अध्याय 2
वल्ली 2
पुरमेकादशद्वारमजस्यावक्रचेतसः।
अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते। एतद्वै तत् ॥ ॥1॥
हंस-श्शुचिषद्वसुरान्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत्।
नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋत-म्बृहत् ॥ ॥2॥
ऊर्ध्व-म्प्राणमुन्नयत्यपान-म्प्रत्यगस्यति।
मध्ये वामनमासीनं-विँश्वे देवा उपासते ॥ ॥3॥
अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः।
देहाद्विमुच्यमानस्य किमत्र परिशिष्यते। एतद्वै तत् ॥ ॥4॥
न प्राणेन नापानेन मर्त्यो जीवति कश्चन।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ ॥ ॥5॥
हन्त त इद-म्प्रवक्ष्यामि गुह्य-म्ब्रह्म सनातनम्।
यथा च मरण-म्प्राप्य आत्मा भवति गौतम ॥ ॥6॥
योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः।
स्थाणुमन्ये-ऽनुसंयँन्ति यथाकर्म यथाश्रुतम् ॥ ॥7॥
य एष सुप्तेषु जागर्ति काम-ङ्काम-म्पुरुषो निर्मिमाणः।
तदेव शुक्र-न्तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोँका-श्श्रिता-स्सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥ ॥8॥
अग्निर्यथैको भुवन-म्प्रविष्टो रूपं रूप-म्प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूप-म्प्रतिरूपो बहिश्च ॥ ॥9॥
वायुर्यथैको भुवन-म्प्रविष्टो रूपं रूप-म्प्रतिरूपो बभूव।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूप-म्प्रतिरूपो बहिश्च ॥ ॥10॥
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बह्यिदोषैः।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥ ॥11॥
एको वशी सर्वभूतान्तरात्मा एकं रूप-म्बहुधा यः करोति।
तमात्मस्थं-येँ-ऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वत-न्नेतरेषाम् ॥ ॥12॥
नित्यो-ऽनित्याना-ञ्चेतनश्चेतनानामेको बहूनां-योँ विदधाति कामान्।
तमात्मस्थं-येँ-ऽनुपश्यन्ति धीरास्तेषां शान्ति-श्शाश्वती नेतरेषाम् ॥ ॥13॥
तदेतदिति मन्यन्ते-ऽनिर्देश्य-म्परमं सुखम्।
कथ-न्नु तद्विजानीया-ङ्किमु भाति विभाति वा ॥ ॥14॥
न तत्र सूर्यो भाति न चन्द्रतारक-न्नेमा विद्युतो भान्ति कुतो-ऽयमग्निः।
तमेव भान्तमनुभाति सर्व-न्तस्य भासा सर्वमिदं-विँभाति ॥ ॥15॥