View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

नारायणीयं दशक 12

स्वायंभुवो मनुरथो जनसर्गशीलो
दृष्ट्वा महीमसमये सलिले निमग्नाम् ।
स्रष्टारमाप शरणं भवदंघ्रिसेवा-
तुष्टाशयं मुनिजनैः सह सत्यलोके ॥1॥

कष्टं प्रजाः सृजति मय्यवनिर्निमग्ना
स्थानं सरोजभव कल्पय तत् प्रजानाम् ।
इत्येवमेष कथितो मनुना स्वयंभूः -
रंभोरुहाक्ष तव पादयुगं व्यचिंतीत् ॥ 2 ॥

हा हा विभो जलमहं न्यपिबं पुरस्ता-
दद्यापि मज्जति मही किमहं करोमि ।
इत्थं त्वदंघ्रियुगलं शरणं यतोऽस्य
नासापुटात् समभवः शिशुकोलरूपी ।3॥

अंगुष्ठमात्रवपुरुत्पतितः पुरस्तात्
भोयोऽथ कुंभिसदृशः समजृंभथास्त्वम् ।
अभ्रे तथाविधमुदीक्ष्य भवंतमुच्चै -
र्विस्मेरतां विधिरगात् सह सूनुभिः स्वैः ॥4॥

कोऽसावचिंत्यमहिमा किटिरुत्थितो मे
नासापुटात् किमु भवेदजितस्य माया ।
इत्थं विचिंतयति धातरि शैलमात्रः
सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥5॥

तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
सत्यस्थिताश्च मुनयो नुनुवुर्भवंतम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूय-
स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥6॥

ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा
प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
स्तोतृन् मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥7॥

अंतर्जलं तदनुसंकुलनक्रचक्रं
भ्राम्यत्तिमिंगिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था -
नाकंपयन् वसुमतीमगवेषयस्त्वम् ॥8॥

दृष्ट्वाऽथ दैत्यहतकेन रसातलांते
संवेशितां झटिति कूटकिटिर्विभो त्वम् ।
आपातुकानविगणय्य सुरारिखेटान्
दंष्ट्रांकुरेण वसुधामदधाः सलीलम् ॥9॥

अभ्युद्धरन्नथ धरां दशनाग्रलग्न
मुस्तांकुरांकित इवाधिकपीवरात्मा ।
उद्धूतघोरसलिलाज्जलधेरुदंचन्
क्रीडावराहवपुरीश्वर पाहि रोगात् ॥10॥




Browse Related Categories: