नमस्ते ललिते देवि श्रीमत्सिंहासनेश्वरि ।
भक्तानामिष्टदे मातः अभिरामि नमोऽस्तु ते ॥ 1 ॥
चंद्रोदयं कृतवती ताटंकेन महेश्वरि ।
आयुर्देहि जगन्मातः अभिरामि नमोऽस्तु ते ॥ 2 ॥
सुधाघटेशश्रीकांते शरणागतवत्सले ।
आरोग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 3 ॥
कल्याणि मंगलं देहि जगन्मंगलकारिणि ।
ऐश्वर्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 4 ॥
चंद्रमंडलमध्यस्थे महात्रिपुरसुंदरि ।
श्रीचक्रराजनिलये अभिरामि नमोऽस्तु ते ॥ 5 ॥
राजीवलोचने पूर्णे पूर्णचंद्रविधायिनि ।
सौभाग्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 6 ॥
गणेशस्कंदजननि वेदरूपे धनेश्वरि ।
विद्यां च देहि मे कीर्तिं अभिरामि नमोऽस्तु ते ॥ 7 ॥
सुवासिनीप्रिये मातः सौमांगल्यविवर्धिनी ।
मांगल्यं देहि मे नित्यं अभिरामि नमोऽस्तु ते ॥ 8 ॥
मार्कंडेय महाभक्त सुब्रह्मण्य सुपूजिते ।
श्रीराजराजेश्वरी त्वं ह्यभिरामि नमोऽस्तु ते ॥ 9 ॥
सान्निध्यं कुरु कल्याणी मम पूजागृहे शुभे ।
बिंबे दीपे तथा पुष्पे हरिद्रा कुंकुमे मम ॥ 10 ॥
अभिराम्या इदं स्तोत्रं यः पठेच्छक्तिसन्निधौ ।
आयुर्बलं यशो वर्चो मंगलं च भवेत्सुखम् ॥ 11 ॥
इति श्रीअभिरामिभट्टार् कृत श्री अभिरामि स्तोत्रम् ।