पादुके यतिराजस्य कथयंति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥
पाषंडद्रुमषंडदावदहनश्चार्वाकशैलाशनिः
बौद्धध्वांतनिरासवासरपतिर्जैनेभकंठीरवः ।
मायावादि भुजंगभंगगरुडस्त्रैविद्य चूडामणिः
श्रीरंगेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥ 1 ॥
पाषंड षंडगिरिखंडनवज्रदंडाः
प्रच्छन्नबौद्धमकरालयमंथदंडाः ।
वेदांतसारसुखदर्शनदीपदंडाः
रामानुजस्य विलसंतिमुनेस्त्रिदंडाः ॥ 2 ॥
चारित्रोद्धारदंडं चतुरनयपथालंक्रियाकेतुदंडं
सद्विद्यादीपदंडं सकलकलिकथासंहृतेः कालदंडम् ।
त्रय्यंतालंबदंडं त्रिभुवनविजयच्छत्रसौवर्णदंडम्
धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदंडं त्रिदंडम् ॥ 3 ॥
त्रय्या मांगल्यसूत्रं त्रिथायुगपयुग रोहणालंबसूत्रं
सद्विद्यादीपसूत्रं सगुणनयविदां संबदांहारसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ 4 ॥
पाषंडसागरमहाबडबामुखाग्निः
श्रीरंगराजचरणांबुजमूलदासः ।
श्रीविष्णुलोकमणि मंडपमार्गदायी
रामानुजो विजयते यतिराजराजः ॥ 5 ॥
Browse Related Categories: