वेदांतवाक्येषु सदा रमंतः
भिक्षान्नमात्रेण च तुष्टिमंतः ।
विशोकमंतःकरणे रमंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 1 ॥
मूलं तरोः केवलमाश्रयंतः
पाणिद्वयं भोक्तुममंत्रयंतः ।
श्रियं च कंथामिव कुत्सयंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 2 ॥
देहादिभावं परिमार्जयंतः
आत्मानमात्मन्यवलोकयंतः ।
नांतं न मध्यं न बहिः स्मरंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 3 ॥
स्वानंदभावे परितुष्टिमंतः
संशांतसर्वेंद्रियदृष्टिमंतः ।
अहर्निशं ब्रह्मणि ये रमंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 4 ॥
ब्रह्माक्षरं पावनमुच्चरंतः
पतिं पशूनां हृदि भावयंतः ।
भिक्षाशना दिक्षु परिभ्रमंतः
कौपीनवंतः खलु भाग्यवंतः ॥ 5 ॥
कौपीनपंचरत्नस्य मननं याति यो नरः ।
विरक्तिं धर्मविज्ञानं लभते नात्र संशयः ॥
इति श्री शंकरभगवत्पाद विरचितं यतिपंचकम् ॥