ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ 1॥
त ऐक्षन्तास्माकमेवायं-विँजयो-ऽस्माकमेवाय-म्महिमेति । तद्धैषां-विँजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं-यँक्षमिति ॥ 2॥
ते-ऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं-यँक्षमिति तथेति ॥ 3॥
तदभ्यद्रवत्तमभ्यवदत्को-ऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ 4॥
तस्मिन्स्त्वयि किं-वीँर्यमित्यपीदꣳ सर्व-न्दहेयं-यँदिद-म्पृथिव्यामिति ॥ 5॥
तस्मै तृण-न्निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति ॥ 6॥
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ 7॥
तदभ्यद्रवत्तमभ्यवदत्को-ऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ 8॥
तस्मिन्स्त्वयि किं-वीँर्यमित्यपीदं सर्वमाददीय यदिद-म्पृथिव्यामिति ॥ 9॥
तस्मै तृण-न्निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं-विँज्ञातुं-यँदेतद्यक्षमिति ॥ 10॥
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ 11॥
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमां हैमवती-न्ताग्ंहोवाच किमेतद्यक्षमिति ॥ 12॥
॥ इति केनोपनिषदि तृतीयः खण्डः ॥