कदंबवनचारिणीं मुनिकदंबकादंबिनीं
नितंबजितभूधरां सुरनितंबिनीसेविताम् ।
नवांबुरुहलोचनामभिनवांबुदश्यामलां
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 1 ॥
कदंबवनवासिनीं कनकवल्लकीधारिणीं
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदरोचनाचारिणीं
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 2 ॥
कदंबवनशालया कुचभरोल्लसन्मालया
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया
कयापि घननीलया कवचिता वयं लीलया ॥ 3 ॥
कदंबवनमध्यगां कनकमंडलोपस्थितां
षडंबुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडंबितजपारुचिं विकचचंद्रचूडामणिं
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 4 ॥
कुचांचितविपंचिकां कुटिलकुंतलालंकृतां
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसम्मोहिनीं
मतंगमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ 5 ॥
स्मरेत्प्रथमपुष्पिणीं रुधिरबिंदुनीलांबरां
गृहीतमधुपात्रिकां मदविघूर्णनेत्रांचलाम् ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां
त्रिलोचनकुटुंबिनीं त्रिपुरसुंदरीमाश्रये ॥ 6 ॥
सकुंकुमविलेपनामलकचुंबिकस्तूरिकां
समंदहसितेक्षणां सशरचापपाशांकुशाम् ।
अशेषजनमोहिनीमरुणमाल्यभूषांबरां
जपाकुसुमभासुरां जपविधौ स्मराम्यंबिकाम् ॥ 7 ॥
पुरंदरपुरंध्रिकाचिकुरबंधसैरंध्रिकां
पितामहपतिव्रतापटुपटीरचर्चारताम् ।
मुकुंदरमणीमणीलसदलंक्रियाकारिणीं
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ 8 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ त्रिपुरसुंदर्यष्टकम् ।