View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

गीतगोविंदं तृतीयः सर्गः - मुग्ध मधुसूदनः

॥ तृतीयः सर्गः ॥
॥ मुग्धमधुसूदनः ॥

कंसारिरपि संसारवासनाबंधशृंखलाम् ।
राधामाधाय हृदये तत्याज व्रजसुंदरीः ॥ 18 ॥

इतस्ततस्तामनुसृत्य राधिका-मनंगबाणव्रणखिन्नमानसः ।
कृतानुतापः स कलिंदनंदिनी-तटांतकुंजे विषसाद माधवः ॥ 19 ॥

॥ गीतं 7 ॥

मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि न वारितातिभयेन ॥
हरि हरि हतादरतया गता सा कुपितेव ॥ 1 ॥

किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मम जीवनेन गृहेण ॥ 2 ॥

चिंतयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ 3 ॥

तामहं हृदि संगतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ 4 ॥

तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ 5 ॥

दृश्यते पुरतो गतागतमेव मे विदधासि ।
किं पुरेव ससंभ्रमं परिरंभणं न ददासि ॥ 6 ॥

क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुंदरि दर्शनं मम मन्मथेन दुनोमि ॥ 7 ॥

वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
किंदुबिल्वसमुद्रसंभवरोहिणीरमणेन ॥ 8 ॥

हृदि बिसलताहारो नायं भुजंगमनायकः कुवलयदलश्रेणी कंठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रांत्यानंग क्रुधा किमु धावसि ॥ 20 ॥

पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेंखत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ 21 ॥

भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिंबादरो रागवान् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ 22 ॥

तानि स्पर्शसुखानि ते च तरलाः स्निग्धा दृशोर्विभ्रमा-स्तद्वक्त्रांबुजसौरभं स च सुधास्यंदी गिरां वक्रिमा ।
सा बिंबाधरमाधुरीति विषयासंगेऽपि चेन्मानसं तस्यां लग्नसमाधि हंत विरहव्याधिः कथं वर्धते ॥ 23 ॥

भ्रूपल्लवं धनुरपांगतरंगितानि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनंगजयजंगमदेवतायां अस्त्राणि निर्जितजगंति किमर्पितानि ॥ 24 ॥

[एषः श्लोकः केषुचन संस्करणेषु विद्यते]

तिर्यक्कंठ विलोल मौलि तरलोत्तं सस्य वंशोच्चरद्-
दीप्तिस्थान कृतावधान ललना लक्षैर्न संलक्षिताः ।
संमुग्धे मधुसूदनस्य मधुरे राधामुखेंदौ सुधा-
सारे कंदलिताश्चिरं दधतु वः क्षेमं कटाक्षोर्म्मय ॥ (25) ॥

॥ इति श्रीगीतगोविंदे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥




Browse Related Categories: