अध्याय 1
वल्ली 3
ऋतं पिबंतौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे।
छायातपौ ब्रह्मविदो वदंति पंचाग्नयो ये च त्रिणाचिकेताः ॥ ॥1॥
यः सेतुरीजानानामक्षरं ब्रह्म यत्परम्।
अभयं तितीर्षतां पारं नाचिकेतं शकेमहि ॥ ॥2॥
आत्मानं रथिनं-विँद्धि शरीरं रथमेव तु।
बुद्धिं तु सारथिं-विँद्धि मनः प्रग्रहमेव च ॥ ॥3॥
इंद्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्।
आत्मेंद्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ ॥4॥
यस्त्वविज्ञानवान्भवत्ययुक्तेन मनसा सदा
तस्येंद्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ ॥5॥
यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा
तस्येंद्रियाणि वश्यानि सदश्वा इव सारथेः ॥ ॥6॥
यस्त्वविज्ञानवान्भवत्यमनस्कः सदाऽशुचिः।
न स तत्पदमाप्नोति संसारं चाधिगच्छति ॥ ॥7॥
यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः।
स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥ ॥8॥
विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ॥9॥
इंद्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः ॥ ॥10॥
महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥ ॥11॥
एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते।
दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥ ॥12॥
यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि।
ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छांत आत्मनि ॥ ॥13॥
उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदंति ॥ ॥14॥
अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगंधवच्च यत्।
अनाद्यनंतं महतः परं ध्रुवं निचाय्य तन्मृत्युमुखात् प्रमुच्यते ॥ ॥15॥
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम्।
उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ ॥16॥
य इमं परमं गुह्यं श्रावयेद् ब्रह्मसंसदि।
प्रयतः श्राद्धकाले वा तदानंत्याय कल्पते।
तदानंत्याय कल्पत इति ॥ ॥17॥