View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

श्री कालिकाष्टकम्

ध्यानम्
गलद्रक्तमुंडावलीकंठमाला
महाघोररावा सुदंष्ट्रा कराला ।
विवस्त्रा श्मशानालया मुक्तकेशी
महाकालकामाकुला कालिकेयम् ॥ 1 ॥

भुजे वामयुग्मे शिरोऽसिं दधाना
वरं दक्षयुग्मेऽभयं वै तथैव ।
सुमध्याऽपि तुंगस्तना भारनम्रा
लसद्रक्तसृक्कद्वया सुस्मितास्या ॥ 2 ॥

शवद्वंद्वकर्णावतंसा सुकेशी
लसत्प्रेतपाणिं प्रयुक्तैककांची ।
शवाकारमंचाधिरूढा शिवाभिः
चतुर्दिक्षुशब्दायमानाऽभिरेजे ॥ 3 ॥

स्तुतिः
विरंच्यादिदेवास्त्रयस्ते गुणास्त्रीन्
समाराध्य कालीं प्रधाना बभूवुः ।
अनादिं सुरादिं मखादिं भवादिं
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 1 ॥

जगन्मोहिनीयं तु वाग्वादिनीयं
सुहृत्पोषिणी शत्रुसंहारणीयम् ।
वचस्तंभनीयं किमुच्चाटनीयं
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 2 ॥

इयं स्वर्गदात्री पुनः कल्पवल्ली
मनोजास्तु कामान् यथार्थं प्रकुर्यात् ।
तथा ते कृतार्था भवंतीति नित्यं
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 3 ॥

सुरापानमत्ता सुभक्तानुरक्ता
लसत्पूतचित्ते सदाविर्भवत्ते ।
जपध्यानपूजासुधाधौतपंका
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 4 ॥

चिदानंदकंदं हसन्मंदमंदं
शरच्चंद्रकोटिप्रभापुंजबिंबम् ।
मुनीनां कवीनां हृदि द्योतयंतं
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 5 ॥

महामेघकाली सुरक्तापि शुभ्रा
कदाचिद्विचित्राकृतिर्योगमाया ।
न बाला न वृद्धा न कामातुरापि
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 6 ॥

क्षमस्वापराधं महागुप्तभावं
मया लोकमध्ये प्रकाशीकृतं यत् ।
तव ध्यानपूतेन चापल्यभावात्
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 7 ॥

यदि ध्यानयुक्तं पठेद्यो मनुष्यः
तदा सर्वलोके विशालो भवेच्च ।
गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः
स्वरूपं त्वदीयं न विंदंति देवाः ॥ 8 ॥

इति श्रीमच्छंकराचार्यविरचितं श्रीकालिकाष्टकम् ।




Browse Related Categories: