View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

पाणिनीय शिक्षा

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।
शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥ 1॥

प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ 2॥

त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शंभुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥ 3॥

स्वराविंशतिरेकश्च स्पर्शानां पंचविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ 4॥

अनुस्वारो विसर्गश्च क पौ चापि पराश्रितौ ।
दुस्पृष्टश्चेति विज्ञेयो ॡकारः प्लुत एव च ॥ 5॥

आत्मा बुद्ध्या समेत्यार्थान्मनोयुंक्ते विवक्षया ।
मनः कायाग्निमाहंति स प्रेरयति मारुतम् ॥ 6॥

मारुस्तूरसिचरन्मंद्रं जनयति स्वरम् ।
प्रातःसवनयोगं तं छंदोगायत्रमाश्रितम् ॥ 7॥

कंठेमाध्यंदिनयुगं मध्यमं त्रैष्टुभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जागतानुगतम् ॥ 8॥

सोदीर्णो मूर्ध्न्यभिहतोवक्रमापद्य मारुतः ।
वर्णांजनयतेतेषां विभागः पंचधा स्मृतः ॥ 9॥

स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥ 10॥

उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ 11॥

उदात्ते निषादगांधारावनुदात्त ऋषभधैवतौ ।
स्वरितप्रभवा ह्येते षड्जमध्यमपंचमाः ॥ 12॥

अष्टौस्थानानि वर्णानामुरः कंठः शिरस्तथा ।
जिह्वामूलं च दंताश्च नासिकोष्ठौच तालु च ॥ 13॥

ओभावश्च विवृत्तिश्च शषसा रेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ 14॥

यद्योभावप्रसंधानमुकारादि परं पदम् ।
स्वरांतं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥ 15॥

हकारं पंचमैर्युक्तमंतःस्थाभिश्च संयुतम् ।
उरस्यं तं विजानीयात्कंठ्यमाहुरसंयुतम् ॥ 16॥

कंठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्धन्या ऋटुरषा दंत्या ऌतुलसाः स्मृताः ॥ 17॥

जिह्वामूले तु कुः प्रोक्तो दंत्योष्ठ्यो वः स्मृतो बुधैः ।
एऐ तु कंठतालव्या ओऔ कंठोष्ठजौ स्मृतौ ॥ 18॥

अर्धमात्रा तु कंठ्यस्य एकारैकारयोर्भवेत् ।
ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ 19॥

संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् ।
घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥ 20॥

स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥ 21॥

अनुस्वारयमानां च नासिका स्थानमुच्यते ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ 22॥

अलाबुवीणानिर्घोषो दंत्यमूल्यस्वरानुगः ।
अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च ॥ 23॥

अनुस्वारे विवृत्त्यां तु विरामे चाक्षरद्वये ।
द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः ॥ 24॥

व्याघ्री यथा हरेत्पुत्रांदंष्ट्राभ्यां न च पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ 25॥

यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते ।
एवं रंगाः प्रयोक्तव्याः खे अराँ इव खेदया ॥ 26॥

रंगवर्णं प्रयुंजीरन्नो ग्रसेत्पूर्वमक्षरम् ।
दीर्घस्वरं प्रयुंजीयात्पश्चान्नासिक्यमाचरेत् ॥ 27॥

हृदये चैकमात्रस्त्वर्द्धमात्रस्तु मूर्द्धनि ।
नासिकायां तथार्द्धं च रंगस्यैवं द्विमात्रता ॥ 28॥

हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरन् ।
मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम् ॥ 29॥

मध्ये तु कंपयेत्कंपमुभौ पार्श्वौ समौ भवेत् ।
सरंगं कंपयेत्कंपं रथीवेति निदर्शनम् ॥ 30॥

एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः ।
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥ 31॥

गीती शीघ्री शिरःकंपी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकंठश्च षडेते पाठकाधमाः ॥ 32॥

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः ॥ 33॥

शंकितं भीतिमुद्घृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरसिगं तथा स्थानविवजिर्तम् ॥ 34॥

उपांशुदष्टं त्वरितं निरस्तं विलंबितं गद्गदितं प्रगीतम् ।
निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ॥ 35॥

प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन ।
मध्यंदिने कंठगतेन चैव चक्राह्वसंकूजितसन्निभेन ॥ 36॥

तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् ।
मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ 37॥

अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥ 38॥

ञमोनुनासिका न ह्रौ नादिनो हझषः स्मृताः ।
ईषन्नादा यणो जशः श्वासिनस्तु खफादयः ॥ 39॥

ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते ।
दाक्षीपुत्रपाणिनिना येनेदं व्यापितं भुवि ॥ 40॥

छंदः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ 41॥

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्सांगमधीत्यैव ब्रह्मलोके महीयते ॥ 42॥

उदात्तमाख्याति वृषोऽंगुलीनां प्रदेशिनीमूलनिविष्टमूर्धा ।
उपांतमध्ये स्वरितं द्रुतं च कनिष्ठकायामनुदात्तमेव ॥ 43॥

उदात्तं प्रदेशिनीं विद्यात्प्रचयं मध्यतोऽंगुलिम् ।
निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ 44॥

अंतोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।
मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥ 45॥

अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिंद्राबृहस्पती ।
अग्निरित्यंतोदात्तं सोम इत्याद्युदात्तम् ।
प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥ 46॥

हविषां मध्योदात्तं स्वरिति स्वरितम् ।
बृहस्पतिरिति द्व्युदात्तमिंद्राबृहस्पती इति त्र्युदात्तम् ॥ 47॥

अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः ।
स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥ 48॥

चाषस्तु वदते मात्रां द्विमात्रं चैव वायसः ।
शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥ 49॥

कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् ।
न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ 50॥

सुतीर्थादगतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् ।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ॥ 51॥

मंत्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेंद्रशत्रुः स्वरतोऽपराधात् ॥

अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् ।
अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥ 53॥

हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ 54॥

हस्तेन वेदं योऽधीते स्वरवर्णर्थसंयुतम् ।
ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥ 55॥

शंकरः शांकरीं प्रादाद्दाक्षीपुत्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥ 56॥

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ 57॥

येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ 58॥

अज्ञानांधस्य लोकस्य ज्ञानांजनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ 59॥

त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः ।
स भवति धनधान्यपशुपुत्रकीर्तिमान् अतुलं च सुखं समश्नुते दिवीति दिवीति ॥ 60॥

॥ इति वेदांगनासिका अथवा पाणिनीयशिक्षा समाप्ता ॥




Browse Related Categories: