श्रीवेंकटाद्रिधामा भूमा भूमाप्रियः कृपासीमा ।
निरवधिकनित्यमहिमा भवतु जयी प्रणतदर्शितप्रेमा ॥ 1 ॥
जय जनता विमलीकृतिसफलीकृतसकलमंगलाकार ।
विजयी भव विजयी भव विजयी भव वेंकटाचलाधीश ॥ 2 ॥
कमनीयमंदहसितं कंचन कंदर्पकोटिलावण्यम् ।
पश्येयमंजनाद्रौ पुंसां पूर्वतनपुण्यपरिपाकम् ॥ 3 ॥
मरतकमेचकरुचिना मदनाज्ञागंधिमध्यहृदयेन ।
वृषशैलमौलिसुहृदा महसा केनापि वासितं ज्ञेयम् ॥ 4 ॥
पत्यै नमो वृषाद्रेः करयुगपरिकर्मशंखचक्राय ।
इतरकरकमलयुगलीदर्शित-कटिबंधदानमुद्राय ॥ 5 ॥
साम्राज्यपिशुनमकुटीसुघटललाटात् सुमंगला पांगात् ।
स्मितरुचिफुल्लकपोलादपरो न परोऽस्ति वेंकटाद्रीशात् ॥ 6 ॥
सर्वाभरणविभूषितदिव्यावयवस्य वेंकटाद्रिपतेः ।
पल्लवपुष्पविभूषितकल्पतरोश्चापि का भिदा दृष्टा ॥ 7 ॥
लक्ष्मीललितपदांबुजलाक्षारसरंजितायतोरस्के ।
श्रीवेंकटाद्रिनाथे नाथे मम नित्यमर्पितो भारः ॥ 8 ॥
आर्यावृत्तसमेता सप्तविभक्तिर्वृषाद्रिनाथस्य ।
वादींद्रभीकृदाख्यैरार्यै रचिता जयत्वियं सततम् ॥ 9 ॥
इति श्रीवेंकटेशविजयार्यासप्तविभक्ति स्तोत्रं संपूर्णम् ।