View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Marathi language.

कालिय कृता कृष्ण स्तॊत्रम्

व्यास उवाच ।
इत्युक्ते ताभिराश्वास्य क्लांतदेहोऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ 43 ॥
कालीय उवाच ।
तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ 44 ॥
त्वं परस्त्वं परस्याऽद्यः परं त्वं तत्परात्मकम् ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ 45 ॥
यथाऽहं भवता सृष्टो जात्या रूपेण चेश्वरः ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ 46 ॥
यद्यन्यथा प्रवर्तेय देवदेव ततो मयि ।
न्याय्यो दंडनिपातस्ते तवैव वचनं यथा ॥ 47 ॥
तथाऽपि यं जगत्स्वामी दंडं पातितवान्मयि ।
स सोढोऽयं वरो दंडस्त्वत्तो नान्योऽस्तु मे वरः ॥ 48 ॥
हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ 49 ॥

इति ब्रह्मपुराणे पंचाशीत्यधिकशततमाध्यायांतर्गतं
कालियकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।

ब्रह्मपुराण . अध्याय 185/43-49 . ।




Browse Related Categories: