षष्ठः प्रश्नः
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ -
भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैत-म्प्रश्नमपृच्छत -
षोडशकल-म्भारद्वाज पुरुषं-वेँत्थ। तमह-ङ्कुमारम्ब्रुव-न्नाहमिमं-वेँद यध्यहमिममवेदिष-ङ्कथ-न्ते नावक्ष्यमिति ।
समूलो वा एष परिशुष्यति यो-ऽनृतमभिवदति। तस्मान्नार्हम्यनृतं-वँक्तुम्। स तूष्णीं रथमारुह्य प्रवव्राज। त-न्त्वा पृच्छामि क्वासौ पुरुष इति ॥1॥
तस्मै स होवाच ।
इहैवान्तस्शरीरे सोभ्य स पुरुषो यस्मिन्नता-ष्षोडशकलाः प्रभवन्तीति ॥2॥
स ईक्षाञ्चक्रे। कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्टस्यामीति ॥3॥
स प्राणमसृजत। प्राणाच्छ्रद्धा-ङ्खं-वाँयुर्ज्योतिरापः पृथिवीन्द्रिय-म्मनो-ऽन्नमन्नाद्वीर्य-न्तपो मन्त्राः कर्मलोका लोकेषु च नाम च ॥4॥
स यथेमा नध्य-स्स्यन्दमाना-स्समुद्रायणा-स्समुद्र-म्प्राप्यास्त-ङ्गच्छन्ति भिध्येते तासा-न्नामरुपे समुद्र इत्येव-म्प्रोच्यते।
एवमेवास्य परिद्रष्टुरिमा-ष्षोडशकलाः पुरुषायणाः पुरुष-म्प्राप्यास्त-ङ्गच्छन्ति भिध्येते चासा-न्नामरुपे पुरुष इत्येव-म्प्रोच्यते स एषो-ऽकलो-ऽमृतो भवति तदेष श्लोकः ॥5॥
अरा इव रथनाभौ कला यस्मि-न्प्रतिष्ठिताः।
तं-वेँध्य-म्पुरुषं-वेँद यथा मा वो मृत्युः परिव्यथा इति ॥6॥
तान् होवाचैतावदेवाहमेतत् पर-म्ब्रह्म वेद। नातः परमस्तीति ॥7॥
ते तमर्चयन्तस्त्वं हि नः पिता यो-ऽस्माकमविध्यायाः पर-म्पार-न्तारयसीति।
नमः परमृषिभ्यो नमः परमृषिभ्यः ॥8॥