द्वितीयः प्रश्नः
अथ हैन-म्भार्गवो वैदर्भिः पप्रच्छ।
भगवन् कत्येव देवाः प्रजां-विँधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां-वँरिष्ठः इति ॥1॥
तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षु-श्श्रोत्र-ञ्च।
ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥2॥
तान् वरिष्ठः प्राण उवाच।
मा मोहमापद्यथ अहमेवैतत्पञ्चधात्मान-म्प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति ते-ऽश्रद्दधाना बभूवुः ॥3॥
सो-ऽभिमानादूर्ध्वमुत्क्रामत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्ठन्ते।
तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्व एवोत्क्रामन्ते तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रतिष्टन्त एवम् वाङ्मनष्चक्षु-श्श्रोत्र-ञ्च ते प्रीताः प्राणं स्तुन्वन्ति ॥4॥
एषो-ऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः।
एष पृथिवी रयिर्देव-स्सदसच्चामृत-ञ्च यत् ॥5॥
अरा इव रथनाभौ प्राणे सर्व-म्प्रतिष्ठितम्।
ऋचो यजूषि सामानि यज्ञः, क्षत्र-म्ब्रह्म च ॥6॥
प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे।
तुभ्य-म्प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥7॥
देवानामसि वह्नितमः पितृणा-म्प्रथमा स्वधा।
ऋषीणा-ञ्चरितं सत्यमथर्वाङ्गिरसामसि ॥8॥
इन्द्रस्त्व-म्प्राण तेजसा रुद्रो-ऽसि परिरक्षिता।
त्वमन्तरिक्षे चरसि सूर्यस्त्व-ञ्ज्योतिषा-म्पतिः ॥9॥
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः।
आनन्दरूपास्तिष्ठन्ति कामायान्न-म्भविष्यतीति ॥10॥
व्रात्यस्त्व-म्प्राणैकर्षरत्ता विश्वस्य सत्पतिः।
वयमाद्यस्य दातारः पिता त्व-म्मातरिश्व नः ॥11॥
या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च चक्षुषि।
या च मनसि सन्तता शिवा-न्ता-ङ्कुरू मोत्क्रमीः ॥12॥
प्राणस्येदं-वँशे सर्व-न्त्रिदिवे यत् प्रतिष्ठितम्।
मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञा-ञ्च विधेहि न इति ॥13॥