शांब उवाच
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥ 1 ॥
सप्ताश्व रथ मारूढं प्रचंडं कश्यपात्मजम् ।
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2॥
लोहितं रथमारूढं सर्व लोक पितामहम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 3॥
त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 4 ॥
बृंहितं तेजसां पुंजं [तेजपूज्यं च] वायु माकाश मेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ 5 ॥
बंधूक पुष्पसंकाशं हार कुंडल भूषितम् ।
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 6 ॥
विश्वेशं विश्व कर्तारं महातेजः प्रदीपनम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 7 ॥
तं सूर्यं जगतां नाथं ज्ञान विज्ञान मोक्षदम् ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 8 ॥
फलशृति
सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥
आमिषं मधुपानं च यः करोति रवेर्धिने ।
सप्त जन्म भवेद्रोगी जन्म कर्म दरिद्रता ॥
स्त्री तैल मधु मांसानि ये त्यजंति रवेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्यलोकं स गच्छति ॥
इति श्री शिवप्रोक्तं श्री सूर्याष्टकं संपूर्णम् ॥