श्रीमद्गोकुलसर्वस्वं श्रीमद्गोकुलमंडनम् ।
श्रीमद्गोकुलदृक्तारा श्रीमद्गोकुलजीवनम् ॥ 1 ॥
श्रीमद्गोकुलमात्रेशः श्रीमद्गोकुलपालकः ।
श्रीमद्गोकुललीलाब्धिः श्रीमद्गोकुलसंश्रयः ॥ 2 ॥
श्रीमद्गोकुलजीवात्मा श्रीमद्गोकुलमानसः ।
श्रीमद्गोकुलदुःखघ्नः श्रीमद्गोकुलवीक्षितः ॥ 3 ॥
श्रीमद्गोकुलसौंदर्यं श्रीमद्गोकुलसत्फलम् ।
श्रीमद्गोकुलगोप्राणः श्रीमद्गोकुलकामदः ॥ 4 ॥
श्रीमद्गोकुलराकेशः श्रीमद्गोकुलतारकः ।
श्रीमद्गोकुलपद्मालिः श्रीमद्गोकुलसंस्तुतः ॥ 5 ॥
श्रीमद्गोकुलसंगीतः श्रीमद्गोकुललास्यकृत् ।
श्रीमद्गोकुलभावात्मा श्रीमद्गोकुलपोषकः ॥ 6 ॥
श्रीमद्गोकुलहृत्स्थानः श्रीमद्गोकुलसंवृतः ।
श्रीमद्गोकुलदृक्पुष्पः श्रीमद्गोकुलमोदितः ॥ 7 ॥
श्रीमद्गोकुलगोपीशः श्रीमद्गोकुललालितः ।
श्रीमद्गोकुलभोग्यश्रीः श्रीमद्गोकुलसर्वकृत् ॥ 8 ॥
इमानि श्रीगोकुलेशनामानि वदने मम ।
वसंतु संततं चैव लीला च हृदये सदा ॥ 9 ॥
इति श्रीविठ्ठलेश्वर विरचितं श्री गोकुलाष्टकम् ।