View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.2 - दशपूर्णमासेष्टिब्राह्मणम् - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - तृतीयस्यामितो दिवि

कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके द्वितीयः प्रपाठकः - दशपूर्णमासेष्टिब्राह्मणम्

ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥

अनुवाकं 1 - वथ्सापाकरणम्

तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् । त-ङ्गा॑य॒त्र्याह॑रत् ।
तस्य॑ प॒र्णम॑च्छिद्यत । त-त्प॒र्णो॑-ऽभवत् । त-त्प॒र्णस्य॑ पर्ण॒त्वम् । ब्रह्म॒ वै प॒र्णः । य-त्प॑र्णशा॒खया॑ व॒थ्सान॑पाक॒रोति॑ ।
ब्रह्म॑णै॒वैना॑न॒पाक॑रोति ॥ गा॒य॒त्रो वै प॒र्णः । गा॒य॒त्राः प॒शवः॑ ॥ 1 ॥

तस्मा॒-त्त्रीणि॑त्रीणि प॒र्णस्य॑ पला॒शानि॑ । त्रि॒पदा॑ गाय॒त्री । य-त्प॑र्णश॒खया॒ गाः प्रा॒र्पय॑ति । स्वयै॒वैना॑ दे॒वत॑या॒ प्रार्प॑यति । य-ङ्का॒मये॑ता प॒शु-स्स्या॒दिति॑ । अ॒प॒र्णा-न्तस्मै॒ शुष्का᳚ग्रा॒माह॑रेत् ।
अ॒प॒शुरे॒व भ॑वति । य-ङ्का॒मये॑त पशु॒मान्-थ्स्या॒दिति॑ । ब॒हु॒प॒र्णा-न्तस्मै॑ बहुशा॒खामाह॑रेत् । प॒शु॒मन्त॑-मे॒वैन॑-ङ्करोति ॥ 2 ॥

य-त्प्राची॑मा॒हरे᳚त् । दे॒व॒लो॒क-म॒भिज॑येत् । यदुदी॑ची-म्मनुष्यलो॒कम् । प्राची॒मुदी॑ची॒माह॑रति । उ॒भयो᳚-र्लो॒कयो॑-र॒भिजि॑त्यै ॥ इ॒षे त्वो॒र्जे त्वेत्या॑ह । इष॑मे॒वोर्जं॒-यँज॑माने दधाति ॥
वा॒यव॒-स्स्थेत्या॑ह । वा॒युर्वा अ॒न्तरि॑क्ष॒-स्याद्ध्य॑क्षाः ।
अ॒न्त॒रि॒क्ष॒दे॒व॒त्याः᳚ खलु॒ वै प॒शवः॑ ॥ 3 ॥

वा॒यव॑ ए॒वैना॒-न्परि॑ ददाति । प्र वा ए॑नाने॒तदा-क॑रोति । यदाह॑ । वा॒यव॒-स्स्थेत्यु॑पा॒यवः॒
स्थेत्या॑ह । यज॑मानायै॒व प॒शूनुप॑ह्वयते ॥
दे॒वो व॑-स्सवि॒ता प्रार्प॑य॒त्वित्या॑ह॒ प्रसू᳚त्यै ॥ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ इत्या॑ह ।
य॒ज्ञो हि श्रेष्ठ॑तम॒-ङ्कर्म॑ । तस्मा॑दे॒वमा॑ह ॥
आप्या॑यद्ध्वमघ्निया देवभा॒गमित्या॑ह ॥ 4 ॥

व॒थ्सेभ्य॑श्च॒ वा ए॒ताः पु॒रा म॑नु॒ष्ये᳚भ्य॒-श्चाप्या॑यन्त । दे॒वेभ्य॑ ए॒वैना॒ इन्द्रा॒याप्या॑यति ॥ ऊर्ज॑स्वतीः॒ पय॑स्वती॒रित्या॑ह । ऊर्ज॒ग्ं ॒हि पय॑-स्स॒म्भर॑न्ति ॥ प्र॒जाव॑ती-रनमी॒वा अ॑य॒क्ष्मा इत्या॑ह॒ प्रजा᳚त्यै । माव॑-स्स्ते॒न ई॑शत॒ मा-ऽघशग्ं॑स॒ इत्या॑ह॒ गुप्त्यै᳚ ॥ रु॒द्रस्य॑ हे॒तिः परि॑ वो वृण॒क्त्वित्या॑ह । रु॒द्रा दे॒वैना᳚-स्त्रायते ॥
ध्रु॒वा अ॒स्मि-न्गोप॑तौ स्यात ब॒ह्वीरित्या॑ह ।
ध्रु॒वा ए॒वास्मि॑-न्ब॒ह्वीः क॑रोति ॥ 5 ॥

यज॑मानस्य प॒शू-न्पा॒हीत्या॑ह । प॒शु॒ना-ङ्गो॑पी॒थाय॑ । तस्मा᳚थ्सा॒य-म्प॒शव॒ उप॑ स॒माव॑र्तन्ते ॥ अन॑ध-स्सादयति । गर्भा॑णा॒-न्धृत्या॒ अप्र॑पादाय । तस्मा॒द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः ।
उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 6 ॥
(प॒शवः॑ - करोति - प॒शवो॑ - देवभा॒गमित्या॑ह - करोति॒ - +नव॑ च) (अ. 1)

अनुवाकं 2 - बर्​हिराहरणम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य॑श्वप॒र्॒शुमाद॑त्ते॒ प्रसू᳚त्यै ।
अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ॥ यो वा ओष॑धीः पर्व॒शो वेद॑ । नैना॒-स्स हि॑नस्ति । प्र॒जाप॑ति॒र्वा ओष॑धीः पर्व॒शो वे॑द । स ए॑ना॒ न हि॑नस्ति । अ॒श्व॒प॒र्​श्वा ब॒र्॒हिरच्छै॑ति ।
प्रा॒जा॒प॒त्यो वा अश्व॑-स्सयोनि॒त्वाय॑ ॥ 7 ॥

ओष॑धीना॒महिग्ं॑सायै ॥
य॒ज्ञस्य॑ घो॒षद॒सीत्या॑ह ।
यज॑मान ए॒व र॒यि-न्द॑धाति । प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒-मप॑हत्यै ॥ प्रेयम॑गाद्धि॒षणा॑ ब॒र्॒हिरच्छेत्या॑ह । वि॒द्या वै धि॒षणा᳚ । वि॒द्ययै॒वैन॒दच्छै॑ति ॥ मनु॑ना कृ॒ता स्व॒धया॒ वित॒ष्टेत्या॑ह । मा॒न॒वी हि पर्​शु॑-स्स्व॒धाकृ॑ता ॥ 8 ॥

त आव॑हन्ति क॒वयः॑ पु॒रस्ता॒दित्या॑ह । शु॒श्रु॒वाग्ंसो॒ वै क॒वयः॑ । य॒ज्ञः पु॒रस्ता᳚त् । मु॒ख॒त ए॒व य॒ज्ञमार॑भते । अथो॒ यदे॒तदु॒क्त्वा यतः॒ कुत॑श्चा॒हर॑ति । त-त्प्राच्या॑ ए॒व दि॒शो भ॑वति ॥
दे॒वेभ्यो॒ जुष्ट॑मि॒ह ब॒र्॒हिरा॒सद॒ इत्या॑ह । ब॒र्॒हिष॒-स्समृ॑द्ध्यै । कर्म॒णो-ऽन॑पराधाय ॥ दे॒वाना᳚-म्परिषू॒तम॒सीत्या॑ह ॥ 9 ॥

यद्वा इ॒द-ङ्कि-ञ्च॑ । त-द्दे॒वाना᳚-म्परिषू॒तम् ।
अथो॒ यथा॒ वस्य॑से प्रति॒ प्रोच्याहे॒द-ङ्क॑रिष्या॒मीति॑ । ए॒वमे॒व तद॑द्ध्व॒र्यु-र्दे॒वेभ्यः॑ प्रति॒ प्रोच्य॑ ब॒र्॒हिर्दा॑ति । आ॒त्मनो-ऽहिग्ं॑सायै ॥ याव॑त-स्स्त॒म्बा-न्प॑रि दि॒शेत् । यत्तेषा॑-मुच्छि॒ग्ग्॒ष्यात् । अति॒ त-द्य॒ज्ञस्य॑ रेचयेत् । एकग्ग्॑ स्त॒म्ब-म्परि॑दिशेत् ।
तग्ं सर्व॑-न्दायात् ॥ 10 ॥

य॒ज्ञस्यान॑तिरेकाय ॥ व॒र्॒षवृ॑द्ध-म॒सीत्या॑ह ।
व॒र्॒ष वृ॑द्धा॒ वा ओष॑धयः ॥
देव॑ बर्​हि॒रित्या॑ह । दे॒वेभ्य॑ ए॒वैन॑-त्करोति ।
मा त्वा॒-ऽन्वम्मा ति॒र्यगित्या॒हा हिग्ं॑सायै ।
पर्व॑ ते राद्ध्यास॒मित्या॒-हर्ध्यै᳚ ॥
आ॒च्छे॒त्ता ते॒ मा रि॑ष॒मित्या॑ह । नास्या॒त्मनो॑ मीयते ।
य ए॒वं-वेँद॑ ॥ 11 ॥

देव॑बर्​हि-श्श॒तव॑ल्​शं॒-विँरो॒हेत्या॑ह । प्र॒जा वै ब॒र्॒हिः । प्र॒जाना᳚-म्प्र॒जन॑नाय ॥ स॒हस्र॑वल्​शा॒ वि व॒यग्ं रु॑हे॒मेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ पृ॒थि॒व्या-स्स॒पृञ्चः॑ पा॒हीत्या॑ह॒ प्रति॑ष्ठित्यै ॥
अयु॑ङ्गायुङ्गा-न्मु॒ष्टीन् ँलु॑नोति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै ॥ सु॒स॒भृन्ता᳚ त्वा॒ सम्भ॑रा॒मीत्या॑ह । ब्रह्म॑णै॒वैन॒थ्- सम्भ॑रति ॥ 12 ॥

अदि॑त्यै॒ रास्ना॒-ऽसीत्या॑ह । इ॒यं-वाँ अदि॑तिः ।
अ॒स्या ए॒वैन॒-द्रास्ना᳚-ङ्करोति ॥ इ॒न्द्रा॒ण्यै स॒नंह॑न॒मित्या॑ह । इ॒न्द्रा॒णी वा अग्रे॑ दे॒वता॑ना॒ग्ं॒ सम॑नह्यत । सा ऽऽर्ध्नो᳚त् ।
ऋद्ध्यै॒ सन्न॑ह्यति । प्र॒जा वै ब॒र्॒हिः ।
प्र॒जाना॒मप॑रावापाय ।
तस्मा॒-थ्स्नाव॑सन्तताः प्र॒जा जा॑यन्ते ॥ 13 ॥

पू॒षा ते᳚ ग्र॒न्थि-ङ्ग्र॑थ्ना॒त्वित्या॑ह ।
पुष्टि॑मे॒व यज॑माने दधाति ॥ स ते॒ मा-ऽऽ स्था॒दित्या॒हाहिग्ं॑सायै ॥ प॒श्चा-त्प्राञ्च॒मुप॑गूहति ।
प॒श्चा-द्वै प्रा॒चीन॒ग्ं॒ रेतो॑ धीयते ।
प॒श्चादे॒वास्मै᳚ प्रा॒चीन॒ग्ं॒ रेतो॑ दधाति ॥
इन्द्र॑स्य त्वा बा॒हुभ्या॒-मुद्य॑च्छ॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥
बृह॒स्पते᳚र्मू॒र्ध्ना ह॑रा॒मीत्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पतिः॑ ॥ 14 ॥

ब्रह्म॑णै॒वैन॑द्धरति ॥ उ॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ गत्यै᳚ ॥ दे॒व॒ग॒म्मम॒सीत्या॑ह । दे॒वाने॒वैन॑द्गमयति ॥ अन॑ध-स्सादयति ।
गर्भा॑णा॒-न्धृत्या॒ अप्र॑पादाय । तस्मा॒-द्गर्भाः᳚ प्र॒जाना॒मप्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः ।
सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 15 ॥
(स॒यो॒नि॒त्वाय॑ - स्व॒धाकृ॑ता॒ - ऽसीत्या॑ह - दाया॒-द्- वेद॑ - भरति - जायन्ते॒ - बृह॒स्पतिः॒ - सम॑ष्ट्यै) (अ. 2)

अनुवाकं 3 - दोहनम्
पू॒र्वे॒द्युरि॒द्ध्मा ब॒र्॒हिः क॑रोति । य॒ज्ञमे॒वारभ्य॑ गृही॒त्वोप॑वसति ॥ प्र॒जाप॑ति-र्य॒ज्ञम॑सृजत । तस्यो॒खे अ॑स्रग्ंसेताम् । य॒ज्ञो वै प्र॒जाप॑तिः ।
य-थ्सा᳚न्नाय्यो॒खे भव॑तः ।
य॒ज्ञस्यै॒व तदु॒खे उप॑दधा॒त्य-प्र॑स्रग्ंसाय ॥
शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह । दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति ॥ मा॒त॒रिश्व॑नो घ॒र्मो॑-ऽसीत्या॑ह ॥ 16 ॥

अ॒न्तरि॑क्षं॒-वैँ मा॑त॒रिश्व॑नो घ॒र्मः ।
ए॒षां-लोँ॒कानां॒-विँधृ॑त्यै ॥
द्यौर॑सि पृथि॒व्य॑सीत्या॑ह । दि॒वश्च॒ ह्ये॑षा पृ॑थि॒व्याश्च॒ सम्भृ॑ता । यदु॒खा ।
तस्मा॑दे॒वमा॑ह ॥ वि॒श्वधा॑या असि पर॒मेण॒ धाम्नेत्या॑ह । वृष्टि॒र्वै वि॒श्वधा॑याः । वृष्टि॑मे॒वाव॑रुन्धे । दृग्ंह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚ ॥ 17 ॥

वसू॑ना-म्प॒वित्र॑म॒सीत्या॑ह । प्रा॒णा वै वस॑वः ।
तेषां॒-वाँ ए॒त-द्भा॑ग॒धेय᳚म् । य-त्प॒वित्र᳚म् । तेभ्य॑ ए॒वैन॑-त्करोति ॥ श॒तधा॑रग्ं स॒हस्र॑धार॒मित्या॑ह । प्रा॒णेष्वे॒वायु॑-र्दधाति सर्व॒त्वाय॑ ॥ त्रि॒वृ-त्प॑लाशशा॒खाया᳚-न्दर्भ॒मय॑-म्भवति । त्रि॒वृद्वै प्रा॒णः । त्रि॒वृत॑मे॒व प्रा॒ण-म्म॑द्ध्य॒तो यज॑माने दधाति ॥ 18 ॥

सौ॒म्यः प॒र्ण-स्स॑योनि॒त्वाय॑ । सा॒क्षा-त्प॒वित्र॑-न्द॒र्भाः । प्राख्सा॒यमधि॒ निद॑धाति । त-त्प्रा॑णापा॒नयो॑ रू॒पम् । ति॒र्यक्प्रा॒तः । त-द्दर्​श॑स्य रू॒पम् । दा॒र्​श्यग्ग्​ ह्ये॑तदहः॑ । अन्नं॒-वैँ च॒न्द्रमाः᳚ ।
अन्न॑-म्प्रा॒णाः । उ॒भय॑मे॒वोपै॒त्यजा॑मित्वाय ॥ 19 ॥

तस्मा॑द॒यग्ं स॒र्वतः॑ पवते ॥ हु॒त-स्स्तो॒को हु॒तो द्र॒फ्स इत्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषो-ऽस्क॑न्दाय ।
न हि हु॒तग्ग्​ स्वाहा॑कृत॒ग्ग्॒ स्कन्द॑ति ।
दि॒वि नाको॒ नामा॒ग्निः । तस्य॑ वि॒प्रुषो॑ भाग॒धेय᳚म् ।
अ॒ग्नये॑ बृह॒ते नाका॒येत्या॑ह ।
नाक॑मे॒वाग्नि-म्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒मित्या॑ह ।
द्यावा॑पृथि॒व्योरे॒वैन॒त्-प्रति॑ष्ठापयति ॥ 20 ॥

प॒वित्र॑व॒त्यान॑यति । अ॒पा-ञ्चै॒वौष॑धीना-ञ्च॒ रस॒ग्ं॒ सग्ंसृ॑जति । अथो॒ ओष॑धीष्वे॒व प॒शू-न्प्रति॑ष्ठापयति ॥ अ॒न्वा॒रभ्य॒ वाचं॑-यँच्छति ।
य॒ज्ञस्य॒ धृत्यै᳚ । धा॒रय॑न्नास्ते । धा॒रय॑न्त इव॒ हि दु॒हन्ति॑ । काम॑धुक्ष॒ इत्या॒हातृ॒तीय॑स्यै । त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कान्. यज॑मानो दुहे ॥ 21 ॥

अ॒मूमिति॒ नाम॑ गृह्णाति । भ॒द्रमे॒वासा॒-ङ्कर्मा॒विष्क॑रोति ॥ सा वि॒श्वायु॒-स्सा वि॒श्वव्य॑चा॒-स्सा वि॒श्वक॒र्मेत्या॑ह । इ॒यं-वैँ वि॒श्वायुः॑ ।
अ॒न्तरि॑क्षं-विँ॒श्वव्य॑चाः । अ॒सौ वि॒श्वक॑र्मा ।
इ॒माने॒वैताभि॑र्लो॒कान्. य॑थापू॒र्व-न्दु॑हे ।
अथो॒ यथा᳚ प्रदा॒त्रे पुण्य॑मा॒शास्ते᳚ । ए॒वमे॒वैना॑ ए॒तदुप॑स्तौति । तस्मा॒त्-प्रादा॒दित्यु॒न्नीय॒ वन्द॑माना उपस्तु॒वन्तः॑ प॒शू-न्दु॑हन्ति ॥ 22 ॥

ब॒हु दु॒ग्धीन्द्रा॑य दे॒वेभ्यो॑ ह॒विरिति॒ वाचं॒-विँसृ॑जते । य॒था॒ दे॒व॒तमे॒व प्रसौ॑ति ।
दैव्य॑स्य च मानु॒षस्य॑ च॒ व्यावृ॑त्त्यै ।
त्रिरा॑ह । त्रिष॑त्या॒ हि दे॒वाः । अवा॑चं-यँ॒मो-ऽन॑न्वा-र॒भ्योत्त॑राः । अप॑रिमितमे॒वाव॑रुन्धे ॥
न दा॑रुपा॒त्रेण॑ दुह्यात् । अ॒ग्नि॒वद्वै दा॑रुपा॒त्रम् ।
य-द्दा॑रुपा॒त्रेण॑ दु॒ह्यात् ॥ 23 ॥

या॒तया᳚म्ना ह॒विषा॑ यजेत । अथो॒ खल्वा॑हुः ।
पु॒रो॒डाश॑मुखानि॒ वै ह॒वीग्ंषि॑ । नेत इ॑तः पुरो॒डाशग्ं॑ ह॒विषो॒ यामो॒-ऽस्तीति॑ ।
काम॑मे॒व दा॑रुपा॒त्रेण॑ दुह्यात् ॥ शू॒द्र ए॒व न दु॑ह्यात् । अस॑तो॒ वा ए॒ष सम्भू॑तः । यच्छू॒द्रः । अह॑विरे॒व तदित्या॑हुः । यच्छू॒द्रो दोग्धीति॑ ॥ 24 ॥

अ॒ग्नि॒हो॒त्रमे॒वन दु॑ह्याच्छू॒द्रः । तद्धि नोत्-पु॒नन्ति॑ । य॒दा खलु॒ वै प॒वित्र॑म॒त्येति॑ । अथ॒ तद्ध॒विरिति॑ ॥
सम्पृ॑च्यद्ध्व-मृतावरी॒रित्या॑ह । अ॒पा-ञ्चै॒वौष॑धीना-ञ्च॒ रस॒ग्ं॒ सग्ंसृ॑जति ।
तस्मा॑द॒पा-ञ्चौष॑धीना-ञ्च॒ रस॒मुप॑ जीवामः ।
म॒न्द्रा धन॑स्य सा॒तय॒ इत्या॑ह । पुष्टि॑मे॒व यज॑माने दधाति ॥ सोमे॑न॒ त्वा-ऽऽत॑न॒च्मीन्द्रा॑य॒ दधीत्या॑ह ॥ 25 ॥

सोम॑मे॒वैन॑-त्करोति । यो वै सोम॑-म्भक्षयि॒त्वा ।
सं॒​वँ॒थ्स॒रग्ं सोम॒-न्न पिब॑ति । पु॒न॒र्भक्ष्यो᳚-ऽस्य सोमपी॒थो भ॑वति ॥
सोमः॒ खलु॒ वै सा᳚नां॒य्यम् । य ए॒वं-विँ॒द्वान्-थ्सा᳚नां॒य्य-म्पिब॑ति । अ॒पु॒न॒र्भक्ष्यो᳚-ऽस्य सोमपी॒थो भ॑वति । न मृ॒न्मये॒नापि॑दद्ध्यात् ।
य-न्मृ॒न्मये॑नापिद॒द्ध्यात् ।
पि॒तृ॒दे॒व॒त्यग्ग्॑ स्यात् ॥ 26 ॥
अ॒य॒स्पा॒त्रेण॑ वा दारुपा॒त्रेण॒ वा-ऽपि॑दधाति ।
तद्धि सदे॑वम् ॥ उ॒द॒न्वद्- भ॑वति । आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒-मप॑हत्यै ॥
अद॑स्तमसि॒ विष्ण॑वे॒ त्वेत्या॑ह । य॒ज्ञो वै विष्णुः॑ ।
य॒ज्ञायै॒वैन॒दद॑स्त-ङ्करोति । विष्णो॑ ह॒व्यग्ं र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ अन॑ध-स्सादयति । गर्भा॑णा॒-न्धृत्या॒ अप्र॑पादाय ।
तस्मा॒-द्गर्भाः᳚ प्र॒जाना॒म प्र॑पादुकाः । उ॒परी॑व॒ निद॑धाति । उ॒परी॑व॒ हि सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 27 ॥
(अ॒सीत्या॑ह॒ - धृत्यै॒ - यज॑माने दधा॒ - त्यजा॑मित्वाय - स्थापयति - दुहे - दुहन्ति - दु॒ह्या-द्- दोग्धीति॒ - दधीत्या॑ह - स्याथ् - सादयति॒ पञ्च॑ च) (अ. 3)

अनुवाकं 4 - हविर्निर्वापः
कर्म॑णे वा-न्दे॒वेभ्य॑-श्शकेय॒मित्या॑ह॒ शक्त्यै᳚ ।
य॒ज्ञस्य॒ वै सन्त॑ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ सन्ता॑यन्ते । य॒ज्ञस्य॒ विच्छि॑त्ति॒मनु॑ प्र॒जाः प॒शवो॒ यज॑मानस्य॒ विच्छि॑द्यन्ते ।
य॒ज्ञस्य॒ सन्त॑तिरसि य॒ज्ञस्य॑ त्वा॒ सन्त॑त्यै स्तृणामि॒ सन्त॑त्यै त्वा य॒ज्ञस्येत्याह॑व॒नीया॒-थ्सन्त॑नोति । यज॑मानस्य प्र॒जायै॑ पशू॒नाग्ं सन्त॑त्यै ॥ अ॒पः प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । य॒ज्ञो वा आपः॑ ॥ 28 ॥

य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति । वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति ।
आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒-मप॑हत्यै । अ॒पः प्रण॑यति । आपो॒ वै दे॒वाना᳚-म्प्रि॒य-न्धाम॑ ।
दे॒वाना॑मे॒व प्रि॒य-न्धाम॑ प्र॒णीय॒ प्रच॑रति ॥ 29 ॥

अ॒पः प्रण॑यति । आपो॒ वै सर्वा॑ दे॒वताः᳚ ।
दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ॥ वेषा॑य॒ त्वेत्या॑ह । वेषा॑य॒ ह्ये॑नदाद॒त्ते ॥ प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॒ प्रत्यु॑ष्टा॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒-मप॑हत्यै ॥ धूर॒सीत्या॑ह । ए॒ष वै धुर्यो॒-ऽग्निः । तं-यँदनु॑पस्पृश्याती॒यात् ॥ 30 ॥

अ॒द्ध्व॒र्यु-ञ्च॒ यज॑मान-ञ्च॒ प्रद॑हेत् । उ॒प॒स्पृश्यात्ये॑ति । अ॒द्ध्व॒र्योश्च॒ यज॑मानस्य॒ चाप्र॑दाहाय ॥ धूर्व॒ तं​योँ᳚-ऽस्मा-न्धूर्व॑ति॒ त-न्धू᳚र्व॒ यं-वँ॒य-न्धूर्वा॑म॒ इत्या॑ह ।
द्वौ वाव पुरु॑षौ । य-ञ्चै॒व धूर्व॑ति । यश्चै॑न॒-न्धूर्व॑ति । तावु॒भौ शु॒चा-ऽर्प॑यति ॥ त्व-न्दे॒वाना॑मसि॒ सस्नि॑तम॒-म्पप्रि॑तम॒-ञ्जुष्ट॑तमं॒-वँह्नि॑तम-न्देव॒हूत॑म॒मित्या॑ह । य॒था॒ य॒जुरे॒वै तत् ॥ 31 ॥

अह्रु॑तमसि हवि॒र्धान॒-मित्या॒हाना᳚र्त्यै ।
दृग्ंह॑स्व॒ मा ह्वा॒रित्या॑ह॒ धृत्यै᳚ ॥
मि॒त्रस्य॑ त्वा॒ चक्षु॑षा॒ प्रेक्ष॒ इत्या॑ह मित्र॒त्वाय॑ ।
मा भेर्मा सं​विँ॑क्था॒ मा त्वा॑ हिग्ंसिष॒-मित्या॒हाहिग्ं॑सायै । यद्वै कि-ञ्च॒ वातो॒ नाभि॒वाति॑ ।
त-थ्सर्वं॑-वँरुणदेव॒त्य᳚म् ॥ उ॒रु वाता॒येत्या॑ह । अवा॑रुणमे॒वैन॑-त्करोति ॥ दे॒वस्य॑ त्वा सवि॒तुः

प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै ।
अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह ॥ 32 ॥

अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ । अ॒ग्नये॒ जुष्ट॒-न्निर्व॑पा॒मीत्या॑ह । अ॒ग्नय॑ ए॒वैना॒ञ्जुष्टं॒
निर्व॑पति । त्रिर्यजु॑षा । त्रय॑ इ॒मे लो॒काः ।
ए॒षां-लोँ॒काना॒माप्त्यै᳚ । तू॒ष्णी-ञ्च॑तु॒र्थम् ।
अप॑रिमितमे॒वाव॑रुन्धे । स ए॒वमे॒वानु॑पू॒र्वग्ं ह॒वीग्ंषि॒ निर्व॑पति ॥ 33 ॥

इ॒द-न्दे॒वाना॑मि॒दमु॑ न-स्स॒हेत्या॑ह॒ व्यावृ॑त्त्यै ॥
स्फा॒त्यै त्वा॒ नारा᳚त्या॒ इत्या॑ह॒ गुप्त्यै᳚ । तम॑सीव॒ वा ए॒षो᳚-ऽन्तश्च॑रति । यः प॑री॒णहि॑ ॥ सुव॑र॒भि विख्ये॑षं-वैँश्वान॒र-ञ्ज्योति॒रित्या॑ह ।
सुव॑रे॒वाभि वि प॑श्यति वैश्वान॒र-ञ्ज्योतिः॑ ।
द्यावा॑पृथि॒वी ह॒विषि॑ गृही॒त उद॑वेपेताम् ॥
दृग्ंह॑न्ता॒-न्दुर्या॒ द्यावा॑पृथि॒व्योरित्या॑ह ।
गृ॒हाणा॒-न्द्यावा॑पृथि॒व्यो-र्धृत्यै᳚ ॥
उ॒र्व॑न्तरि॑क्ष॒-मन्वि॒हीत्या॑ह॒ गत्यै᳚ ॥
अदि॑त्यास्त्वो॒पस्थे॑ सादया॒मीत्या॑ह । इ॒यं-वाँ अदि॑तिः । अ॒स्या ए॒वैन॑दु॒पस्थे॑ सादयति ॥
अग्ने॑ ह॒व्यग्ं र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ 34 ॥
(य॒ज्ञो वा आपो॒ - धाम॑ प्र॒णीय॒ प्रच॑र - त्यती॒या - दे॒त-द्- बा॒हुभ्या॒मित्या॑ह - ह॒विग्ंषि॒ निर्व॑पति॒ - गत्यै॑ च॒त्वारि॑ च) (अ. 4)

अनुवाकं 5 - व्रीह्यवघातः
इन्द्रो॑ वृ॒त्रम॑हन्न् । सो॑-ऽपः । अ॒भ्य॑म्रियत ।
तासां॒-यँन्मेद्ध्यं॑-यँ॒ज्ञिय॒ग्ं॒ सदे॑व॒मासी᳚त् । तदपोद॑क्रामत् । ते द॒र्भा अ॑भवन्न् । य-द्द॒र्भैर॒प उ॑त्पु॒नाति॑ । या ए॒व मेद्ध्या॑ य॒ज्ञिया॒-स्सदे॑वा॒ आपः॑ । ताभि॑रे॒वैना॒ उत्पु॑नाति । द्वाभ्या॒मुत्पु॑नाति ॥ 35 ॥

द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै ॥ दे॒वो व॑-स्सवि॒तोत्-पु॑ना॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैना॒ उत्पु॑नाति । अच्छि॑द्रेण प॒वित्रे॒णेत्या॑ह । अ॒सौ वा आ॑दि॒त्यो-ऽच्छि॑द्र-म्प॒वित्र᳚म् । तेनै॒वैना॒ उत्पु॑नाति । वसो॒-स्सूर्य॑स्य र॒श्मिभि॒रित्या॑ह । प्रा॒णा वा आपः॑ । प्रा॒णा वस॑वः । प्रा॒णा र॒श्मयः॑ ॥ 36 ॥

प्रा॒णैरे॒व प्रा॒णान्-थ्सम्पृ॑णक्ति । सा॒वि॒त्रि॒यर्चा ।
स॒वि॒तृप्र॑सूत-म्मे॒ कर्मा॑स॒दिति॑ ।
स॒वि॒तृप्र॑सूतमे॒वास्य॒ कर्म॑ भवति ।
प॒च्छो गा॑यत्रि॒या त्रि॑ष्षमृद्ध॒त्वाय॑ ॥
आपो॑ देवीरग्रेपुवो अग्रेगुव॒ इत्या॑ह ।
रू॒प-मे॒वासा॑मे॒त-न्म॑हि॒मानं॒-व्याँच॑ष्टे ।
अग्र॑ इ॒मं-यँ॒ज्ञ-न्न॑य॒ताग्रे॑
य॒ज्ञप॑ति॒मित्या॑ह । अग्रे॑ ए॒व य॒ज्ञ-न्न॑यन्ति ।
अग्रे॑ य॒ज्ञप॑तिम् ॥ 37 ॥

यु॒ष्मानिन्द्रो॑ ऽवृणीत वृत्र॒तूये॑ यू॒यमिन्द्र॑मवृणीद्ध्वं-वृँत्र॒तूर्य॒ इत्या॑ह ।
वृ॒त्रग्ं ह॑ हनि॒ष्यन्निन्द्र॒ आपो॑ वव्रे ।
आपो॒ हेन्द्रं॑-वँव्रिरे । स॒ज्ञां-मे॒वासा॑मे॒त-थ्सामा॑नं॒-व्याँच॑ष्टे ॥ प्रोक्षि॑ता॒-स्स्थेत्या॑ह । तेनापः॒ प्रोक्षि॑ताः ॥ अ॒ग्नये॑ वो॒ जुष्ट॒-म्प्रोक्षा᳚-म्य॒ग्नीषोमा᳚भ्या॒-मित्या॑ह ।
य॒था॒ दे॒व॒तमे॒वैना॒-न्प्रोक्ष॑ति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः ॥ 38 ॥

अथो॒ रक्ष॑सा॒मप॑हत्यै । शुन्ध॑द्ध्वं॒
दैव्या॑य॒ कर्म॑णे देवय॒ज्याया॒ इत्या॑ह ।
दे॒व॒य॒ज्याया॑ ए॒वैना॑नि शुन्धति । त्रिः प्रोक्ष॑ति । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ । अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒-मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं-वाँ अदि॑तिः ॥ 39 ॥

अ॒स्या ए॒वैन॒-त्त्वच॑-ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ॥ पु॒रस्ता᳚-त्प्रती॒चीन॑ग्रीव॒-मुत्त॑रलो॒मोप॑स्तृणाति मेद्ध्य॒त्वाय॑ ।
तस्मा᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚-त्प्र॒जा मृ॒ग-ङ्ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ।
कृष्णो॑ रू॒प-ङ्कृ॒त्वा । य-त्कृ॑ष्णाजि॒ने ह॒विर॑द्ध्यव॒हन्ति॑ । य॒ज्ञादे॒व-त-द्य॒ज्ञ-म्प्रयु॑ङ्क्ते । ह॒विषो-ऽस्क॑न्दाय ॥ 40 ॥

अ॒धि॒षव॑णमसि वानस्प॒त्यमित्या॑ह । अ॒धि॒षव॑ण-मे॒वैन॑-त्करोति । प्रति॒ त्वा-ऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह सय॒त्वाय॑ ॥
अ॒ग्नेस्त॒नू-र॒सीत्या॑ह । अ॒ग्नेर्वा ए॒षा त॒नूः ।
यदोष॑धयः । वा॒चो वि॒सर्ज॑न॒मित्या॑ह ।
य॒दा हि प्र॒जा ओष॑धीना-म॒श्नन्ति॑ । अथ॒ वाचं॒-विँसृ॑जन्ते । दे॒ववी॑तये त्वा गृह्णा॒मीत्या॑ह ॥ 41 ॥

दे॒वता॑भिरे॒वैन॒-थ्सम॑र्धयति ॥
अद्रि॑रसि वानस्प॒त्य इत्या॑ह । ग्रावा॑ण-मे॒वैन॑-त्करोति ।
स इ॒द-न्दे॒वेभ्यो॑ ह॒व्यग्ं सु॒शमि॑ शमि॒ष्वेत्या॑ह॒ शान्त्यै᳚ ॥ हवि॑ष्कृ॒देहीत्या॑ह ।
य ए॒व दे॒वानाग्ं॑ हवि॒ष्कृतः॑ । तान्. ह्व॑यति ।
त्रिर्​ह्व॑यति । त्रिष॑त्या॒ हि दे॒वाः ॥ इष॒मा व॒दोर्ज॒मा व॒देत्या॑ह ॥ 42 ॥

इष॑मे॒वोर्जं॒-यँज॑माने दधाति ।
द्यु॒मद्व॑दत व॒यग्ं स॑घा॒न्त-ञ्जे॒ष्मेत्या॑ह॒ भ्रातृ॑व्याभिभूत्यै ॥ मनो᳚-श्श्र॒द्धादे॑वस्य॒ यज॑मानस्यासुर॒घ्नी वाक् । य॒ज्ञा॒यु॒धेषु॒ प्रवि॑ष्टा-ऽऽसीत् । ते-ऽसु॑रा॒ याव॑न्तो यज्ञायु॒धाना॑मु॒द्वद॑ता-मु॒पाशृ॑ण्वन्न् ।
ते परा॑-ऽभवन्न् । तस्मा॒-थ्स्वाना॒-म्मद्ध्ये॑-ऽव॒साय॑ यजेत । याव॑न्तो-ऽस्य॒ भ्रातृ॑व्या यज्ञायु॒धाना॑-मु॒द्वद॑ता-मुपशृ॒ण्वन्ति॑ । ते परा॑ भवन्ति ।
उ॒च्चै-स्स॒माह॑न्त॒वा आ॑ह॒ विजि॑त्यै ॥ 43 ॥

वृ॒ङ्क्त ए॑षामिन्द्रि॒यं-वीँ॒र्य᳚म् । श्रेष्ठ॑ एषा-म्भवति ॥ व॒र्॒ष वृ॑द्धमसि॒ प्रति॑ त्वा व॒र्॒षवृ॑द्धं-वेँ॒त्त्वित्या॑ह ।
व॒र्॒षवृ॑द्धा॒ वा ओष॑धयः ।
व॒र्॒षवृ॑द्धा इ॒षीका॒-स्समृ॑द्ध्यै ।
य॒ज्ञग्ं रक्षा॒ग्॒स्यनु॒ प्रावि॑शन्न् ।
तान्य॒स्ना प॒शुभ्यो॑ नि॒रवा॑दयन्त ।
तुषै॒रोष॑धीभ्यः ॥ परा॑पूत॒ग्ं॒ रक्षः॒ परा॑पूता॒ अरा॑तय॒ इत्या॑ह ।
रक्ष॑सा॒मप॑हत्यै ॥ 44 ॥

रक्ष॑सा-म्भा॒गो॑-ऽसीत्या॑ह । तुषै॑रे॒व रक्षाग्ं॑सि नि॒रव॑दयते । अ॒प उप॑स्पृशति मेद्ध्य॒त्वाय॑ । वा॒युर्वो॒ वि वि॑न॒क्त्वित्या॑ह । प॒वित्रं॒-वैँ वा॒युः । पु॒नात्ये॒वैनान्॑ । अ॒न्तरि॑क्षादिव॒ वा ए॒ते प्रस्क॑न्दन्ति । ये शूर्पा᳚त् । दे॒वो व॑-स्सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
ह॒विषो-ऽस्क॑न्दाय । त्रिष्फ॒लीक॑र्त॒वा आ॑ह । त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॑ मेद्ध्य॒त्वाय॑ ॥ 45 ॥
(द्वाभ्या॒मु-त्पु॑नाति - र॒श्मयो॑ - नय॒न्त्यग्रे॑ य॒ज्ञप॑तिं - ँय॒ज्ञो - ऽदि॑ति॒ - रस्क॑न्दाय - गृह्णा॒मीत्या॑ह - व॒देत्या॑ह॒ - विजि॑त्या॒ - अप॑हत्या॒ - अस्क॑न्दाय॒ त्रीणि॑ च) (अ. 5)

अनुवाकं 6 - तण्डुलपेषणम्
अव॑धूत॒ग्ं॒ रक्षो-ऽव॑धूता॒ अरा॑तय॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अदि॑त्या॒स्त्वग॒सीत्या॑ह । इ॒यं-वाँ अदि॑तिः । अ॒स्या ए॒वैन॒-त्त्वच॑-ङ्करोति । प्रति॑ त्वा पृथि॒वी वे॒त्त्वित्या॑ह॒ प्रति॑ष्ठित्यै ।
पु॒रस्ता᳚-त्प्रती॒चीन॑ग्रीव॒-मुत्त॑रलो॒मोप॑स्तृणाति मेद्ध्य॒त्वाय॑ । तस्मा᳚-त्पु॒रस्ता᳚-त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑तिष्ठन्ते । तस्मा᳚-त्प्र॒जा मृ॒ग-ङ्ग्राहु॑काः । य॒ज्ञो दे॒वेभ्यो॒ निला॑यत ॥ 46 ॥

कृष्णो॑ रू॒प-ङ्कृ॒त्वा । य-त्कृ॑ष्णाजि॒ने ह॒विर॑धिपि॒नष्टि॑ । य॒ज्ञादे॒व त-द्य॒ज्ञ-म्प्रयु॑ङ्क्ते । ह॒विषो-ऽस्क॑न्दाय ॥ द्यावा॑पृथि॒वी स॒हास्ता᳚म् । ते श॑म्यामा॒त्रमेक॒मह॒र्व्यैताग्ं॑ शम्यामा॒त्रमेक॒महः॑ ॥ दि॒व-स्स्क॑म्भ॒निर॑सि॒ प्रति॒ त्वा ऽदि॑त्या॒स्त्वग्वे॒त्त्वित्या॑ह ।
द्यावा॑पृथि॒व्यो-र्वीत्यै᳚ । धि॒षणा॑-ऽसि पर्व॒त्या
प्रति॑ त्वा दि॒व-स्स्क॑म्भ॒निर्वे॒त्त्वित्या॑ह ।
द्यावा॑पृथि॒व्यो-र्विधृ॑त्यै ॥ 47 ॥

धि॒षणा॑-ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒तिर्वे॒त्त्वित्या॑ह । द्यावा॑पृथि॒व्योर्धृत्यै᳚ ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ।
अधि॑वपा॒मीत्या॑ह । य॒था॒दे॒व॒त-मे॒वैना॒नधि॑ वपति ॥ धा॒न्य॑मसि धिनु॒हि दे॒वानित्या॑ह । ए॒तस्य॒ यजु॑षो वी॒र्ये॑ण ॥ 48 ॥

याव॒देका॑ दे॒वता॑ का॒मय॑ते॒ याव॒देका᳚ । ताव॒दाहु॑तिः प्रथते । न हि तदस्ति॑ । यत्ताव॑दे॒व स्यात् । याव॑ज्जु॒होति॑ ॥ प्रा॒णाय॑ त्वा-ऽपा॒नाय॒ त्वेत्या॑ह । प्रा॒णाने॒व यज॑माने दधाति । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धा॒मित्या॑ह । आयु॑रे॒वास्मि॑-न्दधाति ।
अ॒न्तरि॑क्षादिव॒ वा ए॒तानि॒ प्रस्क॑न्दन्ति । यानि॑ दृ॒षदः॑ । दे॒वो व॑-स्सवि॒ता हिर॑ण्यपाणिः॒ प्रति॑ गृह्णा॒त्वित्या॑ह॒ प्रति॑ष्ठित्यै । ह॒विषो-ऽस्क॑न्दाय ॥
असं॑​वँपन्ती पिग्ं॑षा॒णूनि॑ कुरुता॒दित्या॑ह मेद्ध्य॒त्वाय॑ ॥ 49 ॥
(निला॑यत॒ - विधृ॑त्यै - वी॒र्ये॑ण - स्कन्दन्ति च॒त्वारि॑ च ) (अ. 6)

अनुवाकं 7 - कपालोपधानम्
धृष्टि॑रसि॒ ब्रह्म॑ य॒च्छेत्या॑ह॒ धृत्यै᳚ ॥
अपा᳚ग्ने॒ ऽग्निमा॒माद॑-ञ्जहि॒ निष्क्र॒व्यादग्ं॑
से॒धा दे॑व॒यजं॑-वँ॒हेत्या॑ह ।
य ए॒वामात्क्र॒व्यात् । तम॑प॒हत्य॑ । मेद्ध्ये॒-ऽग्नौ क॒पाल॒मुप॑दधाति ॥ निर्द॑ग्ध॒ग्ं॒ रक्षो॒ निर्द॑ग्धा॒ अरा॑तय॒ इत्या॑ह । रक्षाग्॑स्ये॒व
निर्द॑हति । अ॒ग्नि॒वत्युप॑दधाति । अ॒स्मिन्ने॒व लो॒के ज्योति॑र्धत्ते । अङ्गा॑र॒मधि॑-वर्तयति ॥ 50 ॥

अ॒न्तरि॑क्ष ए॒व ज्योति॑र्धत्ते ।
आ॒दि॒त्यमे॒वामुष्मि॑न् ँलो॒के ज्योति॑र्धत्ते ।
ज्योति॑ष्मन्तो-ऽस्मा इ॒मे लो॒का भ॑वन्ति ।
य ए॒वं-वेँद॑ ॥ ध्रु॒वम॑सि पृथि॒वी-न्दृ॒ग्ं॒हेत्या॑ह । पृ॒थि॒वीमे॒वैतेन॑ दृग्ंहति ।
ध॒र्त्रम॑स्य॒न्तरि॑क्ष-न्दृ॒ग्ं॒हेत्या॑ह । अ॒न्तरि॑क्षमे॒वैतेन॑ दृग्ंहति ।
ध॒रुण॑मसि॒ दिव॑-न्दृ॒ग्ं॒हेत्या॑ह । दिव॑मे॒वैतेन॑ दृग्ंहति ॥ 51 ॥

धर्मा॑सि॒ दिशो॑ दृ॒ग्ं॒हेत्या॑ह ।
दिश॑ ए॒वैतेन॑ दृग्ंहति । इ॒माने॒वैतै-र्लो॒का-न्दृग्ं॑हति । दृग्ं ह॑न्ते-ऽस्मा इ॒मे लो॒काः प्र॒जया॑ प॒शुभिः॑ । य ए॒वं-वेँद॑ ॥ त्रीण्यग्रे॑ क॒पाला॒न्युप॑दधाति । त्रय॑ इ॒मे लो॒काः ।
ए॒षां-लोँ॒काना॒माप्त्यै᳚ ।
एक॒मग्रे॑ क॒पाल॒मुप॑दधाति ।
एकं॒-वाँ अग्रे॑ क॒पाल॒-म्पुरु॑षस्य स॒भं​वँ॑ति ॥ 52 ॥

अथ॒ द्वे । अथ॒ त्रीणि॑ । अथ॑ च॒त्वारि॑ । अथा॒ष्टौ ।
तस्मा॑द॒ष्टाक॑पाल॒-म्पुरु॑षस्य॒ शिरः॑ ।
यदे॒व-ङ्क॒पाला᳚न्युप॒ दधा॑ति । य॒ज्ञो वै प्र॒जाप॑तिः । य॒ज्ञमे॒व प्र॒जाप॑ति॒ग्ं॒ सग्ग्​स्क॑रोति ।
आ॒त्मान॑मे॒व त-थ्सग्ग्​स्क॑रोति । तग्ं सग्ग्​स्कृ॑तमा॒त्मान᳚म् ॥ 53 ॥

अ॒मुष्मि॑न् ँलो॒के-ऽनु॒परै॑ति ॥ यद॒ष्टावु॑प॒ दधा॑ति । गा॒य॒त्रि॒या त-थ्सम्मि॑तम् । यन्नव॑ । त्रि॒वृता॒ तत् । य-द्दश॑ । वि॒राजा॒ तत् । यदेका॑दश । त्रि॒ष्टुभा॒ तत् । यद्द्वाद॑श ॥ 54 ॥

जग॑त्या॒ तत् । छन्द॑-स्सम्मितानि॒ स उ॑प॒दध॑-त्क॒पाला॑नि । इ॒मान् ँलो॒कान॑नुपू॒र्व-न्दिशो॒ विधृ॑त्यै दृग्ंहति । अथायुः॑ प्रा॒णा-न्प्र॒जा-म्प॒शून्. यज॑माने दधाति । स॒जा॒तान॑स्मा अ॒भितो॑ बहु॒लान् क॑रोति ॥
चित॒-स्स्थेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥
भृगू॑णा॒मङ्गि॑रसा॒-न्तप॑सा तप्यद्ध्व॒मित्या॑ह ।
दे॒वता॑ना-मे॒वैना॑नि॒ तप॑सा तपति । तानि॒ तत॒-स्सग्ग्​स्थि॑ते । यानि॑ घ॒र्मे क॒पाला᳚न् युपचि॒न्वन्ति॑ वे॒धस॒ इति॒ चतु॑ष्पदय॒र्चा विमु॑ञ्चति । चतु॑ष्पादः प॒शवः॑ । प॒शुष्वे॒वोपरि॑ष्टा॒-त्प्रति॑तिष्ठति ॥ 55 ॥
(व॒र्त॒य॒ति॒ - दिव॑मे॒वैतेन॑ दृग्ंहति - स॒म्भव॑ति॒ - तग्ं सग्ग्​स्कृ॑तमा॒त्मानं॒ - द्वाद॑श॒ - सग्ग्​स्थि॑ते॒ त्रीणि॑ च) (अ. 7)

अनुवाकं 8 - पुरोडाशानिष्पादनम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह ।
अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् ।
पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ।
सं​वँ॑पा॒मीत्या॑ह । य॒था॒ दे॒व॒तमे॒वैना॑नि॒ सं​वँ॑पति ॥ समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धयो॒ रसे॒नेत्या॑ह । आपो॒ वा ओष॑धी-र्जिन्वन्ति । ओष॑धयो॒-ऽपो जि॑न्वन्ति ।
अ॒न्या वा ए॒तासा॑म॒न्या जि॑न्वन्ति ॥ 56 ॥

तस्मा॑दे॒वमा॑ह । सग्ं रे॒वती॒-र्जग॑तीभि॒-र्मधु॑मती॒-र्मधु॑मतीभि-स्सृज्यद्ध्व॒मित्या॑ह ।
आपो॒ वै रे॒वतीः᳚ । प॒शवो॒ जग॑तीः । ओष॑धयो॒ मधु॑मतीः । आप॒ ओष॑धीः प॒शून् । ताने॒वास्मा॑ एक॒धा स॒ग्ं॒सृज्य॑ । मधु॑मतः करोति ।
अ॒द्भ्यः परि॒ प्रजा॑ता-स्स्थ॒ सम॒द्भिः पृ॑च्यद्ध्व॒मिति॑ प॒र्याप्ला॑वयति ।
यथा॒ सुवृ॑ष्ट इ॒माम॑नु वि॒सृत्य॑ ॥ 57 ॥

आप॒ ओष॑धीर्म॒हय॑न्ति । ता॒दृगे॒व तत् ॥
जन॑यत्यै त्वा॒ सं​यौँ॒मीत्या॑ह । प्र॒जा ए॒वैतेन॑ दाधार । अ॒ग्नये᳚ त्वा॒-ऽग्नीषोमा᳚भ्या॒मित्या॑ह॒ व्यावृ॑त्त्यै । म॒खस्य॒ शिरो॒-ऽसीत्या॑ह ।
य॒ज्ञो वै म॒खः । तस्यै॒तच्छिरः॑ । य-त्पु॑रो॒डाशः॑ । तस्मा॑दे॒वमा॑ह ॥ 58 ॥

घ॒र्मो॑-ऽसि वि॒श्वायु॒रित्या॑ह । विश्व॑मे॒वायु॒-र्यज॑माने दधाति । उ॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञप॑तिः प्रथता॒मित्या॑ह । यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति । त्वच॑-ङ्गृह्णी॒ष्वेत्या॑ह ।
सर्व॑मे॒वैन॒ग्ं॒ सत॑नु-ङ्करोति । अथा॒प आ॒नीय॒ परि॑ मार्​ष्टि । मा॒ग्ं॒स ए॒व त-त्त्वच॑-न्दधाति । तस्मा᳚-त्त्व॒चा मा॒ग्ं॒स-ञ्छ॒न्नम् ॥
घ॒र्मो वा ए॒षो-ऽशा᳚न्तः ॥ 59 ॥

अ॒र्ध॒मा॒से᳚-ऽर्धमासे॒ प्रवृ॑ज्यते । य-त्पु॑रो॒डाशः॑ । स ई᳚श्व॒रो यज॑मानग्ं शु॒चा प्र॒दहः॑ । पर्य॑ग्नि करोति । प॒शुमे॒वैन॑मकः । शान्त्या॒ अप्र॑दाहाय । त्रिः पर्य॑ग्नि करोति ।
त्र्या॑वृ॒द्धि य॒ज्ञः । अथो॒ रक्ष॑सा॒मप॑हत्यै ॥
अ॒न्तरि॑त॒ग्ं॒ रक्षो॒-ऽन्तरि॑ता॒ अरा॑तय॒ इत्या॑ह ॥ 60 ॥

रक्ष॑सा-म॒न्तर्​हि॑त्यै । पु॒रो॒डाशं॒-वाँ अधि॑श्रित॒ग्ं॒ रक्षाग्॑स्यजिघाग्ंसन्न् ।
दि॒वि नाको॒ नामा॒ग्नी र॑क्षो॒हा । स ए॒वास्मा॒-द्रक्षा॒ग्॒स्यपा॑हन्न् । दे॒वस्त्वा॑ सवि॒ता श्र॑पय॒त्वित्या॑ह । स॒वि॒तृप्र॑सूत ए॒वैनग्ग्॑ श्रपयति । वर्​षि॑ष्ठे॒ अधि॒ नाक॒ इत्या॑ह । रक्ष॑सा॒मप॑हत्यै । अ॒ग्निस्ते॑ त॒नुव॒-म्मा-ऽति॑ धा॒गित्या॒हान॑तिदाहाय । अग्ने॑ ह॒व्यग्ं र॑क्ष॒स्वेत्या॑ह॒ गुप्त्यै᳚ ॥ 61 ॥
अवि॑दहन्त-श्श्रपय॒तेति॒ वाचं॒-विँसृ॑जते ।
य॒ज्ञमे॒व ह॒वीग्​ष्य॑भि-व्या॒हृत्य॒ प्रत॑नुते ।
पु॒रो॒रुच॒मवि॑दाहाय॒ शृत्यै॑ करोति ॥ म॒स्तिष्को॒ वै पु॑रो॒डाशः॑ । तं-यँन्नाभि॑वा॒सये᳚त् । आ॒विर्म॒स्तिष्क॑-स्स्यात् । अ॒भिवा॑सयति ।
तस्मा॒-द्गुहा॑ म॒स्तिष्कः॑ । भस्म॑ना॒-ऽभि वा॑सयति ।
तस्मा᳚-न्मा॒ग्ं॒सेनास्थि॑ छ॒न्नम् ॥ 62 ॥

वे॒देना॒भि वा॑सयति । तस्मा॒-त्केशै॒-श्शिर॑-श्छ॒न्नम् ।
अख॑लतिभावुको भवति । य ए॒वं-वेँद॑ ॥ प॒शोर्वै प्र॑ति॒मा पु॑रो॒डाशः॑ । स नाय॒जुष्क॑-मभि॒वास्यः॑ । वृथे॑व स्यात् । ई॒श्व॒रा यज॑मानस्य प॒शवः॒ प्रमे॑तोः ॥ स-म्ब्रह्म॑णा पृच्य॒स्वेत्या॑ह । प्रा॒णा वै ब्रह्म॑ ॥ 63 ॥

प्रा॒णाः प॒शवः॑ । प्रा॒णैरे॒व प॒शून्थ्
सम्पृ॑णक्ति । न प्र॒मायु॑का भवन्ति । यज॑मानो॒ वै पु॑रो॒डाशः॑ । प्र॒जा प॒शवः॒ पुरी॑षम् ।
यदे॒वम॑भि वा॒सय॑ति । यज॑मानमे॒व प्र॒जया॑ प॒शुभि॒-स्सम॑र्धयति ॥ दे॒वा वै ह॒वि-र्भृ॒त्वा-ऽब्रु॑वन्न् । कस्मि॑न्नि॒द-म्म्र॑क्ष्यामह॒ इति॑ ।
सो᳚-ऽग्निर॑ब्रवीत् ॥ 64 ॥

मयि॑ त॒नू-स्सन्निध॑द्ध्वम् । अ॒हं-वँ॒स्त-ञ्ज॑नयिष्यामि । यस्मि॑-न्म्र॒क्ष्यद्ध्व॒ इति॑ । ते दे॒वा अ॒ग्नौ त॒नू-स्स-न्न्य॑दधत । तस्मा॑दाहुः ।
अ॒ग्नि-स्सर्वा॑ दे॒वता॒ इति॑ । सो-ऽङ्गा॑रेणा॒पः ।
अ॒भ्य॑पातयत् । तत॑ एक॒तो॑-ऽजायत ।
स द्वि॒तीय॑म॒भ्य॑पातयत् ॥ 65 ॥

ततो᳚ द्वि॒तो॑-ऽजायत । स तृ॒तीय॑-म॒भ्य॑पातयत् ।
तत॑-स्त्रि॒तो॑-ऽजायत । यद॒द्भ्यो-ऽजा॑यन्त । तदा॒प्याना॑माप्य॒त्वम् । यदा॒त्मभ्यो ऽजा॑यन्त ।
तदा॒त्म्याना॑-मात्म्य॒त्वम् ॥ ते दे॒वा आ॒प्येष्व॑मृजत । आ॒प्या अ॑मृजत॒ सूर्या᳚भ्युदिते । सूर्या᳚भ्युदित॒-स्सूर्या॑भिनिम्रुक्ते ॥ 66 ॥

सूर्या॑भिनिम्रुक्तः कुन॒खिनि॑ । कु॒न॒खी श्या॒वद॑ति । श्या॒वद॑न्नग्रदिधि॒षौ । अ॒ग्र॒दि॒धि॒षुः प॑रिवि॒त्ते । प॒रि॒वि॒त्तो वी॑र॒हणि॑ । वी॒र॒हा ब्र॑ह्म॒हणि॑ ।
तद्ब्र॑ह्म॒हण॒-न्नात्य॑च्यवत । अ॒न्त॒र्वे॒दि निन॑य॒त्यव॑रुद्ध्यै । उल्मु॑केना॒भि गृ॑ह्णाति शृत॒त्वाय॑ । शृ॒तका॑मा इव॒ हि दे॒वाः ॥ 67 ॥
(अ॒न्या जि॑न्वन्-त्यनुवि॒सृत्यै॒-वमा॒-हाशा᳚न्त-आह॒-गुप्त्यै॑-छ॒न्नं - ब्रह्मा᳚-ब्रवी-द्द्वि॒तीय॑म॒भ्य॑पातय॒-थ्सूर्या॑भिनिम्रुक्ते-दे॒वाः) (अ. 8)

अनुवाकं 9 - वेदिकरणम्
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॒ स्फ्यमाद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै᳚ ॥ आद॑द॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑ण॒ इत्या॑ह । इ॒न्द्रि॒यमे॒व यज॑माने दधाति । स॒हस्र॑भृष्टि-श्श॒तते॑जा॒ इत्या॑ह ।
रू॒पमे॒वास्यै॒त-न्म॑हि॒मानं॒-व्याँच॑ष्टे ॥
वा॒युर॑सि ति॒ग्मते॑जा॒ इत्या॑ह । तेजो॒ वै वा॒युः ॥ 68 ॥

तेज॑ ए॒वास्मि॑-न्दधाति ॥ वि॒षाद्वै नामा॑सु॒र आ॑सीत् । सो॑-ऽबिभेत् । य॒ज्ञेन॑ मा दे॒वा अ॒भिभ॑विष्य॒न्तीति॑ । स पृ॑थि॒वीम॒भ्य॑वमीत् । सा ऽमे॒द्ध्या ऽभ॑वत् । अथो॒ यदिन्द्रो॑ वृ॒त्रमहन्न्॑ । तस्य॒ लोहि॑त-म्पृथि॒वीमनु॒ व्य॑धावत् । सा ऽमे॒द्ध्या ऽभ॑वत् ।
पृथि॑वि देवयज॒नीत्या॑ह ॥ 69 ॥

मेद्ध्या॑मे॒वैना᳚-न्देव॒यज॑नी-ङ्करोति ।
ओष॑द्ध्यास्ते॒ मूल॒-म्मा हिग्ं॑सिष॒मित्या॑ह । ओष॑धीना॒-महिग्ं॑सायै ॥ व्र॒ज-ङ्ग॑च्छ गो॒स्थान॒मित्या॑ह । छन्दाग्ं॑सि॒ वै व्र॒जो गो॒स्थानः॑ । छन्दाग्॑स्ये॒वास्मै᳚ व्र॒ज-ङ्गो॒स्थान॑-ङ्करोति ॥ वर्​ष॑तु ते॒ द्यौरित्या॑ह ।
वृष्टि॒र्वै द्यौः । वृष्टि॑मे॒वाव॑रुन्धे ॥
ब॒धा॒न दे॑व सवितः पर॒मस्या᳚-म्परा॒वतीत्या॑ह ॥ 70 ॥

द्वौ वाव पुरु॑षौ । य-ञ्चै॒व द्वेष्टि॑ । यश्चै॑न॒-न्द्वेष्टि॑ । तावु॒भौ ब॑द्ध्नाति पर॒मस्या᳚-म्परा॒वति॑ श॒तेन॒ पाशैः᳚ । यो᳚-ऽस्मा-न्द्वेष्टि॒ य-ञ्च॑ व॒य-न्द्वि॒ष्मस्तमतो॒ मा मौ॒गित्या॒हानि॑म्रुक्त्यै ॥
अ॒ररु॒र्वै नामा॑सु॒र आ॑सीत् ।
स पृ॑थि॒व्यामुप॑म्लुप्तो-ऽशयत् ।
त-न्दे॒वा अप॑हतो॒-ऽररुः॑ पृथि॒व्या इति॑ पृथि॒व्या अपा᳚घ्नन्न् । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अप॑हतो॒-ऽररुः॑ पृथि॒व्या इति॒ यदाह॑ ॥ 71 ॥
भ्रातृ॑व्यमे॒व पृ॑थि॒व्या अप॑हन्ति । ते॑-ऽमन्यन्त ।
दिवं॒-वाँ अ॒यमि॒तः प॑तिष्य॒तीति॑ ।
तम॒ररु॑स्ते॒ दिव॒-म्मा स्का॒निति॑ दि॒वः पर्य॑बाधन्त । भ्रातृ॑व्यो॒ वा अ॒ररुः॑ । अ॒ररु॑स्ते॒ दिव॒-म्मा स्का॒निति॒ यदाह॑ । भ्रातृ॑व्यमे॒व दि॒वः परि॑बाधते ।
स्त॒म्ब॒ य॒जुर्-ह॑रति । पृ॒थि॒व्या ए॒व भ्रातृ॑व्य॒-मप॑हन्ति । द्वि॒तीयग्ं॑ हरति ॥ 72 ॥

अ॒न्तरि॑क्षादे॒वैन॒-मप॑हन्ति । तृ॒तीयग्ं॑ हरति । दि॒व ए॒वैन॒-मप॑हन्ति । तू॒ष्णी-ञ्च॑तु॒र्थग्ं ह॑रति । अप॑रिमितादे॒वैन॒-मप॑हन्ति ॥ असु॑राणां॒-वाँ इ॒यमग्र॑ आसीत् । याव॒दासी॑नः परा॒ पश्य॑ति ।
ताव॑-द्दे॒वाना᳚म् । ते दे॒वा अ॑ब्रुवन्न् ।
अस्त्वे॒व नो॒-ऽस्यामपीति॑ ॥ 73 ॥

क्य॑न्नो दास्य॒थेति॑ । याव॑थ्स्व॒य-म्प॑रिगृह्णी॒थेति॑ ।
ते वस॑व॒स्त्वेति॑ दक्षिण॒तः पर्य॑गृह्णन्न् । रु॒द्रास्त्वेति॑ प॒श्चात् । आ॒दि॒त्या-स्त्वेत्यु॑त्तर॒तः । ते᳚-ऽग्निना॒ प्राञ्चो॑-ऽजयन्न् । वसु॑भि-र्दक्षि॒णा ।
रु॒द्रैः प्र॒त्यञ्चः॑ । आ॒दि॒त्यैरुद॑ञ्चः ।
यस्यै॒वं-विँ॒दुषो॒ वेदि॑-म्परि गृ॒ह्णन्ति॑ ॥ 74 ॥

भव॑त्या॒त्मना᳚ । परा᳚-ऽस्य॒ भ्रातृ॑व्यो भवति ॥
दे॒वस्य॑ सवि॒तु-स्स॒व इत्या॑ह॒ प्रसू᳚त्यै ।
कर्म॑ कृण्वन्ति वे॒धस॒ इत्या॑ह । इ॒षि॒तग्ं हि कर्म॑ क्रि॒यते᳚ । पृ॒थि॒व्यै मेद्ध्य॑-ञ्चामे॒द्ध्य-ञ्च॒ व्युद॑क्रामताम् । प्रा॒चीन॑-मुदी॒चीन॒-म्मेद्ध्य᳚म् । प्र॒ती॒चीन॑-न्दक्षि॒णा ऽमे॒द्ध्यम् ।
प्राची॒मुदी॑ची-म्प्रव॒णा-ङ्क॑रोति ।
मेद्ध्या॑मे॒वैना᳚-न्देव॒यज॑नी-ङ्करोति ॥ 75 ॥

प्राञ्चौ॑ वेद्य॒ग्ं॒ सावुन्न॑यति । आ॒ह॒व॒नीय॑स्य॒ परि॑गृहीत्यै । प्र॒तीची॒ श्रोणी᳚ । गार्​ह॑पत्यस्य॒ परि॑गृहीत्यै । अथो॑ मिथुन॒त्वाय॑ । उद्ध॑न्ति । यदे॒वास्या॑ अमे॒द्ध्यम् । तदप॑हन्ति । उद्ध॑न्ति ।
तस्मा॒दोष॑धयः॒ परा॑भवन्ति ॥ 76 ॥

मूल॑-ञ्छिनत्ति । भ्रातृ॑व्यस्यै॒व मूल॑-ञ्छिनत्ति ।
मूलं॒-वाँ अ॑ति॒तिष्ठ॒-द्रक्षा॒ग्॒स्यनू-त्पि॑पते । यद्धस्ते॑न छि॒न्द्यात् । कु॒न॒खिनीः᳚ प्र॒जा-स्स्युः॑ । स्फ्येन॑ छिनत्ति । वज्रो॒ वै स्फ्यः ।
वज्रे॑णै॒व य॒ज्ञा-द्रक्षा॒ग्॒स्यप॑हन्ति । पि॒तृ॒दे॒व॒त्या ऽति॑खाता । इय॑ती-ङ्खनति ॥ 77 ॥

प्र॒जाप॑तिना यज्ञमु॒खेन॒ सम्मि॑ताम् ॥ वेदि॑र्दे॒वेभ्यो॒ निला॑यत । ता-ञ्च॑तुरङ्गु॒ले ऽन्व॑विन्दन्न् । तस्मा᳚च्चतुरङ्गु॒ल-ङ्खेया᳚ ।
च॒तु॒रङ्गु॒ल-ङ्ख॑नति । च॒तु॒र॒ङ्गु॒ले ह्योष॑धयः प्रति॒तिष्ठ॑न्ति ।
आप्र॑ति॒ष्ठायै॑ खनति । यज॑मानमे॒व प्र॑ति॒ष्ठा-ङ्ग॑मयति । द॒क्षि॒ण॒तो वर्​षी॑यसी-ङ्करोति ।
दे॒व॒यज॑नस्यै॒व रू॒पम॑कः ॥ 78 ॥

पुरी॑षवती-ङ्करोति । प्र॒जा वै प॒शवः॒ पुरी॑षम् ।
प्र॒जयै॒वैन॑-म्प॒शुभिः॒ पुरी॑षवन्त-ङ्करोति । उत्त॑र-म्परिग्रा॒ह-म्परि॑गृह्णाति । ए॒ताव॑ती॒ वै पृ॑थि॒वी । याव॑ती॒ वेदिः॑ । तस्या॑ ए॒ताव॑त ए॒व भ्रातृ॑व्य-न्नि॒र्भज्य॑ । आ॒त्मन॒ उत्त॑र-म्परिग्रा॒ह-म्परि॑गृह्णाति ।
ऋ॒त-म॑स्यृत॒सद॑न-मस्यृत॒श्रीर॒सीत्या॑ह । य॒था॒ य॒जुरे॒वै तत् ॥ 79 ॥

क्रू॒रमि॑व॒ वा ए॒त-त्क॑रोति । यद्वेदि॑-ङ्क॒रोति॑ ।
धा अ॑सि स्व॒धा अ॒सीति॑ योयुप्यते॒ शान्त्यै᳚ ।
उ॒र्वी चासि॒ वस्वी॑ चा॒सीत्या॑ह ।
उ॒र्वीमे॒वैनां॒-वँस्वी᳚-ङ्करोति ।
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरफ्शि॒न्नित्या॑ह मेद्ध्य॒त्वाय॑ । उ॒दा॒दाय॑ पृथि॒वी-ञ्जी॒रदा॑नु॒र्यामैर॑य-ञ्च॒न्द्रम॑सि स्व॒धाभि॒रित्या॑ह ।
यदे॒वास्या॑ अमे॒द्ध्यम् । तद॑प॒हत्य॑ ।
मेद्ध्या᳚-न्देव॒यज॑नी-ङ्कृ॒त्वा ॥ 80 ॥

यद॒दश्च॒न्द्रम॑सि॒ मेद्ध्य᳚म् । तद॒स्यामेर॑यति ।
ता-न्धीरा॑सो अनु॒दृश्य॑ यजन्त॒ इत्या॒हानु॑ख्यात्यै ॥ प्रोक्ष॑णी॒रासा॑दय । इ॒द्ध्माब॒र्॒हि-रुप॑सादय । स्रु॒व-ञ्च॒ स्रुच॑श्च॒ सम्मृ॑ड्ढि । पत्नी॒ग्ं॒ सन्न॑ह्य । आज्ये॑नो॒देहीत्या॑हानुपू॒र्वता॑यै । प्रोक्ष॑णी॒रासा॑दयति । आपो॒ वै र॑क्षो॒घ्नीः ॥ 81 ॥

रक्ष॑सा॒मप॑हत्यै । स्फ्यस्य॒ वर्त्मन्᳚-थ्सादयति । य॒ज्ञस्य॒ सन्त॑त्यै । उ॒वाच॒ हासि॑तो दैव॒लः । ए॒ताव॑ती॒र्वा अ॒मुष्मि॑न् ँलो॒क आप॑ आसन्न् ।
याव॑तीः॒ प्रोक्ष॑णी॒रिति॑ । तस्मा᳚-द्ब॒ह्वीरा॒साद्याः᳚ । स्फ्यमु॒दस्यन्न्॑ । य-न्द्वि॒ष्यात्त-न्ध्या॑येत् । शु॒चैवैन॑-मर्पयति ॥ 82 ॥
(वै वा॒यु - रा॑ह - परा॒वतीत्या॒हा - ह॑ - द्वि॒तीयग्ं॑ हर॒ - तीति॑ - परिगृ॒ह्णन्ति॑ - देव॒यज॑नी-ङ्करोति - भवन्ति - खनत्य - क - रे॒तत् - कृ॒त्वा - र॑क्षो॒घ्नी - र॑र्पयति) (अ. 9)

अनुवाकं 10 - इध्माबर्​हि-स्सादनम्
वज्रो॒ वै स्फ्यः । यद॒न्वञ्च॑-न्धा॒रये᳚त् । वज्रे᳚-ऽद्ध्व॒र्युः, क्ष॑ण्वीत । पु॒रस्ता᳚-त्ति॒र्यञ्च॑-न्धारयति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षा॒ग्॒स्यप॑हन्ति ।
अ॒ग्निभ्या॒-म्प्राच॑श्च प्र॒तीच॑श्च । स्फ्येनोदी॑चश्चा-ध॒राच॑श्च । स्फ्येन॒ वा ए॒ष वज्रे॑णा॒स्यै पा॒प्मान॒-म्भ्रातृ॑व्य-मप॒हत्य॑ ।
उ॒त्क॒रे-ऽधि॒ प्रवृ॑श्चति ॥ 83 ॥

यथो॑प॒धाय॑ वृ॒श्चन्त्य॒वम् । हस्ता॒वव॑ नेनिक्ते । आ॒त्मान॑मे॒व प॑वयते । स्फ्य-म्प्रक्षा॑लयति मेद्ध्य॒त्वाय॑ । अथो॑ पा॒प्मन॑ ए॒व भ्रातृ॑व्यस्य न्य॒ङ्ग-ञ्छि॑नत्ति ॥ इ॒द्ध्मा-ब॒र्॒हि-रुप॑सादयति॒ युक्त्यै᳚ । य॒ज्ञस्य॑ मिथुन॒त्वाय॑ ।
अथो॑ पुरो॒रुच॑मे॒वैता-न्द॑धाति ।
उत्त॑रस्य॒ कर्म॒णो-ऽनु॑ख्यात्यै ।
न पु॒रस्ता᳚-त्प्र॒त्यगुप॑सादयेत् ॥ 84 ॥

य-त्पु॒रस्ता᳚-त्प्र॒त्य-गु॑पसा॒दये᳚त् ।
अ॒न्यत्रा॑हुतिप॒थादि॒द्ध्म-म्प्रति॑पादयेत् । प्र॒जा वै ब॒र्॒हिः । अप॑राद्ध्नुया-द्ब॒र्॒हिषा᳚ प्र॒जाना᳚-म्प्र॒जन॑नम् । प॒श्चात्-प्रागुप॑सादयति । आ॒हु॒ति॒प॒थेने॒द्ध्म-म्प्रति॑पादयति ।
स॒प्र॒न्त्ये॑व ब॒र्॒हिषा᳚ प्र॒जाना᳚-म्प्र॒जन॑न॒मुपै॑ति । दक्षि॑णमि॒द्ध्मम् ।
उत्त॑र-म्ब॒र॒ःइः । आ॒त्मा वा इ॒द्ध्मः ।
प्र॒जा ब॒र्॒हिः । प्र॒जा ह्या᳚त्मन॒ उत्त॑रतरा ती॒र्थे ।
ततो॒ मेध॑मुप॒नीय॑ । य॒था॒ दे॒व॒तमे॒वैन॒त्-प्रति॑ष्ठापयति । प्रति॑तिष्ठति प्र॒जया॑ प॒शुभि॒-र्यज॑मानः ॥ 85 ॥
(वृ॒श्च॒ति॒ - सा॒द॒ये॒ - दि॒द्ध्मः पञ्च॑ च) (अ. 10)

(तृतीय॑स्यां - दे॒वस्या᳚श्वप॒र्॒शुं-योँ वै - पू᳚र्वे॒द्युः - कर्म॑णे वा॒ - मिन्द्रो॑ वृ॒त्रम॑ह॒न्-थ्सो॑-ऽपो - ऽव॑धूतं॒ - धृष्टि॑--र् दे॒वस्येत्या॑ह॒ सं​वँ॑पामि - दे॒वस्य॒ स्फ्यमाद॑दे॒ - वज्रो॒ वै स्फ्यो दश॑)

(तृ॒तीय॑स्यां - ँय॒ज्ञस्यान॑तिरेकाय - प॒वित्र॑वत्य - ध्व॒र्यु-ञ्चा॑ - धि॒षव॑णमस्य॒ - न्तरि॑क्ष ए॒व - रक्ष॑साम॒न्तर्​हि॑त्यै॒ - द्वौ वाव पुरु॑षो॒ - यद॒दश्च॒न्द्रम॑सि॒ मेद्ध्य॒-म्पञ्चाशी॑तिः)

(तृ॒तीय॑स्यां॒ - ँयज॑मानः)

॥ हरिः॑ ओम् ॥

॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे तृतीयाष्टके द्वितीयः प्रपाठक-स्समाप्तः ॥




Browse Related Categories: