View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

मुण्डक उपनिषद् - द्वितीय मुण्डक, प्रथम काण्डः

॥ द्वितीय मुण्डके प्रथमः खण्डः ॥

तदेत-थ्सत्यं
यथा सुदीप्ता-त्पावकाद्विस्फुलिङ्गाः
सहस्रशः प्रभवन्ते सरूपाः ।
तथा-ऽक्षराद्विविधा-स्सोम्य भावाः
प्रजायन्ते तत्र चैवापि यन्ति ॥ 1॥

दिव्यो ह्यमूर्तः पुरुष-स्स बाह्याभ्यन्तरो ह्यजः ।
अप्राणो ह्यमना-श्शुभ्रो ह्यक्षरा-त्परतः परः ॥ 2॥

एतस्माज्जायते प्राणो मन-स्सर्वेन्द्रियाणि च ।
खं-वाँयुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ 3॥

अग्नीर्मूर्धा चक्षुषी चन्द्रसूर्यौ
दिश-श्श्रोत्रे वाग् विवृताश्च वेदाः ।
वायुः प्राणो हृदयं-विँश्वमस्य पद्भ्यां
पृथिवी ह्येष सर्वभूतान्तरात्मा ॥ 4॥

तस्मादग्नि-स्समिधो यस्य सूर्यः
सोमा-त्पर्जन्य ओषधयः पृथिव्याम् ।
पुमा-न्रेत-स्सिञ्चति योषितायां
बह्वीः प्रजाः पुरुषा-थ्सम्प्रसूताः ॥ 5॥

तस्मादृच-स्साम यजूंषि दीक्षा
यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च ।
सं​वँत्सरश्च यजमानश्च लोकाः
सोमो यत्र पवते यत्र सूर्यः ॥ 6॥

तस्माच्च देवा बहुधा सम्प्रसूताः
साध्या मनुष्याः पशवो वयांसि ।
प्राणापानौ व्रीहियवौ तपश्च
श्रद्धा सत्य-म्ब्रह्मचर्यं-विँधिश्च ॥ 7॥

सप्त प्राणाः प्रभवन्ति तस्मात्
सप्तार्चिष-स्समिध-स्सप्त होमाः ।
सप्त इमे लोका येषु चरन्ति प्राणा
गुहाशया निहिता-स्सप्त सप्त ॥ 8॥

अत-स्समुद्रा गिरयश्च सर्वे-ऽस्मात्
स्यन्दन्ते सिन्धव-स्सर्वरूपाः ।
अतश्च सर्वा ओषधयो रसश्च
येनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ 9॥

पुरुष एवेदं-विँश्व-ङ्कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहित-ङ्गुहायां
सो-ऽविद्याग्रन्थिं-विँकिरतीह सोम्य ॥ 10॥

॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥




Browse Related Categories: