मुखे चारुहासं करे शंखचक्रं
गले रत्नमालां स्वयं मेघवर्णम् ।
तथा दिव्यशस्त्रं प्रियं पीतवस्त्रं
धरंतं मुरारिं भजे वेंकटेशम् ॥ 1 ॥
सदाभीतिहस्तं मुदाजानुपाणिं
लसन्मेखलं रत्नशोभाप्रकाशम् ।
जगत्पादपद्मं महत्पद्मनाभं
धरंतं मुरारिं भजे वेंकटेशम् ॥ 2 ॥
अहो निर्मलं नित्यमाकाशरूपं
जगत्कारणं सर्ववेदांतवेद्यम् ।
विभुं तापसं सच्चिदानंदरूपं
धरंतं मुरारिं भजे वेंकटेशम् ॥ 3 ॥
श्रिया विष्टितं वामपक्षप्रकाशं
सुरैर्वंदितं ब्रह्मरुद्रस्तुतं तम् ।
शिवं शंकरं स्वस्तिनिर्वाणरूपं
धरंतं मुरारिं भजे वेंकटेशम् ॥ 4 ॥
महायोगसाद्ध्यं परिभ्राजमानं
चिरं विश्वरूपं सुरेशं महेशम् ।
अहो शांतरूपं सदाध्यानगम्यं
धरंतं मुरारिं भजे वेंकटेशम् ॥ 5 ॥
अहो मत्स्यरूपं तथा कूर्मरूपं
महाक्रोडरूपं तथा नारसिंहम् ।
भजे कुब्जरूपं विभुं जामदग्न्यं
धरंतं मुरारिं भजे वेंकटेशम् ॥ 6 ॥
अहो बुद्धरूपं तथा कल्किरूपं
प्रभुं शाश्वतं लोकरक्षामहंतम् ।
पृथक्काललब्धात्मलीलावतारं
धरंतं मुरारिं भजे वेंकटेशम् ॥ 7 ॥
इति श्रीवेंकटेश भुजंगं संपूर्णम् ।