अध्याय 2
वल्ली 3
ऊर्ध्वमूलो-ऽवाक्शाख एषो-ऽश्वत्थ-स्सनातनः।
तदेव शुक्र-न्तद् ब्रह्म तदेवामृतमुच्यते।
तस्मिंल्लोँका-श्श्रिता-स्सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥ ॥1॥
यदिद-ङ्कि-ञ्च जगत्सर्व-म्प्राण एजति निस्सृतम्।
महद् भयं-वँज्रमुद्यतं-यँ एतद्विदुरमृतास्ते भवन्ति ॥ ॥2॥
भयादस्याग्निस्तपति भयात्तपति सूर्यः।
भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः ॥ ॥3॥
इह चेदशकद्बोद्धु-म्प्राक् शरीरस्य विस्रसः।
तत-स्सर्गेषु लोकेषु शरीरत्वाय कल्पते ॥ ॥4॥
यथा-ऽऽदर्शे तथा-ऽऽत्मनि यथा स्वप्ने तथा पितृलोके।
यथा-ऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ ॥5॥
इन्द्रियाणा-म्पृथग्भावमुदयास्तमयौ च यत्।
पृथगुत्पद्यमानाना-म्मत्वा धीरो न शोचति ॥ ॥6॥
इन्द्रियेभ्यः पर-म्मनो मनस-स्सत्त्वमुत्तमम्।
सत्त्वादधि महानात्मा महतो-ऽव्यक्तमुत्तमम् ॥ ॥7॥
अव्यक्तात्तु परः पुरुषो व्यापको-ऽलिङ्ग एव च।
य-ञ्ज्ञात्वा मुच्यते जन्तुरमृतत्व-ञ्च गच्छति ॥ ॥8॥
न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्।
हृदा मनीषा मनसा-ऽभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति ॥ ॥9॥
यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह।
बुद्धिश्च न विचेष्टते तामाहुः परमा-ङ्गतिम् ॥ ॥10॥
तां-योँगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम्।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ॥ ॥11॥
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा।
अस्तीति ब्रुवतो-ऽन्यत्र कथ-न्तदुपलभ्यते ॥ ॥12॥
अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ ॥13॥
यदा सर्वे प्रमुच्यन्ते कामा ये-ऽस्य हृदि श्रिताः।
अथ मर्त्यो-ऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ ॥14॥
यथा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः।
अथ मर्त्यो-ऽमृतो भवत्येतावद्ध्यनुशासनम् ॥ ॥15॥
शत-ञ्चैका च हृदयस्य नाड्यस्तासा-म्मूर्धानमभिनिस्सृतैका।
तयोर्ध्वमायन्नमृतत्वमेति विश्वङ्ङन्या उत्क्रमणे भवन्ति ॥ ॥16॥
अङ्गुष्ठमात्रः पुरुषो-ऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः।
तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीका-न्धैर्येण।
तं-विँद्याच्छुक्रममृत-न्तं-विँद्याच्छुक्रममृतमिति ॥ ॥17॥
मृत्युप्रोक्ता-न्नचिकेतो-ऽथ लब्ध्वा विद्यामेतां-योँगविधि-ञ्च कृत्स्नम्।
ब्रह्मप्राप्तो विरजो-ऽभूद्विमृत्यु रन्यो-ऽप्येवं-योँ विदध्यात्ममेव ॥ ॥18॥