑रि॒मग्ं सु॑वामहा॒ इति॑ । त-ञ्छन्दो॑भि-रसुवन्त । तच्छन्द॑सा-ञ्छन्द॒स्त्वम् । साम्ना॒ समान॑यन्न् । त-थ्साम्न॑-स्साम॒त्वम् । उ॒क्थै-रुद॑स्थापयन्न् । तदु॒क्थाना॑-मुक्थ॒त्वम् । य ए॒वं-वेँद॑ । प्रत्ये॒व ति॑ष्ठति ॥ 48 ॥ सर्व॒मायु॑रेति ॥ सोमो॒ वै यशः॑ । य ए॒वं-विँ॒द्वान्-थ्सोम॑मा॒गच्छ॑ति । यश॑ ए॒वैन॑मृच्छति । तस्मा॑दाहुः । यश्चै॒वं-वेँद॒ यश्च॒ न । तावु॒भौ सोम॒-माग॑च्छतः । सोमो॒ हि यशः॑ । त-न्त्वा-ऽव यश॑ ऋच्छ॒तीत्या॑हुः । य-स्सोमे॒ सोम॒-म्प्राहेति॑ । तस्मा॒-थ्सोमे॒ सोमः॒ प्रोच्यः॑ । यश॑ ए॒वैन॑मृच्छति ॥ 49 ॥ अनुवाकं 9 - होतृमन्त्रोत्पत्तिकथनप्रसङ्गेन जग-थ्सृष्टिः तस्मा᳚त्-तेपा॒नाज्ज्योति॑-रजायत । त-द्भूयो॑-ऽतप्यत । तस्मा᳚त्-तेपा॒नाद॒र्चि-र॑जायत । त-द्भूयो॑-ऽतप्यत । तस्मा᳚त्-तेपा॒नान्मरी॑चयो-ऽजायन्त । त-द्भूयो॑-ऽतप्यत । तस्मा᳚त्-तेपा॒नादु॑दा॒रा अ॑जायन्त । त-द्भूयो॑-ऽतप्यत । तद॒भ्रमि॑व॒ सम॑हन्यत ॥ त-द्व॒स्तिम॑भिनत् ॥ 51 ॥ स स॑मु॒द्रो॑-ऽभवत् । तस्मा᳚-थ्समु॒द्रस्य॒ न पि॑बन्ति । प्र॒जन॑नमिव॒ हि मन्य॑न्ते । तस्मा᳚-त्प॒शो-र्जाय॑माना॒दापः॑ पु॒रस्ता᳚-द्यन्ति ॥ त-द्दश॑हो॒ता-ऽन्व॑सृज्यत । प्र॒जाप॑ति॒र्वै दश॑ होता ॥ य ए॒व-न्तप॑सो वी॒र्यं॑-विँ॒द्वाग्स्तप्य॑ते । भव॑त्ये॒व ॥ तद्वा इ॒दमाप॑-स्सलि॒ल-मा॑सीत् । सो॑-ऽरोदीत्-प्र॒जाप॑तिः ॥ 52 ॥ स कस्मा॑ अज्ञि । य-द्य॒स्या अप्र॑तिष्ठाया॒ इति॑ । यद॒फ्स्व॑-वाप॑द्यत । सा पृ॑थि॒व्य॑भवत् । यद्व्यमृ॑ष्ट । तद॒न्तरि॑क्ष-मभवत् । यदू॒र्ध्व-मु॒दमृ॑ष्ट । सा द्यौर॑भवत् । यदरो॑दीत् । तद॒नयो॑ रोद॒स्त्वम् ॥ 53 ॥ य ए॒वं-वेँद॑ । नास्य॑ गृ॒हे रु॑दन्ति । ए॒तद्वा ए॒षां-लोँ॒काना॒-ञ्जन्म॑ । य ए॒वमे॒षां-लोँ॒काना॒-ञ्जन्म॒ वेद॑ । नैषु लो॒के-ष्वार्ति॒मार्च्छ॑ति । स इ॒मा-म्प्र॑ति॒ष्ठा-म॑विन्दत ॥ स इ॒मा-म्प्र॑ति॒ष्ठां-विँ॒त्त्वा ऽका॑मयत॒ प्रजा॑ये॒येति॑ । स तपो॑-ऽतप्यत । सो᳚-ऽन्तर्वा॑नभवत् । स ज॒घना॒दसु॑रा-नसृजत ॥ 54 ॥ तेभ्यो॑ मृ॒न्मये॒ पात्रे-ऽन्न॑मदुहत् । या-ऽस्य॒ सा त॒नूरासी᳚त् । तामपा॑हत । सा तमि॑स्रा-ऽभवत् ॥ सो॑-ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑-ऽतप्यत । सो᳚-ऽन्तर्वा॑-नभवत् । स प्र॒जन॑नादे॒व प्र॒जा अ॑सृजत । तस्मा॑दि॒मा भूयि॑ष्ठाः । प्र॒जन॑ना॒द्ध्ये॑ना॒ असृ॑जत ॥ 55 ॥ ताभ्यो॑ दारु॒मये॒ पात्रे॒ पयो॑-ऽदुहत । या-ऽस्य॒ सा त॒नूरासी᳚त् । तामपा॑हत । सा जोथ्स्ना॑ ऽभवत् ॥ सो॑-ऽकामयत॒ प्रजा॑ये॒येति॑ । सतपो॑-ऽतप्यत । सो᳚-ऽन्तर्वा॑-नभवत् । स उ॑पप॒क्षाभ्या॑-मे॒वर्तून॑सृजत । तेभ्यो॑ रज॒ते पात्रे॑ घृ॒तम॑दुहत् । या-ऽस्य॒ सा त॒नूरासी᳚त् ॥ 56 ॥ तामपा॑हत । सो॑-ऽहोरा॒त्रयो᳚-स्स॒न्धि-र॑भवत् ॥ सो॑-ऽकामयत॒ प्रजा॑ये॒येति॑ । स तपो॑-ऽतप्यत । सो᳚-ऽन्तर्वा॑-नभवत् । स मुखा᳚-द्दे॒वा-न॑सृजत । तेभ्यो॒ हरि॑ते॒ पात्रे॒ सोम॑मदुहत् । या-ऽस्य॒ सा त॒नूरासी᳚त् । तामपा॑हत । तदह॑रभवत् ॥ 57 ॥ ए॒ते वै प्र॒जाप॑ते॒र्दोहाः᳚ । य ए॒वं-वेँद॑ । दु॒ह ए॒व प्र॒जाः ॥ दिवा॒ वै नो॑-ऽभू॒दिति॑ । त-द्दे॒वाना᳚-न्देव॒त्वम् । य ए॒व-न्दे॒वाना᳚-न्देव॒त्वं-वेँद॑ । दे॒ववा॑ने॒व भ॑वति ॥ ए॒तद्वा अ॑होरा॒त्राणा॒-ञ्जन्म॑ । य ए॒वम॑होरा॒त्राणा॒-ञ्जन्म॒ वेद॑ । नाहो॑रा॒त्रेष्वार्ति॒मार्च्छ॑ति ॥ 58 ॥ अस॒तो-ऽधि॒ मनो॑-ऽसृज्यत । मनः॑ प्र॒जाप॑ति-मसृजत । प्र॒जाप॑तिः प्र॒जा अ॑सृजत । तद्वा इ॒द-म्मन॑स्ये॒व प॑र॒म-म्प्रति॑ष्ठितम् । यदि॒द-ङ्किञ्च॑ । तदे॒तच्छ्वो॑वस्य॒ सन्नाम॒ ब्रह्म॑ ॥ व्यु॒च्छन्ती᳚ व्युच्छन्त्यस्मै॒ वस्य॑सी वस्यसी॒ व्यु॑च्छति । प्रजा॑यते प्र॒जया॑ प॒शुभिः॑ । प्र प॑रमे॒ष्ठिनो॒ मात्रा॑-माप्नोति । य ए॒वं-वेँद॑ ॥ 59 ॥ (इ॒द-न्धू॒मो᳚ ऽग्नि-र्ज्योति॑ र॒र्चि-र्मरी॑चय उदा॒रा स्तद॒भ्रग्ं / अनुवाकं 10 - देवसृष्टिमध्ये-ऽवस्थितस्येन्द्रस्य देवताधिपतित्वम् यद॒स्मिन्ना॑दि॒त्ये । तदे॑नमब्रवीत् । ए॒तन्मे॒ प्रय॑च्छ । अथा॒हमे॒तेषा᳚-न्दे॒वाना॒-मधि॑पति-र्भविष्या॒मीति॑ । को॑हग्ग्-स्या॒मित्य॑ब्रवीत् । ए॒त-त्प्र॒दायेति॑ । ए॒त-थ्स्या॒ इत्य॑ब्रवीत् । यदे॒तद्ब्रवी॒षीति॑ । को ह॒ वै नाम॑ प्र॒जाप॑तिः । य ए॒वं-वेँद॑ ॥ 61 ॥ वि॒दुरे॑न॒-न्नाम्ना᳚ । तद॑स्मै रु॒क्म-ङ्कृ॒त्वा प्रत्य॑मुञ्चत् । ततो॒ वा इन्द्रो॑ दे॒वाना॒-मधि॑पति-रभवत् । य ए॒वं-वेँद॑ । अधि॑पतिरे॒व स॑मा॒नाना᳚-म्भवति ॥ सो॑-ऽमन्यत । कि-ङ्किं॒-वाँ अ॑कर॒मिति॑ । स च॒न्द्र-म्म॒ आह॒रेति॒ प्राल॑पत् । तच्च॒न्द्रम॑स-श्चन्द्रम॒स्त्वम् । य ए॒वं-वेँद॑ ॥ 62 ॥ च॒न्द्रवा॑ने॒व भ॑वति ॥ त-न्दे॒वा अ॑ब्रुवन्न् । सु॒वीर्यो॑ ऽमर्या॒ यथा॑ गोपा॒यत॒ इति॑ । त-थ्सूर्य॑स्य सूर्य॒त्वम् । य ए॒वं-वेँद॑ । नैन॑-न्दभ्नोति ॥ कश्च॒ नास्मि॒न्वा इ॒दमि॑न्द्रि॒य-म्प्रत्य॑स्था॒दिति॑ । तदिन्द्र॑-स्येन्द्र॒त्वम् । य ए॒वं-वेँद॑ । इ॒न्द्रि॒या॒व्ये॑व भ॑वति ॥ 63 ॥ अ॒यं-वाँ इ॒द-म्प॑र॒मो॑-ऽभू॒दिति॑ । तत्-प॑रमे॒ष्ठिनः॑ परमेष्ठि॒त्वम् । य ए॒वं-वेँद॑ । प॒र॒मामे॒व काष्ठा᳚-ङ्गच्छति ॥ त-न्दे॒वा-स्स॑म॒न्त-म्पर्य॑विशन्न् । वस॑वः पु॒रस्ता᳚त् । रु॒द्रा द॑क्षिण॒तः । आ॒दि॒त्याः प॒श्चात् । विश्वे॑ दे॒वा उ॑त्तर॒तः । अङ्गि॑रसः प्र॒त्यञ्च᳚म् ॥ 64 ॥ सा॒द्ध्याः परा᳚ञ्चम् । य ए॒वं-वेँद॑ । उपै॑नग्ं समा॒ना-स्सं-विँ॑शन्ति ॥ स प्र॒जाप॑तिरे॒व भू॒त्वा प्र॒जा आव॑यत् । ता अ॑स्मै॒ नाति॑ष्ठन्ता॒न्नाद्या॑य । ता मुख॑-म्पु॒रस्ता॒त्-पश्य॑न्तीः । द॒क्षि॒ण॒तः पर्या॑यन्न् । स द॑क्षिण॒तः पर्य॑वर्तयत । ता मुख॑-म्पु॒रस्ता॒त्-पश्य॑न्तीः । मुख॑-न्दक्षिण॒तः ॥ 65 ॥ प॒श्चात्-पर्या॑यन्न् । स प॒श्चात्-पर्य॑वर्तयत । ता मुख॑-म्पु॒रस्ता॒त्-पश्य॑न्तीः । मुख॑-न्दक्षिण॒तः । मुख॑-म्प॒श्चात् । उ॒त्त॒र॒तः पर्या॑यन्न् । स उ॑त्तर॒तः पर्य॑वर्तयत । ता मुख॑-म्पु॒रस्ता॒त्-पश्य॑न्तीः । मुख॑-न्दक्षिण॒तः । मुख॑-म्प॒श्चात् ॥ 66 ॥ मुख॑मुत्तर॒तः । ऊ॒र्ध्वा उदा॑यन्न् । स उ॒परि॑ष्टा॒न्न्य॑-वर्तयत । ता-स्स॒र्वतो॑मुखो भू॒त्वा ऽऽव॑यत् । ततो॒ वै तस्मै᳚ प्र॒जा अति॑ष्ठन्ता॒न्नाद्या॑य ॥ य ए॒वं-विँ॒द्वा-न्परि॑ च व॒र्तय॑ते॒ नि च॑ । प्र॒जाप॑तिरे॒व भु॒त्वा प्र॒जा अ॑त्ति । तिष्ठ॑न्ते-ऽस्मै प्र॒जा अ॒न्नाद्या॑य । अ॒न्ना॒द ए॒व भ॑वति ॥ 67 ॥ अनुवाकं 11 - होतृमन्त्राणा-म्पुरुषार्थप्रयोगः तस्य॒ प्रयु॒क्तीन्द्रो॑ ऽजायत । यः का॒मये॑त वी॒रो म॒ आजा॑ये॒तेति॑ । स चतु॑र्होतार॒-म्प्रयु॑ञ्जीत । आ-ऽस्य॑ वी॒रो जा॑यते ॥ सो॑-ऽकामयत पशु॒मान्-थ्स्या॒मिति॑ । स चतु॑र्होतुः॒ पञ्च॑होतार॒-न्निर॑मिमीत । त-म्प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति पशु॒मान॑भवत् । यः का॒मये॑त पशु॒मान्-थ्स्या॒मिति॑ । स पञ्च॑होतार॒-म्प्रयु॑ञ्जीत ॥ 69 ॥ प॒शु॒माने॒व भ॑वति ॥ सो॑-ऽकामयत॒र्तवो॑ मे कल्पेर॒न्निति॑ । स पञ्च॑होतु॒-ष्षड्ढो॑तार॒-न्निर॑मिमीत । त-म्प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्त्यृ॒तवो᳚-ऽस्मा अकल्पन्त । यः का॒मये॑त॒र्तवो॑ मे कल्पेर॒न्निति॑ । स षड्ढो॑तार॒-म्प्रयु॑ञ्जीत । कल्प॑न्ते-ऽस्मा ऋ॒तवः॑ ॥ सो॑-ऽकामयत सोम॒प-स्सो॑मया॒जी स्या᳚म् । आ मे॑ सोम॒प-स्सो॑मया॒जी जा॑ये॒तेति॑ ॥ 70 ॥ स षड्ढो॑तु-स्स॒प्तहो॑तार॒-न्निर॑मिमीत । त-म्प्रायु॑ङ्क्त । तस्य॒ प्रयु॑क्ति सोम॒प-स्सो॑मया॒ज्य॑भवत् । आ-ऽस्य॑ सोम॒प-स्सो॑मया॒ज्य॑जायत । यः का॒मये॑त सोम॒प-स्सो॑मया॒जी स्या᳚म् । आ मे॑ सोम॒प-स्सो॑मया॒जी जा॑ये॒तेति॑ । स स॒प्तहो॑तार॒-म्प्रयु॑ञ्जीत । सो॒म॒प ए॒व सो॑मया॒जी भ॑वति । आ-ऽस्य॑ सोम॒प-स्सो॑मया॒जी जा॑यते ॥ स वा ए॒ष प॒शुः प॑ञ्च॒धा प्रति॑ तिष्ठति ॥ 71 ॥ प॒द्भिर्मुखे॑न ॥ ते दे॒वाः प॒शून्. वि॒त्त्वा । सु॒व॒र्गं-लोँ॒कमा॑यन्न् ॥ ते॑-ऽमुष्मि॑ल् ँलो॒के व्य॑क्षुद्ध्यन्न् । ते᳚-ऽब्रुवन्न् । अ॒मुतः॑ प्रदानं॒-वाँ उप॑जिजीवि॒मेति॑ । ते स॒प्तहो॑तारं-यँ॒ज्ञं-विँ॒धाया॒यास्य᳚म् । आ॒ङ्गी॒र॒स-म्प्राहि॑ण्वन्न् । ए॒तेना॒मुत्र॑ कल्प॒येति॑ । तस्य॒ वा इ॒य-ङ्क्लृप्तिः॑ ॥ 72 ॥ यदि॒द-ङ्किञ्च॑ । य ए॒वं-वेँद॑ । कल्प॑ते-ऽस्मै । स वा अ॒य-म्म॑नु॒ष्ये॑षु य॒ज्ञ-स्स॒प्तहो॑ता । अ॒मुत्र॑ स॒द्भ्यो दे॒वेभ्यो॑ ह॒व्यं-वँ॑हति । य ए॒वं-वेँद॑ । उपै॑नं-यँ॒ज्ञो न॑मति ॥ यो वै चतु॑र्होतृणा-न्नि॒दानं॒-वेँद॑ । नि॒दान॑वा-न्भवति । अ॒ग्नि॒हो॒त्रं-वैँ दश॑होतुर्नि॒दान᳚म् । द॒र्॒श॒पू॒र्ण॒मा॒सौ चतु॑र्होतुः । चा॒तु॒र्मा॒स्यानि॒ पञ्च॑ होतुः । प॒शु॒ब॒न्ध-ष्षड्ढो॑तुः । सौ॒म्यो᳚-ऽद्ध्व॒र-स्स॒प्तहो॑तुः । ए॒तद्वै चतु॑र्होतृणा-न्नि॒दान᳚म् । य ए॒वं-वेँद॑ । नि॒दान॑वा-न्भवति ॥ 73 ॥ (प्र॒जाप॑तिरकामयत प्र॒जा-स्सृ॑जे॒येति॑ - प्र॒जाप॑तिरकामयत दर्शपूर्णमा॒सौ सृ॑जे॒येति॑ - प्र॒जाप॑तिरकामयत॒ प्रजा॑ये॒येति॒ स तप॒-स्स त्रि॒वृतं॑ - प्र॒जाप॑तिरकामयत॒ दश॑होतार॒-न्तेन॑ दश॒धा-ऽऽत्मानं॑ - दे॒वा वै वरु॑ण॒ - मन्तो॒ वै - प्र॒जाप॑ति॒स्ता-स्सृ॒ष्टा-स्सम॑श्लिष्यन् - दे॒वा वै चतु॑र्होतृभि - रि॒दं-वाँ अग्रे᳚ - प्र॒जाप॑ति॒रिन्द्रं॑ - प्र॒जाप॑तिरकामयत ब॒होर्भूया॒नेका॑दश) (प्र॒जाप॑ति॒ - स्तद्ग्रह॑स्य - प्र॒जा॑पतिरकामयता॒ - नयै॒वैन॒त् - तस्य॒ वा इ॒य-ङ्क्लृप्ति॒ - स्तस्मा᳚-त्तेपा॒नाज्ज्योति॒--र् यद॒स्मिन्ना॑दि॒त्ये -सषड्ढो॑तु-स्स॒प्तहो॑तार॒-न्त्रिस॑प्ततिः) (प्र॒जाप॑तिरकामयत - नि॒दान॑वान्भवति) ॥ हरिः॑ ओम् ॥ ॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे द्वितीयाष्टके द्वितीयः प्रपाठक-स्समाप्तः ॥
|